________________ अणेगंतवाय ४३५-अभिधानराजेन्द्रः-भाग 1 अणेगंतवाय प्रकरणसमादेर्हेत्वाभाससस्याऽयोगात् / यच प्रकरणसमस्यानित्यः / शब्दोऽनुपलभ्यमाननित्यधर्मकत्वादीत्युदाहरणं प्रदर्शितम् / तदसंगतमेव / यतोऽनुपलभ्यमाननित्यधर्मकत्वं यदिन ततः सिद्धं, तदा पक्षवृत्तितयाऽस्यासिद्धेः कथं नासिद्धः ? अथ तत्र सिद्धं, तदा किं साध्यधर्मित्वेन धर्मिणि तत्सिद्धम्, उत तद्विकल इति वक्त-व्यम् ? यदि तदन्विते तदा साध्यवत्येव धर्मिणि तस्य सद्भावसिद्धेः कथमगमकता? न हि साध्यधर्ममन्तरेणाधर्मिभवनं विहायापरं हेतोरविनाभावित्वं भवेत् / तच्चेत् समस्ति, कथं न गमकता ? अविनाभावनिबन्धनत्वात् तस्याः / अथ तद्धि कालातत्सिद्ध तदा तत्र वर्तमानो हेतुः कथं न विरुद्धः ? विपक्ष एव वर्तमानस्य विरुद्धत्वात् / भवति च धर्मविकल एव धर्मिणि वर्तमानो विपक्षवृत्तिः / अथ संदिग्धसाध्यधर्मवति तत्तत्र वर्तते, तदा संदिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः / अथ साधर्म्यव्यतिरिक्ते धर्म्यन्तरे यस्य साध्याभाव एव दर्शनं, स विरुद्धः / यस्य च तदभावेऽप्यसावनैकान्तिकः। नधर्मिण एव विपक्षता, तस्य हि विपक्षत्वे सर्वस्य हेतोरहेतुत्वप्रसक्तेः। यतः साध्यधर्मासाध्य-धर्मसदसत्त्वाश्रयत्वेन सर्वदा संदिग्ध एव साध्यसिद्धेः प्रागन्यथा साध्याभावे निश्चिते साध्याभावनिश्चायकेन प्रमाणेन बाधि-तत्वाद्धतोरप्रवृत्तिरेव स्यात्। प्रत्यक्षादिप्रमाणेन च साध्य-धर्मयुक्ततया धर्मिणो निश्चये हेतोः यर्थ्यप्रसक्तिः, प्रत्यक्षादित एव हेतुसाध्यस्य सिद्धेः, तस्मात्संदिग्धसाध्यधर्मा धर्मी हेतोरा-श्रयत्वेनैव द्रष्टव्य इति / यद्यनैकान्तिकस्तत्र वर्तमानो हेतुःधूमादिरपि, तर्हि तथाविधएव स्यात्। तस्याप्येवं संदिग्धव्यतिरिक्तत्वात् / यदि हि विपक्षवृत्तित्त्वेन निश्चितो यथा गमकस्तथा संदिग्धव्यति-रिक्तेऽप्यनुमानप्रामाण्यं परित्यक्तमेव भवेत् / ततोऽनुमेयव्यतिरिक्ते साध्यधर्मवति वर्तमानः साध्याभावे चानैकान्तिको हेतुः साध्याभाववत्येवानुवर्तमानः पक्षधर्मत्वे सति विरुद्ध इत्यभ्यु-पगन्तव्यम् / यश्च विपक्षाव्यावृत्तः सपक्षे वाऽनुगतः पक्षधर्मो निश्चितः, सस्वसाध्यंगमयति। प्रकृतस्तुयद्यपि विपक्षाद्यावृत्तस्तथाऽपि नस्वसाध्यसाधकः, प्रतिबन्धस्य स्वसाध्येनानिश्चयात्। तदनिश्चयश्च न विपक्षवृत्तित्वेन, किन्तु प्रकरणसमत्वेन, एकशाखाप्रभवत्वादेस्तु