________________ अणेगंतवाय 436 - अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय एतेन पक्षसपक्षान्यतरत्वादेरपि प्रकरणसमस्य व्युदासः कृतो द्रष्टव्यः, न्यायस्य समानत्वात् / यदप्यत्रासाधारणत्वासिद्धत्वदोषद्वयनिरासार्थमन्यतरशब्दाभिधेयत्वं पक्षसपक्षयोः साधारणं हेतुत्वेन विवक्षितम्, अन्यतरशब्दात् तथाविधार्थप्रतिपत्तेस्तस्य तत्र योग्यत्वादित्यभिधानम्। तदप्यसङ्गतम्। यतो यत्रानियमेन फलसंबन्धो विविक्षितो भवति, तत्रैव लोकेऽन्यतरशब्दप्रयोगो दृष्टः। यथादेवदत्तयज्ञदत्तयोरन्यतरं भोजयेत्यत्रानियमेन देवदत्तो यज्ञदत्तो वा भोजनक्रियया संबध्यते, इत्यन्यतरशब्दप्रयोगः / न चैवं शब्दः पक्षसपक्षयोरन्यतरः, तस्य पक्षत्वेनान्यतरशब्दवाच्यत्वायोगाता यदपि यदा पक्षधर्मत्वं प्रयोक्ता विवक्षति, तदाऽन्यतरशब्दवाच्यः पक्ष इत्याद्यभिधानम् / तदप्यसङ्गतम् / एवं विवक्षायामस्य कल्पनासमारोपितत्वेऽनर्थरूपतया लिङ्ग त्वानुपपत्तेः / नहि कल्पनाविरतस्यार्थत्वं, त्रैरूप्यं वोपपत्तिमत्, अतिप्रसङ्गात्। तत्त्वे वाऽन्यस्य गमकतानिबन्धनस्याऽभावात् सम्यग्धेतुत्वं स्यादित्युक्तं प्राक् कालात्ययापदिष्टस्य तुल्यलक्षणमसङ्गतमेव / नहि प्रमाणप्रसिद्धत्रैरूप्यसद्धावे हेताविषयबाधा संभाविनी, तयोर्विरो-धात्। साध्यसद्भाव एव हेतोर्धर्मिणि सद्भावस्वैरूप्यम्, तदभाव एव च तत्र तत्सद्भावो बाधा, भावाभावयोश्चैक कस्य विरोधः / किं चाध्यक्षागमयोः कुतो हेतुविषयबाधकत्वमिति वक्तव्यम् / स्वार्थासंभवे तयोर्भावादिति चेत्हेतावपि सति त्रैरूप्ये तत्समानमित्यसावपितयोर्विषयो बाधकः स्यात्। दृश्यते हि चन्द्रार्कादिस्थैर्यग्राह्यध्यक्षं देशान्तरप्राप्तिलिङ्ग प्रभवतदत्यनुमानेन बाध्यमानम्। अथ तत्स्थैर्य-ग्राह्यध्यक्षस्यातदाभासत्याद् बाध्यत्वं तर्षे कशाखाप्रभवत्वा-नुमानस्यापि तदाभासत्वाद् बाध्यत्वमित्यभ्युपगन्तव्यम् / न चै-वमस्त्विति वक्तव्यम्, यतस्तस्य तदाभासत्वं किमध्यक्षबाध्यत्वादुत त्रैरूप्यवैकल्यात् / न तावदाद्यः पक्षः / इतरेतराश्रयदोषसद्भावात् / तदाभासत्वेऽध्यक्षबाध्यत्वम्, ततश्च तदाभासत्वमित्येका-सिद्धावन्यतराप्रसिद्धेः / नापि द्वितीयः / त्रैरूप्यसद्धावस्य तत्र परेणाभ्युपगमात् / अनभ्युगमे वा तत एव तस्यागमकत्वोप-पत्तेरध्यक्षबाधाऽभ्युपगमवैयात् / न चाबाधितविषयत्वं हेतुलक्षणमुपपन्नम्, त्रैरूप्यवनिश्चितस्यैव