________________ अणेगंतवाय 437 - अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय तदभिव्यज्येत / न च कांद्यानामेव तद-भिव्यक्तिसामर्थ्य, न शावलेयादीनामिति वाच्यम् / यतो यया प्रत्यासत्या ता एव तदात्मन्यवस्थापयन्ति तयैव ता एवाश्वोऽश्व इत्येकाकारपरामर्शप्रत्ययमुपजनयिष्यन्तीति किमपरतद्-भिन्नसमान्यप्रकल्पनया? नच स्वाश्रयेन्द्रियसंयोगात् प्राक् स्वज्ञानजनने असमर्थ सामर्थ्यं तदा परैरनाधेयातिशयं तमपेक्ष्य स्वावभासिज्ञानं जनयति, प्राक्तनासमर्थस्वभावापरित्याग-स्वभावान्तरानुत्पादे च तदयोगात् / तथाऽभ्युपगमे च क्षणिक-ताप्रसक्तेः नचस्वभावेतरस्योपजायमानस्य ततो भेदः, संबन्धा-सिद्धित-स्तद्भावेऽपि प्राग्वत्तस्य स्वावभासिज्ञानजननायोगान्न प्रतिभासः स्यात् / तथा च सामान्यस्य व्यक्तिभ्यो भेदेनाप्रतिभास-मानस्यासिद्धत्वार्थ हेतुत्वम् / किश / प्रतिव्यक्तिसामान्यस्य सर्वात्मना परिसमाप्तत्वाभ्युपगमात् एकस्यां व्यक्ताविव, शतस्वरूपस्य तदैव व्यक्त्यन्तरे वृत्त्यनुपपत्तेस्तदनुरूपप्रत्ययस्य तत्रासंभवाद् असाधारणता हेतोः स्यात् / यदि चासाधारणरूपा व्यक्तयः स्वरूपतस्तदा परसामान्ययोगादपि न साधारणतां प्रतिपद्यन्त इति व्यर्था. सामान्यप्रकल्पना, स्वतोऽसाधारणस्यान्ययोगादपि साधारणरूपत्वाद् व्यक्तयः, स्वरूपतस्तदा परसामान्ययोगादपि न साधारणता, अनुपपत्तेः / स्वतस्तद्रूपत्वेऽपि निष्फला सामान्यप्रकल्पनेति व्यक्तिव्यति-रिक्तस्य सामान्यस्याभावाद-सिद्धस्तल्लक्षणो हेतुरिति कथं ततः साध्यसिद्धिः? अथ व्यक्तिव्यतिरिक्तं सामान्यं हेतुः। तदप्यसङ्गतमेव। व्यक्तिव्यतिरिक्तस्य व्यक्तिस्वरूपवद् व्यक्त्यन्तराननुगमात् सामान्यरूपताऽनुपपत्तेः / व्यक्त्यन्तरे साधारणस्यैव वस्तुनः सामान्यमित्यभिधानात् / तस्यासाधारणत्वे वा न तस्य व्यक्तिस्वरूपाव्यतिरिच्यमानमूर्तिता, सामान्यरूपतया भेदाऽव्यतिरिच्यमानस्वरूपस्य विरोधात् / तन्न व्यतिरिक्तमपि सामान्यहेतुः, व्यक्तिस्वरूपवदसाधारणत्वेन गमकत्वायोगात्।अत एवन व्यक्तिरूपमपि हेतुः। न चोभयं परस्पराननुविद्धं हेतुः, उभयदोषप्रसंगात्। नाप्यनुभयम्, अन्योन्यव्यवच्छेदरूपाणामेकाभावे द्वितीयविधानादनुभय-स्यासत्त्वेन हेतुत्यायोगात् / बुद्धिप्रकल्पितं च सामान्य वस्तुरूपत्वात् साध्येनाप्रतिबद्धत्वादसिद्धत्वाच, न हेतुः / तस्मात्पदार्थान्तरानुवृत्तव्यावृत्तरूपमात्मानं बिभ्रदेकमेव पदार्थस्वरूपं प्रतिपत्तुर्भे दाभेदप्रत्ययप्रसूतिनिबन्धनं हेतुत्वेनोपादीयमानं तथाभूतसाध्यसिद्धिनिबन्धनमभ्युपगन्तव्यम्। न च यदेव रूपं रूपान्तराद्ध्यावर्तते, तदेव कथमनुवृत्तिमासादयति ? तचानुवर्तते, तत्कथं व्यावृत्तिरूपतामात्मसात्करोतीति वक्तव्यम् ? भेदाभेदरूपतयाऽध्यक्षतः प्रतीयमाने वस्तुस्वरूपे विरोधासिद्धेरित्यसकृदावेदितत्वात् / किञ्च / एकान्तवाद्युपन्यस्तहेतोः किं सामान्यं साध्यम् ? आहोस्विद्विशेषः, उतोभयं परस्परविविक्तम्, उतस्विदनुभयमिति विकल्पाः ? तत्र न तावत्सामान्यम्, केवल-स्यासंभवात्, अर्थक्रियाकारित्वविकलत्वाच / नापि विशेषः, तस्याननुयायित्वेन साधयितुमशक्यत्वात्। नाप्युमयम, उभयदोषानतिवृत्तेः / नाप्यनुभयम्, तस्यासतो हेत्वव्यापकत्वेन साध्यत्वायोगात्। एतदेवाह गाथापश्चार्द्धन, अन्योन्यप्रतिकुष्टौ प्रतिक्षिप्तौ द्वावप्येतौ सामान्यविशेषकान्तावसद्वादाविति, इतरविनिर्मुक्तस्यैकस्य शशशृङ्गादेरिव साधयितुमशक्यत्वात्। सामान्यविशेषयोः स्वरूपं परस्परविविक्तमनूद्य निराकुर्वन्नाह दव्वट्ठिय-वत्तव्यं, सामन्नं पज्जवस्सय विसेसो। एए समोवणीया, विभजवायं विसेसेंति।।