कालात्ययापदिष्टत्वेनेति / असदेतत्। यतो यदिधर्मिव्यतिरिक्तेधर्म्यन्तरे हेतोः स्वसाध्येन प्रतिबन्धोऽभ्युपगम्यते, तदा धर्मिण्युपादीयमानोऽपि हेतुः साध्य-स्योपस्थापको न स्यात् / साध्यधर्मिणि साध्यधर्ममन्तरेणापि हेतोः सद्भावाभ्युपगमात्, तद्व्यतिरिक्त एव धर्म्यन्तरे तस्य साध्येन प्रतिबन्धग्रहणात् / न चान्यत्र स्वसाध्याविनाभावित्वेन निश्चितोऽन्यत्र साध्यं गमयेत्। अति-प्रसङ्गात्। अथ यदि साध्यधर्मान्यत्वेन साध्यधर्मिण्यपि हेतुरन्वयप्रदर्शनकाल एव निश्चितस्तदा पूर्वमेव साध्यधर्मस्य धर्मिणो निश्चयात् पक्षधर्मताग्रहणस्य वैयर्थ्यम्। असदेतत्। यतः प्रतिबन्धप्रसाधकेन प्रमाणेन सर्वोपसंहारेण साधनधर्म-साध्यधर्माभावे क्वचिदपि न भवतीति सामान्येन प्रतिबन्धनिश्चये पक्षधर्मताग्रहणकाले यत्रैव धर्मिण्युपलभ्यते हेतुः, तत्रैव स्वसाध्यं निश्चाययतीति पक्षधर्मताग्रहणस्य विशेषविषयप्रतिपत्तिनिबन्धन-त्वान्नानुमानस्य वैयर्थ्यम् / नहि विशिष्टधर्मिण्युपलभ्यमानो हेतुस्त-द्गतसाध्यमन्तरेणोपपत्तिमान् अस्य। अन्यथा तस्य स्वसाध्यव्याप्तत्वायोगात् / न चैवं तत्र हेतूपलम्भेऽपि साध्यविषयसदसत्तानिश्चयः, येन संदिग्धव्यतिरेकिता हेतोः सर्वत्र भवेत्, निश्चितस्वसाध्याविनाभूतहेतूपलम्भस्यैव साध्यधर्मिणि साध्य प्रतिपत्तिरूपत्वात् / नहि तत्र तथाभूतहेतुनिश्चयादपरः तस्यासाध्यप्रतिपादनव्यापारः। अत एव निश्चितप्रतिबन्धैक-हेतुसद्भावे धर्मिणि न विपरीतसाध्योपस्थापकस्य तल्लक्षणयोगिनो हेत्वन्तरस्य सद्भावः। तयोर्द्वयोरपिस्वसाध्याविनाभूतत्वाभिन्नत्वाऽनित्यत्वयोश्चैक-- त्रैकान्तवादिमतेन विरोधादसंभवात्, तव्यवस्थापकहेत्वोरप्यसंभवस्य न्यायप्राप्तत्वात् / संभवे वा तयोः स्वसाध्याविनानित्यत्वधर्मयुक्तत्वं धर्मतः स्यादिति कुतः प्रकरणसमस्याऽगमकता / अन्यरस्याऽत्र स्वसाध्याविनाभाव-विकलता, तर्हि तत एव तस्याऽगमकतेति किमसत्प्रतिपक्षता-रूपप्रतिपादनप्रयासेन ? किञ्च नित्यधर्मानुपलब्धिः प्रसज्य-प्रतिषेधरूपा, पर्युदासरूपा वा शब्दानित्यत्वे हेतुः ? न तावदाद्यः पक्षः। अनुपलब्धिमात्रस्य तुच्छस्य साध्यासाधकत्वात्। अथ द्वितीयः, तदाऽपि स धर्मोपलब्धिरेव हेतुरिति। यद्यसौ शब्दे सिद्धा, कथं नानित्यता सिद्धिः? अथ चिन्तासंबन्धिना पुरुषेणासौ प्रयुज्यत इति, न तत्र निश्चिता, तर्हि कथं संदिग्धासिद्धो हेतु दिन प्रति प्रतिवादिनस्त्वसौ स्वरूपासिद्ध