________________ अण्णउत्थिय 458- अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय (एवंभूयं वेयणं ति) यथाविधं कर्म निबद्धमेवं भूता मेव-प्रकारतयोत्पन्न वेदनामसातादिकर्मोदयं वेदयन्त्यनुभवन्ति। मिथ्यात्वं चैतद्वादिनामेवम्न हि यथा बद्धं तथैव सर्व कर्मा-ऽनुभूयते, आयुः कर्मणो व्यभिचारात्। तथाहि- दीर्घकाला-नुभवनीयस्याप्यायुः कर्मणोऽल्पीयसाऽपि कालेनानुभवो भवति, कथमन्यथाऽल्पमत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात्। कथं वा महासंयुगादौ जीवलक्षाणामप्येकदैव मृत्युरुपपद्येतेति। (अणेवं-भूयं पि त्ति) यथा बद्धं कर्म नैवम्भूताऽनेवम्भूता, अतस्ताम्। श्रूयन्ते ह्यागमे-कर्मणः स्थितिघातरसघातादयं इति। भ०५ श०५ उ०। अण्णउत्थिया णं भंते ! एवमाइक्खंति० जाव परूवेंति एवं खलु सव्वे पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति,से कहमेयं मंते ! एवं ? गोयमा ! जण्णं ते अण्णउत्थिया० जाव मिच्छं ते एवमाहंसु / अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमि-अत्थेगइया पाणा भूया जीवा सत्ता एगंतदुक्खं वेयणं वेयंति 1 आहच सायं / अत्थे- गइया पाणा भूया जीवा सत्ता एगतं सायं वेयणं वेयंति, आहच असायं वेयणं वेयंति / अत्थेगइया पाणा : वेमायाए वेयणं वेयंति, आहच सायमसायं / से केणद्वे णं०? गोयमा ! नेरइया णं एगतदुक्खं वेयणं वेयंति, आहच सायं / भवणवइवाणमंतरजोइसवेमाणिया एगंतं सायं वेयंति, आहच असायं / पुढविकाइया० जाव मणुस्सा वेमायाए वेयंति, आहच सायमसायं / से तेणढे णं० (अन्नउस्थियेत्यादि) (आहच सायं ति) कदाचित्सातां वेदनाम् / कथमिति ? उच्यते- "उववाएण च सायं, नेरइओ देवकम्मुणा वा वि"। (आहच असायं ति) देवा आहनन-प्रियविप्रयोगादिष्वसातां वेदनां वेदयन्तीति / (वेमाया य त्ति) विविधया मात्रया कदाचित्सातां, कदाचिदसातामित्यर्थः / भ०६ श०१० उ०) (१४)(शीलम्) शीलं श्रेयः, श्रुतं श्रेय इत्यत्रान्ययूथिकैः सह विवादःरायगिहे० जाव एवं वयासी-अणउत्थिया णं भंते ! एवमाइक्खंति० जाव परूवेति-एवं खलु सील सेयं, सुयं सेयं, सुयं सीलं सेयं / से कहमेयं मंते ! एवं ? गोयमा ! जं णं ते अणउत्थिया एवमाइक्खंति० जाव-जे ते एवमाहंसु, मिच्छा ते एवमाहंसु / अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमिएवं खलु मए चत्तारिपुरिसजाया पण्णत्ता। तं जहा- सीलसंपण्णे नाम एगे, नो सुयसंपण्णे (1) / सुयसंपण्णे नामं एगे नो शीलसंपण्णे (2) / एगे सीलसंपण्णे विसुयसंपण्णे वि (3) / एगे नो सीलसंपण्णे नो सुयसंपण्णे (4) / तत्थ णं जे से पढमे पुरिसजाए, सेणं पुरिसे सीलवं असुयवं उवरए अविण्णायधम्मे।। एस णं गोयमा ! मए पुरिसे देसाराहए पण्णत्ते (1) / तत्थ णं जे से दोच्चे पुरिसजाए, से णं पुरिसे असीलवं सुतवं अणुवरए विण्णायधम्मे, एस णं गोयमा ! मए पुरिसे देसविराहए पण्णत्ते (2) तत्थ णं जे से तचे पुरिसजाए से णं पुरिसे सीलवं सुतवं उवरए विण्णायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वाराहए पण्णत्ते (3) / तत्थ णं जे से चउत्थे पुरिसजाए, से