________________ अणेगंतवाय 439- अभियानराजेन्द्रः-भाग 1 अणेगंतवाय कारणाभिमते वस्तुन्यसत्त्वे च भवतस्तदनन्तरभावित्वस्य दुर्घटत्वादितरविनष्टादपि च तस्य भावो भवेत्, तदभावाविशेषात् / न चान्तरस्यापि कार्योत्पत्तिकालमप्राप्य विनाशमनुभवतश्विरातीत-स्येव कारणता / यतोऽर्थक्रिया क्षणक्षये न विरुध्येत / प्राक्कालभावित्वेन कारणत्वे सर्व प्रति सर्वस्य कारणता प्रसज्येत, सर्ववस्तुक्षणानां विवक्षितकार्य प्रति भावित्वाविशेषात् / तथा च स्वपरसन्तानव्यवस्थाऽप्यनुपपनैवस्यात्।नचसादृश्यात्तद्व्यवस्था, सर्वथा सादृश्ये कार्यस्य कारणरूपताप्रसक्तेरेकक्षणमात्रं सन्तानः प्रसज्येत / कथञ्चित्- सादृश्येनैकान्तवादप्रसक्तिः / न च सादृश्य भवदभिप्रायेणास्ति, सर्वत्र वैलक्षण्याविशेषात् / अन्यथा स्वकृतान्तप्रकोपवन्नोचक्षणिकैकान्तवादिनोऽन्वयव्यतिरेकि-प्रतिपत्तिः संभवतीति साध्यसाधनायास्त्रिकालविषयायाः साकल्येन व्याप्तेरसिद्धे। यत्सत्तत् सर्वं क्षणिकं यथा शङ्खशब्द इत्याद्यनुमान-प्रवृत्तिः कथं न भवेत् ? अकारणस्य च प्रमाणविषयत्वमभ्युपगम साध्यसाधनयोस्त्रिकालविषयव्याप्तिग्रहणं दूरोत्सारितत्वात् / 'नाननुकृतान्धयव्यतिरेकं कारणं विषयः" इतिवचनमनु-मानोच्छेदकप्रसक्तं ग्राह्यग्राहकाकारज्ञानैकत्ववत्, ग्राह्या-कारस्यापि युगपदनेकार्थावभासिनश्चैवैकरूपता एकान्तवादं प्रतिक्षिपति / एवं भ्रान्त्याऽऽत्मनश्च सदर्शनस्यान्तर्बहिश्व भ्रान्तात्मकत्वं कथ-श्चिदभ्युपगन्तव्यम्। अन्यथा कथं स्व-संवेदनाध्यक्षता तस्य भवेत् ? तदभावे च कथं तत्स्वाभावसिद्धिर्युक्ता? कथं च भ्रान्तज्ञानं भ्रान्तिरूपतयाऽऽत्मानमसंविदत् ज्ञानरूपतया चावगच्छन्नन्तर्बहि-स्तथा नावगच्छेत् / यतो भ्रान्तकान्तरूपताऽऽधुपलुतदृशां भवेत्, कथं च भ्रान्त-विकल्पज्ञानयोः स्वसंवेदनमभ्रान्तमविकल्पकंवाऽभ्यु-पगच्छन्ननेकान्तंनाभ्युगच्छेत् ? / ग्राह्यग्राहकवृत्त्याकार- विवेकसंविदं स्वसंवेदनेनासंवेदयन् संविद्रूपतां वाऽनुभवन् कथं क्रमभाविनोर्विकल्पेतरात्मनोरनुगतसंवेदनात्मानमनुभवप्रसिद्ध प्रतिक्षिपेत्। ततः क्रमसहभाविनः परस्परविलक्षणान्स्वाभावान वाऽनन्यथावस्थितरूपतया व्याप्नुवतः सकल-लोकप्रतीतं स्वसंवेदनम्, अनेकान्ततत्त्वव्यवस्थापकमेकान्तवादप्रतिक्षेपि प्रतिष्ठितमिति / निरंशक्षणिकस्वलक्षण-मन्तर्बहिश्वानिश्चितमपि संवित्तिर्विषयीकरोतीति कल्पना-ऽयुक्तिसंगतैव, अप्रमाणप्रसिद्धि कल्पनायाः सर्वत्र निरङ्कशत्वात् / सकलसर्वज्ञताकल्पनप्रसक्तेन ह्येकस्य संवित्तिः परस्यासंवित्तिः / नहि वास्तवसंबन्धाभावे परिकल्पितस्य नियामकत्वं युक्तम्, अतिप्रसङ्गात्।