एव? नित्यधर्मोपलब्धः ? तत्र तस्य सिद्धेः / यदप्युभयानुपलब्धिनिबन्धना यदा द्वयोरपि चिन्ता, तदैकदेशोपलब्धेरन्यतरेण हेतुत्वेनोपादने कथं चिन्तासंबन्ध्येव द्वितीयः तस्यासिद्धतां वक्तुं पारयतीत्याधभिधानम् / तदप्यसङ्गतम्। यतोयदि द्वितीयः संशयापन्नत्वात्तत्रासिद्धतांनोद्धावयितुंसमर्थः प्रथमोऽपि तर्हि कथं संशयित्वादेव तस्य हेतुतामभिधातुं संशयितोऽपि तत्र हेतुतामभिदध्यात्, तमुसिद्धतामप्यभिदध्यात्, भ्रान्तेरुभयत्राविशेषात्। यदपि साधनकाले नित्य धर्मानुपलब्धिरनित्यपक्ष एव वर्त्तते, नविपक्ष इत्याद्यभिधानम्, तदसंङ्गतम्। विपक्षादेकान्ततोऽस्य व्यावृत्तौ पक्षधर्मत्वे च स्वसाध्यसाधकत्वमेव अन्योन्यव्यवच्छेद्यरूपाणामेकव्यवच्छेदेनापरत्र वृत्तिनिश्चये गत्यन्तराभावात् / नहि योऽनित्यपक्ष एव वर्तमानो निश्चितो वस्तुधर्मः स तन्न साधयतीति वक्तुं युक्तम् / अथ द्वितीयोऽपि वस्तुधर्मस्तत्र तावन्निश्चितो न, परस्परविरुद्धधर्मद्वयोस्तदविनाभूतयोर्वा एकत्र धर्मिण्ययोगात् / योगे वा नित्यत्वयोः शब्दाख्ये धर्मिण्येकदा सदावादनेकान्तरूपवस्तुसद्भावोऽभ्युपगतः स्यात् / तमन्तरेण तद्धेतोः स्वसाध्याविनाभूतयोस्तत्रायोगात् / धर्मिणि तयोरुपलब्धिरेव स्वसासाधकत्वमिति कुतस्तत्सद्भावे परस्परविषयप्रतिबन्धः ? तत् प्रतिबन्धो हि तयो स्तथाभूतयोस्तत्राप्रवृत्तिः, सा च त्रैरूप्याभ्युपगमे विरोधादयुक्ता, भावाभावयोः परस्परपरिहारस्थितलक्षणतया एकत्रायोगात् / अथ द्वयोरन्योन्यव्यवच्छेद रूपयोरेकत्रायोगादनित्य धर्मानुप-लब्धेर्नित्यधर्मानुपलब्धेर्वा बाधा।न। अनुमानस्याऽनुमानान्तरेण बाधायोगात्। तथाहि- तुल्यबलयोर्वा तयोबधिकभावोऽतुल्य-बलयो ? न तावदाद्यः पक्षः / द्वयोस्तुल्यत्वे एकस्य बाधक त्वमपरस्य च बाध्यत्वमिति विशेषानुपपत्तेः। न च पक्षधर्मत्वाद्यभावादिरेकस्य विशेष, तस्यानभ्युपगमात् / अम्युपगमे वा तत एवैकस्य दुष्टत्वान्न कि शिदनुमानबाधया / तन्न पूर्व : पक्षः / नापि द्वितीयः / यतोऽतुल्यबलत्वं तयोः पक्षधर्मत्वादिभावकृतम्, अनुमानबाधाजनितं वा न तावदाद्यः पक्षः / तस्यानभ्युपगमात् / अभ्युपगमे वाऽनुमानबाधावैयर्थ्यप्रसक्तेः / नापि द्वितीयः / तस्याद्यापि विचाराऽऽस्पदत्वात् / न हि द्वयोस्खैरूप्याऽतुल्यत्वे एकस्य बाध्यत्वमपरस्य च बाधकत्वमिति व्यवस्थापयितुं शक्यम्। तन्नानुमानबाधाकृतमप्यतुल्यबलत्वम्, इतरेतराश्रयदोषापत्तेः परिस्फुटत्वात्।