________________ अणेगंतवाय 440 - अभिवानराजेन्द्रः - भाग 1 अणेगंतवाय स्वरूपमवभासते, प्रतिभासभेदप्रसङ्गात् / यदि च तत्सर्वगतं पिण्डान्तरालेऽप्युपलभ्येत, स्वभावाविशेषादाश्रयाभावादनभिव्यक्त्यभ्युपगमेऽभिव्यक्तस्वरूपभेदात् सामान्यरूपता न स्यात् / न चाश्रयभावाभावादभिध्यक्त्यनभिव्यक्ति सत्प्रत्ययकत्ये नित्यैकस्वभावस्य युज्येते, तद्रूपयो गिनोऽप्येवं कथं नानैकान्तसिद्धिः? स्वाश्रयसर्वगताप्रकाशितायाः सर्वत्र प्रकाशितत्वात्मसकलवस्तुप्रपञ्चस्य सकृदुपलब्धिप्रसंगो न वा कस्यचिदुपलब्धिप्रसंगविशेषात् प्रकारान्तरेण प्रतीत्यभ्युपगमे, अनेकान्तवाद एव स्वतः सतां विशेषाणां सत्तासंबन्धानर्थक्यम्, असतां संबन्धानुपपत्तिरिति प्रसक्तेरक्रियासामान्यसंबन्धाद्व्यक्तीनामक्रियावत्वादव्यापकत्वं स्यात् / व्यक्तिव्यतिरेके व्यक्तिस्वलक्षणवत्त सामान्यमेव न भवेत् / व्यक्तीनां वा सामान्याव्यतिरेकाद् व्यक्ति स्वरूपहाने, सामान्यस्य तद्रूपता न भवेत् / न च व्यतिरेकाव्यतिरेकपक्षेऽप्यनवस्था, उभय पक्षदोषवैयधिकरण्यसंशयविरोधादिदोषप्रसङ्गात्। सर्वथा तदभावोऽनवस्थादिदोषस्य प्राक प्रतिषिद्धत्यात् / प्रतीयमानेऽपि तथा भूतेऽतिविरोदादिदोषासञ्जने प्रकारान्तरेण प्रतिभाससंभ-वात् सर्वशून्यताप्रसंगः।नच सैवास्त्विति वक्तव्यम् / स्व-संवेदनमात्रस्याप्यभावप्रसंगतो निःप्रमाणिकायाः तस्याप्यभ्यु-पगन्तुमशक्यत्वात् / तथापि तस्याभ्युपगमेन वरमनेकान्तात्मकं वस्त्वभ्युपगन्तव्यम्, तस्याबाधितप्रतीतिगोचरत्वात्। तेन रूपादिक्षणिकविज्ञानमात्रशून्यवादाऽभ्युपगमः, तथा पृथि-व्यायेकान्तनित्यत्वाभ्युपगमः, तथाऽऽत्माद्यद्वैतानङ्गीकरणं,तथा परलोकाभावनिरूपणं, द्रव्यगुणादेरत्यन्तभेदप्रतिज्ञानं च, तथा हिंसातो धर्माभ्युपगमः, यज्ञतो मुक्तिप्रतिपादनमित्याद्ये-कान्तवादिप्रसिद्धं सर्वमसत् प्रतिपत्तव्यम्, तत्प्रतिपादनहेतूनां प्रदर्शितनित्याऽनेकान्तव्याप्तत्वेन विरोधात्। इतर धर्मसव्यपेक्षस्यैकान्तवाद्यभ्युपगतस्य सर्वस्य पारमार्थिकत्वात्, अभि-ष्वङ्गादिप्रतिषेधार्थं विज्ञानमात्राद्यभिधानस्य सार्थकत्वात्। तथाहि 'अहमस्यैवाहमेवास्य' इत्येकान्तनित्यत्वस्वामिसंबन्धाद्यभिनिवेशप्रभवरागादिप्रतिषेधपरं क्षणिकरूपादिप्रतिपादनं युक्तमेव / सालम्बनज्ञानैकान्तप्रतिषेधपरं विज्ञानमात्राभिधानं सर्व विषयाभिष्वङ्ग निषेधप्रवणं शून्यताप्रकाशनं क्षणिक एवायं पृथिव्यादिरिति एकान्ताभिनिवेशमूलद्वेषादिनिषेधपरम्, तन्नित्यत्व प्रणयनं जात्यादिमदोन्मूलनानुगुणमात्माद्यद्वैतप्रका शनजन्मान्तरजनितकर्मफलभोक्तृत्वमेव धर्मानुष्ठानमित्येकान्तनिरासप्रयोग जनपरलोकाभावावबोधनं द्रव्याद्यव्यतिरेकै कान्तप्रतिषेधाय तद्भेदाख्यानम्। सम्म०।नं०। (६)येच (एकान्तवादिनोऽज्ञाः) विचेतनागमप्रतिपत्ति-मात्रमाश्रयन्ते, तेऽनवगतपरमार्था एवेति प्रतिपादयन्नाहपाडेक्कनयपहगयं, सुत्तं सुत्तधरसहसंतुट्ठा। अविकोवि असामत्था, जहागम विभाग पडिवत्ती॥