तस्य गमकाङ्गत्वोपपत्तेः / न च तस्य निश्चयः संभवति, स्वसंबन्धिनोऽबाधितत्वनिश्चयस्य तत्कालभाविनोऽसम्यगनुमानेऽपि ससाध्यवनिश्चितस्यैव तस्य गमकाङ्गत्योपपत्तेः / न च तस्य निश्चयः संभवति, स्वसंबन्धिनोऽबाधितत्वनिश्चयस्य तत्कालभाविनोऽसम्यग्भावादुत्तरकालभाविनश्चासिद्धत्वात् नार्वागदृशा सर्वत्र सर्वदा सर्वे-षामत्र बाधकस्याभाव इति निश्चेतं शक्यम। तन्निश्चयनिबन्धन स्याभावान्नानुपलम्भस्तन्निबन्धनः, सर्वसंबन्धिनस्तस्य सिद्धत्वात् / आत्मसंबंधिनोऽनैकान्तिकत्वान्न संवादस्तन्निबन्धनः प्रागनुमानप्रवृत्तेः / तस्यासिद्धेरनुमानोत्तरकालं तत्सिद्ध्यभ्युपगमे इतरेतराश्रयदोषप्रसक्तेः / तथाहि- अनुमानप्रवृत्तौ संवादानिश्चयः, ततश्चाबाधितत्वावगमे अनुमाने प्रवृत्तिरिति परिस्फुटमितरे-तराश्रयत्वम्।नचाविनाभावे निश्चयादप्यबाधितविषयित्वनिश्चयः, यतो लक्ष्ययोग्यविनाभावपरिसमाप्तिवादिनामबाधितविषयत्व-निश्चये अविनाभावनिश्चयस्यैवासंभवात् / यदि च प्रत्यक्षागम-बाधितकर्मनिर्देशानन्तरप्रयुक्तस्यैव कालात्ययापदिष्टत्वं, तर्हि मूर्योऽयं देवदत्तः, त्वत्पुत्रत्वादुमयाभिमतान्पुत्रवत, इत्यस्यापि गमकता स्यात् न हि सकलशास्त्रव्याख्यातृत्वलिङ्ग जनितानु- | मानबाधितविषयत्वमन्तरेणान्यदध्यक्षबाधित विषयत्वं वा गमकतानिबन्धनमस्याऽस्ति। न चानुमानस्य तुल्यबलत्वान्नानुमानं प्रति बाधकता संभाविनीति वक्तव्यम्, निश्चितप्रतिबन्धलिङ्ग समुत्थस्यानुमानस्यानिश्चितप्रतिबन्धलिङ्ग समुत्थेनातुल्यबलत्वात् / अत एव न साधर्म्यमात्राद्धेतुर्गमकः, अपि त्वाक्षिप्तव्यतिरेकात् साधर्म्यविशेषात् / नापि व्यतिरेक्रमात्रात् किन्त्वङ्गीकृतान्वयात् / तद्विशेषान्वये च परस्परानुविद्धोभयमात्रात् / अपि तु पस्परस्वरूपाजहदवृत्तसाधर्म्यवैधर्म्यरूपत्वात् / न च प्रकृतहेतौ प्रतिबन्धनिश्चायकप्रमाणनिबन्धनं त्रैरूप्यं निश्चितमिति। तद्भावादेवास्य हेत्वा-भासत्वं, न पुनरसत्प्रतिपक्षत्वाबाधित-विषयत्वापररूपविहात्। यदाच पक्षधर्मत्वाद्यनेकवास्तवरूपात्म-कमेकं लिङ्गमभ्युपगमविषयः, तदा तत्तथाभूतमेव वस्तु प्रसाधयतीति कथं न विपर्ययसिद्धि : ? न च साध्यसाधनयोः परस्परतो धर्मिणश्चैकान्त-भेदे पक्षधर्मयोगो लिङ्गस्योपपत्तिमान्, संबन्धा-सिद्धेः।