________________ अण्णउत्थिय 449 - अभिवानराजेन्द्रः - भाग 1 अण्णउत्थिय एवमे कसमयकार्यतां द्वयोरप्यभिधायैक क्रियाकार्यतामाह(इहभवियाउयस्सेत्यादि) (पकरणयाए त्ति) करणेन, एवं खल्वित्यादि निगमनम् / (जणं ते अण्णउत्थिया एवमाइक्खंति) इत्याद्यनुवादवाक्यस्यान्ते तत्प्रतीतं, न केवलमित्ययं वाक्यशेषो दृश्यः / (जे ते एवमाहंसु मिच्छं ते एवमाहंसु त्ति) तत्र (आहंसु त्ति) उक्तवन्तः, यश्चायं वर्तमाननिर्देशेऽधिकृते ऽतीतनिर्देशः स सर्वो वर्तमानः कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिथ्यात्व-शास्यैवम्, एकेनाध्यवसायेन विरुद्धयोरायुषोर्बन्धायोगात् / यचोच्यते-पर्यायान्तरकरणे पर्यायान्तरं करोति, स्वपर्यायत्वादिति / तदनै कान्तिकम् / सिद्धत्वकरणे संसारित्वाकरणादिति टीकाकारव्याख्यानं तु-इहभवायुर्यदा प्रकरोति वेदयत इत्यर्थः, परभवायुस्तदा प्रकरोति प्रबध्नातीत्यर्थः, इहभवायुरुपभोगेन परभवायुर्बध्नातीत्यर्थः / मिथ्या चैतत्परमतम् / यस्माजातमात्रो जीव इहभवायुर्वेदयते, तदैव तेन यदि परभवायुर्बद्धं, तदा दानाध्ययनादीनां वैयर्थ्यं स्यादिति / एतच्चायुर्बन्धकालादन्यत्रावसेयम्। अन्यथाऽऽयुर्बन्धकाले इहभवायुर्वेदयते, परभवायुस्तु प्रकरोत्येवेति। भ०१श०६ उ०। (3) एको जीव एकस्मिन् समये द्वे आयुषी प्रकरोतीत्यत्र अन्ययूथिकैः सह विवादःअनन्तरोक्तं लवणसमुद्रादिकं सत्यं सम्यग्ज्ञानिप्रतिपादितत्वान्मिथ्याज्ञानिप्रतिपादितं त्वसत्यमपि स्यादिति दर्शय - स्तृतीयोद्देशकस्यादिसूत्रमिदमाह अण्णउत्थिया णं मंते ! एवमाइक्खंति, एवं भा-सेंति,एवं पण्णवेति, एवं परूवेति / से जहानामए जालगंठियाइ वा आणुपुस्विगंठिया अणंतरगंठिया परंपरगंठिया अण्णमण्णगंठिया अण्णमण्णगुरुयत्ताए अण्णमण्णमारियत्ताए अण्णमण्णगुरु संमारियत्ताए अण्णमण्णघडताए चिटुंति, एवामेव बहूर्ण जीवाणं बहूसु आजाइसहस्से सु बहूई आउयसहस्साई आणु पुव्विगंठियाइंजाव चिटुंति, एगे वियणं जीवे एगेणं समएणं दो आउयाइं पडिसंवेदयइ / तं जहा- इहमवियाउयं च परमवियाउयं चार्ज समयं इहमवियाउयं पडिसंवेदेइ,तं समयं परमवियाउयं पडिसंवेदेइ, जाव से कहमेयं भंते ! एवं? | गोयमा ! जंणं ते अण्णउत्थिया तं चेव जाव परमवियाउयं च जे ते एवमाहंसु ते मिच्छा? अहं पुण गोयमा ! एवमाइक्खामिजाव अण्ण-मण्णधडत्ताए चिट्ठति, एवामेव एगमेगस्स जीवस्स बहूहिं आजाइसहस्से हिं बहू हिं आउसहस्साई आणु-पुस्विगंठियाइं जाव चिटुंति, एगे वि यणं जीवे एगेणं समएणं एग आउयं पडिसंवेदेइ / तं जहा इहमविआउय वा परमविआउयं वा / जं समयं इहमवियाउयं पडिसंवेदेइ, नो तं समयं परमवियाउयं पडिसंवेदेइ,जं समयं परमवियाउयं पडिसंवेदेइ, णो तं समयं इहमवियाउयं पडिसंवेदे / इहमवियाउयस्स पडिसंवेदणायाए णो परमवियाउयस्स पडि संवेदणा / परभवियाउयस्स पडिसंवेदणाए, णो इह भवियाउयस्स-पडिसंवेदणा। एवं खलु | जीवे एगेणं समएणं एग आउयं पडिसंवेदेन / तं जहाइहमवियाउयं वा परमवियाउयं वा। (अण्णउत्थियाणमित्यादि) (जालगंठिय त्ति) जालं मत्स्यबन्धनं, तस्यैव ग्रन्थयो यस्यां