णं पुरिसे असीलवं असुतवं अणुवरए अविण्णायधम्मे, एस णं गोयमा ! मए पुरिसे सव्वविराहए पण्णत्ते / अस्य चूर्ण्यनुसारेण व्याख्या- एवं लोकसिद्धन्यायेन खलु निश्चयेन इहाऽन्ययूथिकाः केचित्क्रियामात्रादेवाऽभीष्टाऽर्थ-सिद्धिमिच्छन्ति / न च किञ्चिदपि ज्ञानेन प्रयोजनं, निश्चेष्टत्वात्, घटादिकरणप्रवृत्तावाकाशादिपदार्थवत् / पठ्यते च -"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् / यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ||1|| तथा- "जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्सा एवं खुनाणी चरणेण हीणो, नाणस्सभागी नहुसर्गइए" ||1|| अतस्ते प्ररूपयन्तिशीलं श्रेयः प्राणातिपातादिविरमणध्यानाध्ययनादिरूपा क्रियैव श्रेयोऽति- शयेन प्रशस्यं, श्लाध्यपुरुषार्थसाधकत्वाच्छ्रेयं वा समाश्रयणीयं पुरुषार्थविशेषार्थिना / अन्ये तु ज्ञानादेवेष्टार्थसिद्धिमिच्छन्ति,न क्रियातः, ज्ञानविकलस्य क्रियावतोऽपि फलसिद्ध्यदर्शनात् / अधीयते च - "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात्"|१॥ तथा"पढमं नाणं तओदया, एवं चिट्ठइ सव्वसंजए। अण्णाणी किं काही किं वा, नाही छेयपावयं'' ||16 अतस्ते प्ररूपयन्ति-श्रुतं श्रेयः, श्रुतं श्रुतज्ञानं तदेव श्रेयोऽतिप्रशस्यमाश्रयणीयं वा, पुरुषार्थ-सिद्धिहेतुत्वात्, न तु शीलमिति। अन्ये तु ज्ञानक्रियाभ्यामन्योन्यनिरपेक्षाभ्यां फलमिच्छन्ति / ज्ञानं क्रियाविकलमेवोपसर्जनीभूतक्रि यं वा लदम् / क्रि याऽपि ज्ञानाविकला उपसर्जनीभूतज्ञाना वा फलदेति भावः / भणन्ति च - "किंचिद्वेदमयं पात्रं, किचित्पात्रंतपोमयम्। आगमिष्यति यत्पात्रं, तत्पात्रं तारयिष्यति"||१|| अतस्ते प्ररूपयन्ति -श्रुतं श्रेयः, तथा शीलं श्रेयः, द्वयोरपि प्रत्येकं पुरुषस्य पवित्रतानिबन्धनत्वादिति / अन्ये तु व्याचक्षतेशीलं श्रेयस्तावन्मुख्यवृत्त्या, तथा श्रुतं श्रेयः श्रुतमपि श्रेयो, गौणवृत्त्या तदुपकारित्वादित्यर्थः, इत्येकीयं मतम् / अन्यदीयमतं तु श्रुतं श्रेयस्तावत् / तथा शीलमपि श्रेयो, गौणवृत्त्या तदुपकारित्वादित्यर्थः / अयं चार्थ इह सूत्रे काकु पाठाल्लभ्यते / एतस्य च प्रथमव्याख्यानेऽन्ययूथिकमतस्य मिथ्यात्वं, पूर्वोक्तपक्षत्रयस्यापि फलसिद्धावनङ्ग त्यात्, समुदायपक्षस्यैव च फलसिद्धिकारणत्वात्। आह च - "नाणं पयासयं, सोहओ तवो संजमो य गुत्तिकरो। तिण्हं पि समाओगो, मोक्खो जिणसासणे भणिओ" ||1|| तपःसंयमौ च शीलमेव / तथा- "संजोगसिद्धीए फलं वयंति, न हुएगचक्केण रहो पयाइ / अंधो य पंगू य वणे समिचा, ते संपउत्ता नगरं पविट्ठा' / / 1 / / त्ति / द्वितीय-व्याख्यानपक्षे ऽपि मिथ्यात्यं, संयोगतः फलसिद्धेदृष्टत्वादेककैस्य प्रधानेतरविवक्षाया असङ्गतत्वादिति / अहं पुनर्गोतम ! एवमा-ख्यामि, यावत्प्ररूपयामीत्यत्र श्रुतयुक्तं शीलं श्रेय इत्येतावान् वाक्यशेषो दृश्यः / अथ कस्मादेवमत्रोच्यते(एवमित्यादि) एवं वक्ष्यमाणन्यायेन (पुरिसजाय त्ति) पुरुषप्रकाराः (सीलवं असुयवंति) कोऽर्थः? (उवरए अविण्णायधम्मे ति) उपरतो