नच समवायादेः संबन्धस्य निषेधे एकार्थसमवायादिः साध्य-साधनयोधर्मिणश्च संबन्धः संभवी। एकान्तपक्षे तादात्म्यादेत-दुत्पत्तिलक्षणोऽप्यसावयुक्त एवेति पक्षधर्मस्य सपक्ष एव सत्त्वम्, तदेव विपक्षात् सर्वतो व्यावृत्तत्वमिति वाच्यम् ? अन्वयव्यतिरेकयोर्भावाभावरूपयोः सर्वथा तादात्म्यायोगात्। तत्त्वे वा केवलान्वयी केवलव्यतिरेकी वा सर्यो हेतुः स्यात्, न त्रिरूपवान् / व्यतिरेकस्य चाभावाभावरूपत्वाद्धेतोस्तद्रूपत्वेऽ-भावरूपो हेतुः स्यात् / न चाभावस्य तुच्छरूपत्वात् स्वसाध्येन धर्मिणा वा संबन्ध उपपत्तिमान् / एवं विपक्षे सर्वत्रासत्त्वमेव हेतोः / स्वकीय व्यतिरेकेण प्रतिनियतस्यतत्रासंभवात्। अतस्तदन्यधर्मान्तरं तर्केकरूपस्यैको न तुच्छाभावमात्रमिति वक्तव्यम्, यतो यदि सपक्ष एव सत्त्वं विपक्षादव्यावृत्तत्वं न ततो भिन्नमस्ति, तदा तस्य तदेव सावधारणं नोपपत्तिमत, वस्तुभूतान्याभावमन्तरेण प्रतिनियतस्य तत्रा-संभवात् अथ ततस्तदन्यद्धर्मान्तरं, तइँकरूपस्यानेक-धर्मात्मकस्य हेतोः तथाभूतस्य साध्याविनाभूतत्वेन निश्चितस्याने-कान्तात्मकवस्तुप्रतिपादनात् कथं न परोपन्यस्तहेतुना सर्वेषां विरुद्धाऽनेकान्तेन व्याप्तत्वम्। किञ्च / हेतुः सामान्यरूपो वोपादीयेत परैः ? विशेषरूपो वा? यदि सामान्यरूपः, तदा तद् व्यक्तिभ्यो भिन्नमभिन्नं वा ? न तावद्भिन्नम् / इदं सामान्यम्, अयं विशेषः अयं तद्वानिति वस्तुत्रयोपलम्भानुपलक्षणात् / तथा च सामान्यस्य भेदेनाभ्युपगन्तुमशक्यत्वात् / न च समवायवशात् परस्परं तेषां भेदेनानुपलक्षणम्, यतः समवायस्येह बुद्धिहेतुत्वमुपगीयते / न च भेदग्रहणमन्तरेणेहेदमवस्थिमिति बुद्ध-युत्पत्तिसंभवः / किञ्च / नागृहीतविशेषणा विशेष्ये बुद्धिरिति कारणादानात्सिद्धान्तः / न च सामान्यनिश्चयः संस्थानभेदावसायमन्तरेणोपपद्यते यतो दूरे पदार्थस्वरूपमुपलभमानो नागृहीतसंस्थानभेदः - अश्वत्वादिसामान्यमुपलब्धुं शक्नोति , न च संस्थानभेदावगमस्तदाधारोपलम्भमन्तरेण संभवतीति कथं नेतरेतराश्रयदोषप्रसंगः? तथाहिपदार्थग्रहणे सति संस्थान-भेदावगमः, तत्र च सामान्यविशेषावबोधः, तस्मिंश्च सति पदार्थस्वरूपावगतिरिति व्यक्तमितरेतराश्रयत्वम्, चक्रकप्रसङ्गोवा। किञ्च। अश्वत्यादेः समान्यभेदस्य स्वाश्रयसर्वग-तत्वैक कव्यक्तिशून्ये देशे प्रथमतरमुपजायमानाया व्यक्तेरश्वत्वा-दिसामान्येन बोधो न भवेत् / व्यक्तिशून्ये देशे सामान्यभेदस्य स्वाश्रयसर्वगतस्यानवस्थानात्, व्यक्तान्तरादनागतावस्थानाच्च /