________________ अण्णउत्थिय ४५१-अभिधानराजेन्द्रः - भाग 1 अण्णउत्थिय कुर्वत इत्यर्थः। (अकरणओ दुक्ख त्ति) अकरणमाश्रित्य अकुर्यत इति यावत् (नोखलु सा करणओदुक्खत्ति) अक्रियमाणत्वे दुःखतया तस्या अभ्युपगमात् / (सेवं वत्तव्वं सिया) अथ एवं पूर्वोक्तं वस्तु वक्तव्यं स्यादुपपन्नत्वादस्येति।अथान्य-यूथिकान्तरमतमाह- अकृत्यमनागतकालापेक्षया अनिर्वर्तनीयं जीवैरिति गम्यम्, दुःखमसातं तत्कारणं वा कर्म, तथा अकृत्यत्वादेवा-स्पृश्यमबन्धनीयं, तथा क्रियमाणं वर्तमानकाले कृतं, चातीतकाले तन्निषेधादक्रियमाणकृतं कालत्रयेऽपि कर्मणो बन्धनिषेधाद-कृताऽकृता / आभीक्ष्ण्ये द्विर्वचनं, दुःखमिति प्रकृतमेव / के इत्याह-प्राणभूतजीवसत्त्वाः / प्राणादिलक्षणं चेदम् - "प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः / जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः" // 1 // (वेयणं ति) शुभाशुभकर्मवेदनां पीडांवा वेदयन्त्यनुभवन्ति। इत्येतद्वक्तव्यं स्यादस्यैवोपपद्यमानत्वात् / यादृच्छिकं हि सर्वलोके सुखदुःखमिति।यदाह-"अतर्कितोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् / काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः" ||1|| (से कहमेयं ति) अथ कथमेतत् भदन्त ! एवमन्ययूथिकोक्तन्यायेनेति प्रश्न: ? (जण्णं ते अण्णउत्थिए) इत्याधुत्तरम्। व्याख्या चास्य प्राग्वत् / मिथ्या चैतदेवं यदिचलदेव प्रथमसमये चलितं न भवेत्तदा द्वितीयादिष्वपि तदचलितमेवेति न कदाचनापि चलेदत एव वर्तमानस्यापि विवक्षया अतीतत्वं न विरुद्धम् / एतच्च प्रागेव निर्णीतमिति न पुनरुच्यते / यचोच्यते-चलितकार्याकरणादचलितमेवेति / तदयुक्तम् / यतः प्रतिक्षणमुत्पद्यमानेषु स्थासकोशादिवस्तुष्वन्त्यक्षणभाविवस्तु आद्यक्षणे / स्वकार्य न करोत्येव, असत्त्वाद्, अतो यदन्त्य-समयचलितकार्य विवक्षितं परेण तदाद्यसमयचलितं यदि न करोति तदा क इव दोषोऽत्र कारणानां स्वस्वकार्यकरणस्वभावत्वादिति / यचोक्तम्-द्वौ परमाणू न संहन्येते, सूक्ष्मतया स्नेहाभावात् / तदयुक्तम् / एकस्यापि परमाणोः स्नेहसंभवात्। सार्द्धपुद्गलस्य संहतत्वेन तैरेवाभ्युपगमाच।यत उक्तम्(तिन्नि परमाणुपोग्गला एगयओ साहणंति, ते भिज्जमाणा दुहा वि तिहा विकचंति, दुहा कज्जमाणा एगयओ दिवड्डेत्ति) अनेन हि सार्द्धपुद्गलस्य संहतत्याभ्युपगमेन तस्य स्नेहोऽभ्युपगत एवेत्यतः कथं परमाण्वोः स्नेहाभावेन सङ्घताभाव इति। यच्चोक्तम्-एकतः सार्द्ध एकतःसार्द्ध इति / एतदप्यचारु / परमाणोरर्धी करणे परमाणुत्वाभावप्रसङ्गात् / तथा यदुक्तम्-पञ्च पुद्रलाः संहताः कर्मतया भवन्ति / तदप्य-सङ्गतम्। कर्मणोऽनन्तपरमाणु-तयाऽनन्तस्कन्धरूपत्वात्पञ्चाणुकस्य च स्कन्धमात्रत्वात् / तथा कर्मजीवावरणस्वभावमिष्यते, तच कथं पञ्चपरमाणुस्कन्धमात्ररूपं सदसङ्ख्यातप्रदेशात्मकं जीवमावृणुयादिति / तथा- यदुक्तम्-कर्म च शाश्वतम् / तदप्यसमीचीनम् / कर्मणः शाश्वतत्वे क्षयोपशमाद्य-भावेन ज्ञानादीनां हानेरुत्कर्षस्य चाभावप्रसङ्गात्। दृश्येते च ज्ञानादिहानिवृद्धी। तथा यदुक्तम्-कर्म सदा चीयते अपचीयतेचेति / तदप्येकान्तशाश्तत्वेनोपपद्यत इति। यच्चोक्तम्भाषणात्पूर्वं भाषा, तद्धेतुत्वात् / तदयुक्तमेव / औपचारिकत्वात् / उपचारस्य च तत्त्यतोऽवस्तुत्वात् / किञ्च / उपचारस्तात्त्विके वस्तुनि सति भवतीति तात्त्विकी भाषाऽस्तीति