१५६।। / प्रत्येकनयमार्गगतं सूत्रं क्षणिकाः सर्वसंस्कारा विज्ञान-मात्रमेवेदम्, भो जिनपुत्राः ! यदिदं त्रैधातुकमिति ग्राह्य-ग्राह्यकोभयशून्यत्वमिति, नित्यमेकं मण्डव्यापि निश्रियमित्यादि सदकारणवन्नित्यमिति "अत्मा रे! श्रोतव्यो ज्ञातव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादिसत्ता द्रव्यत्वसंबन्धात् / सद् द्रव्यं च, स्थितिपरलोकिनो-ऽभावात् परलोकाभावः / "चोदनालक्षणोऽर्थो धर्मः" / इति धर्माधर्मक्षयकरी दीक्षेत्यादिकमधीत्य सूत्रधरा वयमिति शब्दमात्रसंतुष्टा | गर्ववन्तोऽविकोविदसामर्थ्याः, अविकोविदमज्ञं सामर्थ्य येषां ते तथा, अविदितसूत्रव्यापारविषया इति यावत् / किमित्येवं त इत्याहयथाश्रुतमेवाविरुद्धा अविवे के न प्रतिपत्तिरेषामिति कृत्वा सूत्राभिधायिव्यतिरिक्त विषयवि-प्रतिपत्तित्वात् इतरजनवदज्ञा इत्यभिप्रायः। अथवा स्वयूथ्या एव एकनयदर्शने कतिचित्सूत्राण्यधीत्य केचित् सूत्रधरावयमिति गर्विता यथाऽवस्थितान्यनयसव्यपेक्षसूत्रार्थापरिज्ञानादवितथात्मविद्वत्स्वरूपा इति गाथाऽभिप्रायः // 156|| अथैषामेव नयदर्शनेन प्रवृत्तानां यो दोषस्तमुद्भावयितुमाहसम्मइंसणमिणमो,सयलसमत्तवयणिज्जणिद्दोसं। अप्पुक्कोसविणट्ठा, सलाहमाणा विणासें ति॥१५७।। सम्यग्दर्शनमेतत्परस्परविषयापरित्यागप्रवृत्तानेकनयात्मकम्, तच स्यान्नित्य इत्यादि सकलधर्मपरिसमाप्तवचनीयतया निर्दोषम्, एकनयवादिनः स्वविषयैस्तत्र व्यवस्थापनेनात्मोत्कर्षेण विनष्टा स्याद्वादाभिगमं प्रत्यनाद्रियमाणा वयं सूत्रधरा इत्यात्मानं श्लाघ्यमानाः सम्यग्दर्शनं विनाशयन्ति, तदात्मनि नयनस्थापयन्तीति यावत्। अथ नते आगमप्रत्यनीकाः, तद्भक्तत्वात, तद्देशपरिज्ञानवन्तश्चेति / / 157 / / कथं तद्विनाशयन्त्यत्राहण हु सासणभत्ती मेत्तएण सिद्धंतजाणओ होइ। ण वि जाणओ वि णियमा, पण्णवणा निच्छिओ णाम ?||158/ न च शासनभक्तिमात्रेण सिद्धान्तज्ञाता भवति / न च तदज्ञानवान् भावसम्यक्त्ववान् भवति, अज्ञानस्यार्थस्य विशिष्टरुचिविषयत्वानुपपत्तेः / तद्भक्तिमात्रेण श्रद्धानुसारितं यद् द्रव्यसम्यक्त्वमार्गानुसारि, अवबोधमात्रानुषक्तरुचिस्वभावं तु सर्व भावसम्यक्त्वसाध्यफलनिवर्तकम्, भावसम्यक्त्वनिमित्तत्वेनैव तस्य द्रव्यसम्यक्त्वमार्गानुसार्यवबोधसम्यक्त्वरूपतोपपत्तेः / न च जीवादि तत्त्वैकदेशज्ञाताऽपि नियमतोऽने कान्तात्मकवस्तुरूपप्रज्ञापनायां निश्चितो भवति, एकदेशज्ञ नवतः सकलधर्मात्मवस्तुज्ञानविकलतया सम्यक् तत्प्ररूपणासंभवात् / तथाहिसर्वज्ञो यथावस्थितैकदेशज्ञः, जीवादिसकलतत्त्वज्ञाता त्याग-मविदः सामान्यरूपतयाऽभिधीयते, मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेष्विति वचनात्। तत्त्वं तु- "जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः" / तत्र चेतनालक्षणो जीवः / तद्विपरीतलक्षणस्त्वजीवः, धर्माधर्माकाशकालपुद्गलभेदेन चासौ पञ्चधा व्यवस्थापितः / एतत्पदार्थद्वयान्तर्वर्तिनश्च सर्वेऽपि भावाः। न हि रूपरस-गन्धस्पर्शादयः साधारणासाधारणरूपा मूर्तचेतनाचेतनद्रव्य-गुणाः, उत्क्षेपणापक्षेपणादीनि च कर्माणि, सामान्यविशेषसमवायाश्च जीवाजीवव्यतिरेकेणाऽऽत्मस्थितिं लभन्ते / तद्भेदेनैकान्तत-स्तेषामनुपलम्भात्, तेषां तदात्मकत्वेन प्रतिपत्तेः। अन्यथा तदसत्त्वप्रसक्तैः। ततो जीवाजीवाभ्यां पृथग् जात्यन्तरत्वेन "द्रव्यगुणकर्मसामान्यविशेषसमवायाः" न वाच्याः। एवं "प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद जल्पवितण्भाहेत्वाभासच्छलजाति-निग्रहस्थानानि'' चन पृथगभिधेयानि / तथा - "प्रकृतेर्महाँस्त-तोऽहङ्कारस्तस्माद् गणश्च षोडशकः / तस्मादपि षोडशकात्, पञ्चभ्यः पञ्च भूतानि" / / 1 / / इति चतुर्विंशतिपदार्थाः पुरुषश्चेति न वक्तव्यम् / तथा दुःखसमुदायमार्गनिरोधाश्चत्वार्येव सत्यानीति न वक्तव्यम् / तथा