१५३| द्रव्यास्तिकत्य वक्तव्यं वाच्यं विशेषं निरपेक्ष्य सामान्यमात्रम्, पर्यायास्तिकस्य पुनरनुस्यूताकारविविक्तो विशेष एव वाच्यः / एतौ च सामान्यविशेषावन्योन्यनिरपेक्षौ, एकैकरूपतया परस्पर-प्रधानेन एकत्रोपनीतौ प्रदर्शितौ, विभज्यवादमनेकान्तवादं सत्पपथादस्वरूपमतिशयाते, असत्यरूपतया ततस्तावतिशयं लभेते इति यावत्। विशेषे साध्येऽनुगमाभावतः, सामान्ये साध्ये सिद्धसाधन-वैफल्यतः, प्रधानोभयरूपे साध्ये उभयदोषापत्तितः, अनुभयरूपे साध्ये उभयाभावतः, साध्यत्वायोगात् / तस्माद्-विवादास्पदीभूतसामान्यविशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिण्यन्योन्यानविद्धसाधर्म्यवैधर्म्यस्वभावद्वयात्मक कहेतुप्रदर्शनतो नैकान्तवादपक्षोक्तदोषावकाशः संभवति / अत एव गाथापश्चार्धे नैतौ सामान्यविशेषौ समुपनीतौ परस्परसव्यपेक्षतया स्याद्वादप्रयोगतो धर्मिण्यवस्थापितौ विभज्यवादमेकान्तवादं विशेषयतो निराकृतः अत एव तयोरात्मलाभात् / अन्यथाऽनुमानविषयस्योक्तन्यायेनासत्वादित्यपि दर्शयति। यत्रानुमानं विषयतयाऽभ्युपगन्तव्यमिति दर्शयन्नाहहेउविसओवणीयं,जह वयणिज्जं परो नियत्तेइ। जइ तं जहा पुरिल्लो, दाइं तो केण जिचंति ? ||153 / / हेतुविषयतयोपनीतमुपदर्शितं साध्यधर्मिलक्षणं वस्तु पूर्व-पक्षवादिना 'अनित्यः शब्दः' इत्येव यथा वचनीयं परो दूषणवादी निवर्तयति, सिद्धसाध्यताऽननुगमदोषाधु पन्यासे नै कान्तवचनीयस्य तदितरधर्माऽननुषक्तस्यानेकदोषदुष्टतया निवर्तयितुं शक्यत्वात्। यदि तत्तथा द्वितीयधर्माक्रान्तं स्यात्, शब्दयोजनेन 'पुरिल्लः पूर्वपक्षवादी अदर्शयिष्यत्, ततोऽसौ नैव केनचिदजेष्यत / ततश्चासौ तथाभूतस्य साध्यधर्मिणः प्रदर्शनात् प्रदर्शितस्य चैकान्त-रूपस्यासत्त्वात्, तत्प्रदर्शकोऽसत्यवादितया निग्रहाऽर्ह इति। एतदेव दर्शयन्नाहएगतासब्भूयं, सब्भूयमणिच्छियं च वयमाणो। लोइयपरिच्छियाणं, वयणिज्जपहे पडइवाई ||15|| आस्तांतावदैकान्तेनासद्भूतमसत्यं, सद्भूतमप्यनिश्चितं वदन् वादी लौकिकानां परीक्षकाणां वचनीयमार्ग पतति / ततोऽनेकान्तात्मकाखेतोः तथाभूतमेव साध्यधर्मिणं साधयन् वादी सद्वादी स्यादिति तथैव साध्याविनाभूतो हेतुधर्मिणि तेन प्रदर्शनीयः। तत्प्रदर्शने हेतोः सपक्षविपक्षयोः सदसत्त्वमवश्यं प्रदर्शनीयमिति यदुच्यते परैः / तदपास्तं भवति / तावन्मात्रादेव साध्यप्रतिपत्तेः / न च ततस्तत्प्रतिपत्तावपि विद्यमानत्वाद्पान्तरमपितत्रावश्यं प्रदर्शनीयम्, ज्ञानत्वादेरपि तत्र प्रदर्शनप्रसक्तेः। अथ सामर्थ्यात् तत्प्रतीयत इति न वचनेन प्रदर्श्यतेतन्वियव्यतिरेका-वपितत एवावश्यं प्रदर्शनीयौ,, अत एव दृष्टान्तोऽपि नावश्यं वाच्यः / साधर्म्यवैधयंप्रदर्शनपरत्वात्त्वस्योपनयनिगमन-वचनयोस्तु दुरापास्तता, तदन्तरेणापि साध्याविनाभूतहेतुप्रदर्शनमात्रात् साध्यप्रतिपत्त्युत्पत्तेरन्यथा तदयोगात् / त्रिलक्षणहेतुप्रदर्शनवादिनस्तुनिरंशवस्त्वभ्युपगमविरोधः, निरंशे लक्षण्य-विरोधात् / परिकल्पितस्वरूपत्रैरूप्याभ्युपगमो