सिद्धम् / यथोक्तम्-भाष्यमाणा अभाषा, वर्तमानसमयस्याव्यावहारिकत्वात्। तदप्यसम्यक् वर्तमान समयस्यैवास्तित्वेन व्यवहाराङ्ग त्यादतीतानागतयोश्च विनष्टाऽनुत्पन्नतया सत्त्वेन व्यवहारानङ्ग त्वादिति / यचोक्तम् - भाषासमयेत्यादि / तदप्यसाधु / भाप्यमाणभाषाया अभावे भाषासमय इत्यस्याप्यमिलापस्याभावप्रसङ्गात् / यश्च प्रतिपाद्यस्याभिधेये प्रत्ययोत्पादकत्वादिति हेतुः / सोऽनैकान्तिकः / करादिचेष्टानामभिधेयप्रतिपादकत्वे सत्यपिभाषात्यासिद्धेः। तथा यदुक्तम्-अभाषकस्य भाषेति। तदसङ्गततरम्। एवं हि सिद्धस्याचेतनस्य वा भाषाप्राप्तिप्रसङ्ग इति / एवं क्रियाऽपि वर्तमानकाल एव युक्ता, तस्यैव सत्त्वादिति / यचानभ्यासाऽभ्यासादिकं कारणमुक्तम् / तचानै कान्तिकम् / अनभ्यासादावपियतः काचित्सुखादिरूपैव। तथा यदुक्तम्-अकरणतः क्रिया दुःखेति / तदपि प्रतीतिबाधितम् / यतः करणकाल एव क्रिया दुःखावा सुखावा दृश्यते, न पुनः पूर्व पश्चादा, तदसत्त्वादिति। तथा यदुक्तम्- 'अकिच' मित्यादि, यदृच्छावादिमताश्रयणात् / तदप्यसाधीयः / यतो यद्यकरणादेव कर्म दुःखं सुखं वा स्यात्तदा विविधैहिकपारलौकिकानुष्ठानाभावप्रसङ्गः स्यात् / अभ्युपगतं च किश्चित्पारलौकिकानुष्ठानं तैरपिचेति एवमेवत्सर्वमज्ञानविजृम्भितम्। उक्तं च वृद्धः - "परतित्थियवत्तव्व य, पढमसए दसमयम्मि उद्देसे। विभंगीणा देसा, मइभेया या विसा सव्या / / 1 / / सबभूयमसब्भूए, भंगा चत्तारि होति विन्भंगे। उम्मत्तवायसरिसं, तो अण्णाणं ति निढ़ि।।२।।" सद्भूतेपरमाणौ असद्भूतम दि, असद्भूते सर्वगात्मनि सद्भूतं चैतन्यं,सद्भूते परमाणौ सद्भूतं निष्प्रदेशत्वं, असद्भूते सर्वगात्मनि असद्भूतमकर्तृत्वमिति 4 / (अहं पुण गोयमा ! एवमाइक्खामि) इत्यादि तु प्रतीतार्थमेवेति, नवरं (दोण्हं परमाणुपोग्गलाणं अस्थि सिणेहकाए त्ति) एकस्यापि परमाणोः शीतोष्णस्निग्धरूक्षस्पर्शाना-मन्यतरदविरुद्ध स्पर्शद्रयमेकदैवा-स्ति / ततो द्वयोरपि तयोः स्निग्धत्वभावात् स्नेहकायोऽस्त्येव / ततश्च तौ विषमस्नेहा-त्संहन्येते / इदं च परमतानुवृत्त्योक्तम् / अन्यथा रूक्षावपि रूक्षत्यवैषम्ये संहन्येते / एवं यदाह- 'समनिद्धयाइ बंधो, न होइ समलुक्खयाइ वि न होइ। वेमायलुद्धनिक्खत्तणेण बंधो उखंधाणं" // 1 // ति। (खंधे वि यणं से असासए ति) उपचयापचयिकत्वाद्। अत एवाह-(सया समियमित्यादि) (पुचि भासा अभास त्ति) भाष्यत इति भाषा, भाषणाच पूर्व न भाष्यत इति न भाषेति / (भासिञ्जमाणी भास त्ति) शब्दार्थोपपत्तेः (भासिया अभास त्ति) शब्दार्थवियोगात् / (पुट्विं किरिया अदुक्ख त्ति) करणात्पूर्व क्रियैव नास्तीत्यसत्त्वादेवचन दुःखा, सुखाऽपिनासावसत्वादेव, केवलं परमतानुवृत्त्या दुःखेत्युक्तम्, 'जहा भासे त्ति' वचनात् / (कज्जमाणी किरिया दुक्खा) सत्त्वादिहापि यत्क्रियमाणा क्रिया दुःखेत्युक्तम्, तत्परमतानुवृत्त्यैव। अन्यथा सुखाऽपि क्रियामाणैव क्रिया। तथा (किरिया समयवितिकतं च णमित्यादि) दृश्यम् / (किचं दुक्खमित्यादि) अनेन च कर्मसत्ता वेदिता, प्रमाणसिद्धत्वादस्य / तथाहि- इह यद् द्वयोरिष्टा शब्दादिविषयसुखसाधनसमेतयोरेकस्य दुःखलक्षणं फल-मन्यस्येतरत्, न तद्विशिष्टहेतुमन्तरेणसम्भाव्यते, कार्यत्वात्, घट्वत् / यश्चासौ विशिष्टो हेतुः सकर्मेति। आह च-"जोतुल्लसाहणाणं, फले विसेसोण सो विणा हे। कज्जत्तणओ गोयमा ! घडो व्व हेऊ य से कम्म" ||14 भ०१ श०१ उ०।