नच वास्तवः संबन्धः परस्य सिद्ध इति तादा-त्म्यतदुत्पत्त्योरभावात् साध्यसाधनयोः प्रतिबन्धनियमाभावेऽनुमानप्रवृत्तिर्दूरोत्सारितैव / अथ क्षणिकाद् निवर्तमानमप्यर्थक्रियालक्षणं सत्त्वमक्षणिके च स्थास्यतीति न ततोऽनेकान्तात्मकवस्तुसिद्धिः / ना क्षणिकेऽपि, क्रमयोगपद्याभ्यां तस्य विरोधात्। तथाहि-नतावद क्षणिकस्य क्रमवत्कार्य-कारणं प्राक् तकरणसमर्थस्याभिमतक्षणवत् तदकरणविरोधात्-प्राक् तदसामर्थ्य पश्चादपिन तत्सामर्थ्यमपरिणामिनोऽना-धेयातिशयत्वात्। स्वभावोत्पत्तिविनाशाभ्युपगमेऽपि नित्य-कान्तवादविरोधात् / ततो व्यतिरिक्त स्यातिशयस्य करणे -ऽनतिशयस्य प्रागिव पश्चादपि तत्करणासंभवात् / सहका-रिणोऽपेक्षाऽपि तस्याऽयुक्तव, यतोऽसहायस्य प्रागकरणस्वभावस्य पुनः सश्रीसहायस्य कार्यकरणं भवेत्, नहि सहकारिकृत-मतिशयमनङ्गीकुर्वतस्तदापक्षोपपत्तिमति तत्र क्रमेणापरिणामी भावः कार्यं निवर्तयति, नापि यौगपद्येन कालान्तरे, तस्याकिञ्चित्कर-त्वेनावस्तुत्वापत्तेः क्षणमात्रावस्थायित्वप्रसक्तेः नच क्रमयोगपद्य-व्यतिरिक्त प्रकारान्तरं संभवतीत्यर्थक्रिया व्यापिका निवर्तमाना व्याप्यां सत्यां नित्यादप्यादाय निवर्तत इति / यत् सत्तत् सर्वमनेकान्तात्मकं सिद्धम्, अन्यथा प्रसक्तादिविरोधप्रसक्तेः / न हि भेदमन्तरेण कदाचित् कस्यचिदभेदोपलिब्धः, हर्षविषादाधनेकाकारविवर्तात्मकस्यान्तश्चैतन्यस्य संवेदनाध्यक्षतो वर्णसंस्थानसदाधनेकाकारस्य स्थूलस्य पूर्वापरस्वभावपरित्यागोपादानात्म-कस्य घटादेब हिरेकस्येन्द्रियजाध्यक्षतः संवेदनात् / सुखादिरूपादिभेदविकलतया चैतन्यघटादेः कदाचिदप्युपलम्भागोचरत्वात् महासामान्यस्यावान्तरसामान्यस्य वा सर्वगतासर्वगतधर्मात्मकता समवायस्य चानवस्थादोषतः संबन्धेतराभावात् द्रव्यगुणकर्मसामान्यविशेषाणामन्योन्यं तादात्म्यानिष्ठौ तेष्यवृत्तेः सर्वपदार्थस्वरूपाप्रसिद्धिः स्यात् / स्वत एव समवायस्यद्रव्यादिषु वृत्तौ समवायमन्तरेणापि द्रव्यादावपि स्वाधारेषु वृत्तिं स्वत एवं तस्मात् करिष्यन्तीति समवायकल्पनावैयर्थ्यप्रसक्तिवद्भेदप्रसक्तिषडंश-. प्रतिपत्तेः / अगृहीत- स्वभावाद् गृहीतस्वभावस्य