या जालग्रन्थिका / किंस्वरूपा सेत्याह(आणुपुव्विगंठिय त्ति) आनुपूर्या परिपाट्या ग्रथिता गुम्फिता आधुचितग्रन्थीनामादौ विधानादन्तोचितानांच क्रमेणान्त एव करणात् / एतदेव प्रपञ्चयन्नाह - (अणंतरगंठिय त्ति) प्रथमग्रन्थीनामनन्तरव्यवस्थापितैथिभिः सह ग्रथिता अन-न्तरग्रथिता / एवं परम्परैर्व्यवहितैः सह ग्रथिता परम्परग्रथिता / किमुक्तं भवति(अन्नमनगंठिय त्ति) अन्योऽन्यं परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिता अन्योऽन्यग्रथिता / एवं च (अन्नमन्नगरुयत्ताए त्ति) अन्योऽन्येन ग्रन्थनाद् गुरुकता विस्तीर्णता, अन्योऽन्यगुरुकता, तया, (अन्नमन्नभारियत्ताए त्ति) अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिकं तद्भावस्तत्ता, तया, एतस्यैव प्रत्येको-क्तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह-(अन्नमन्नगरुयसंभारियत्ताए त्ति) अन्योऽन्येन गुरुकं यत्संभारिकं च तत्तथा, तद्भावस्तत्ता, तया (अन्नमनघड़त्ताए त्ति) अन्योऽन्यं घटा समुदायरचना यत्र तदन्योऽन्यघटं तद्वावस्तत्ता तया, (चिट्ठइत्ति) आस्ते, इति दृष्टान्तः / अथ दान्तिक उच्यते (एवामेव त्ति) अनेनैव न्यायेन बहूनां जीवानां संबन्धीनि (बहुस्सु आजाइसहस्सेसु त्ति) अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्क सहस्राणि तत्स्वामिजीयाना-माजातीनां च बहु-सहस्रसंख्यानत्वात् / आनुपूर्वाग्रथितानीत्यादि पूर्ववद् ध्या-ख्येयम् / नवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम्। अर्थतेषामायुषां को वेदनविधिरित्याह - (एगे वि येत्यादि) एकोऽपि जीयः आस्तामनेक एकेन समयेनेत्यादि प्रथमशतवत्। अत्रोत्तरम् (जे ते एवमाहंसु इत्यादि) मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवानां बहून्यायूंषिजालग्रथिकायत्तिष्ठन्ति तानि यथास्वं जीयप्रदेशेषु संबद्धानि स्युरसंबद्धानि वा ? यदि संबद्धानि, तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिका कल्पना कल्पाचितुं शक्या ?, तथापि तत्कल्पने जीवानामपि जालग्रन्थिकाकल्पत्वं स्यात्, तत्संबद्धत्वात् / तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्व भवभवनप्रसङ्ग इति / अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशादेवादिजन्मे ति न स्यादसंबन्धादेवेति / यचोक्तम्- एको जीव एकेन समयेन द्वे आयुषी वेदयति। तदपि मिथ्या। आयुर्द्वयसंवेदने युगपद्भवढ्यप्रसङ्गादिति। (अहं पुण गोयमेत्यादि) इह पक्षे जालग्रन्थिकासंकलिकामात्रम् / (एगमेगस्सेत्यादि) एकैकस्य जीवस्य न तु बहूनां, बहुष्वाजातिसहस्रेषु क्रमवृत्तेष्वतीतकालकेषु तत्कालापेक्षया सत्सु बहून्यायुस्सहस्राणि अतीतानि, वर्त-मानभवान्तान्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वाणि परस्परं प्रतिबद्धानि भवन्ति, न पुनरेकभव एव बहूनि (इहभवियाउयं व त्ति) वर्तमानभवायुः (परभवियाउयं व त्ति) परभवप्रायोग्यं यद्वर्तमानभवे निबद्धंतच परभवे गतो यदा वेदयति, तदा व्यपदिश्यते (परमवियाउयं वत्ति)। भ०५ श०३ उ०।