द्रव्यस्य चातद्वतां सामस्त्येन ग्रहणासंभवात् कथंतदग्रहे तद्ग्रहणं भवेत् ? अधाराप्रतिपत्तौ तदाधेयस्य तत्त्वेनाप्रतिपत्तेः / सामान्यायंशेषु गृहीतेष्वपि सामान्यादेः वृत्तिविकल्पादिदोषस्तेष्वपि पूर्ववत् समानः, तदाधेयस्य तत्त्वेनाप्रतिपत्तेः। तदंशग्रहणेऽपि च सामान्यस्य व्यापितः कदाचिदप्यप्रतिपत्तेः सव्व्यमित्यादिप्रतिपत्तिस्तद्वत्सुन कदाचिद्भवेत्, तदंशानां सामान्यादेरत्यन्तभेदात् / एवं द्रव्यादिषट्पदार्थव्यवस्थाऽप्यनुपपन्ना भवेत्, प्रतिभासगोचर- चारिणां सामान्यादंशानां पदार्थान्तरताप्रसक्तेः / अथ निरंशं सामान्यमभ्युपगम्यते इति नाऽयं दोषः, तर्हि सकलस्वा-श्रयप्रतिपत्त्यभावतो मनागपि न सामान्यप्रतिपत्तिरिति सद् द्रव्यं पृथिवीत्यादिप्रतिपत्तेर्नितरामभावः स्यात् / तदंशानां सामान्याद् भेदाभेदकल्पनायां द्रव्यादय एव भेदाभेदात्मकाः किं नाभ्युपगम्यन्तें ? इति सामान्यादिकल्पना दूरोत्सरितैवेति कुतस्त-द्वेदैकान्तकल्पना? ततः सामान्यविशेषात्मकं सर्व वस्तु, सत्त्वात् / नहि विशेषरहितं सामान्यमानं सामान्यरहितं वा विशेषमात्रं संभवति तादृशः क्वचिदपि, वृत्तिविरोधात् / वृत्त्या हि सत्त्वं व्याप्तं स्वलक्षणात्सामान्यलक्षणाद् वा तादृशाद् वृत्तिनिवृत्त्या निवर्तत एव, यतः क्वचिद् वृत्तिमतोऽपिस्वलक्षणस्य न देशान्तरवृत्तिः, नान्येन संयोगः, तत्संसर्गव्यवच्छिन्नस्वभावान्तरविरहाद्विशेषविकलः, सामान्यवत् / एकस्य प्रतिसंबन्धस्वभावविशेषाभ्युपगमविशेषाणां तत्स्वलक्षणं सामान्यलक्षणमेव स्यात्।नच विशेषैरन्यदेशस्थितैः असंयुक्तस्यैकत्रतस्य वृत्तिः, अव्यवधानाविशेषात्। एवं चस्वभावविशेषाणां सामान्य-रूपाः सर्व एव भावाः विशेषरूपाश्च तत्र देशकालावस्था-विशेषनियतानां सर्वेषामपि सत्त्वं सामान्यमेकरूपम्, अव्यवधानात् / तस्य च ते विशेषा एव, अनेकरूपम्, यतस्तदेव सत्त्वं परिणामविशेषापेक्षया गोत्वब्राह्मणत्वादिलक्षणा जातिः, परिणामविशेषाश्च तदात्मका व्यक्तय इति / परस्परव्यावृत्तानेक परिणामयोगादेकस्यैकानेकपरिणतिरूपता संशयज्ञानस्येवा-विरुद्धा व्यक्तिव्यतिरिक्तस्य सामान्यस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिः, शशशृङ्ग वदसत्त्वात् / सत्त्वरूपादिप्रत्ययः सामान्यविशेषात्मकवस्त्वभावेऽबाधितरूपो न स्यात् / न च चक्षुरादिः बुद्धौ वर्णाकृत्यक्षराकारशून्यं सामान्यपरव्यावर्णित