________________ अणेगंतवाय 434 - अभियानराजेन्द्रः - भाग 1 अणेगंतवाय प्रवृत्त्यानिश्चयादालोचनस्वभावतो भवति। स एव तन्निश्चयार्थ प्रयुक्तः प्रकरणसमः, पक्षद्वयेऽपि तस्य समानत्वात् / उभयत्रान्वयादिसद्भावात् / तथाहि तस्योदाहरणम् - अनित्यः शब्दः, नित्यधर्मानुपलब्धेः, अनुपलभ्यमाननित्यधर्मकं घटाद्यनित्यं दृष्टम्, यत्पुन नित्यं न तदनुपलभ्यमाननित्यधर्मकं यथाऽऽत्मादि / एवं चिन्तासंबन्धिपुरुषेण तत्त्वाऽनुपलब्धेरे कदेशभूताया अन्यतरानुपलब्धेरनित्यत्वसिद्धौ साधनत्वेनोपन्यासे सति द्वितीयश्चिन्तासंबन्धिपुरुष आह- यद्यनेन प्रकारेणानित्यत्वं साध्यते, तर्हि नित्यतासिद्धिरपि, अन्यतरानुपलब्धेस्तत्रापि सद्भावात्। तथाहि-नित्यः शब्दोऽनित्यधर्मानुपलब्धेः, अनुपलभ्यमानानित्यधर्मकं नित्यं दृष्टमात्मादि / पुनर्यत् न नित्यं तन्नानुपलभ्यमानानित्यधर्मकं, यथा घटादि / एवमन्यतरानुपलब्धेरुभयपक्षे साधारणत्वात् प्रकरणानतिवृत्तेर्हेत्वाभासत्वम् / न च निश्चितयोः पक्षप्रतिपक्षपरिग्रहेऽधिकारात् कथं चिन्तायुक्त एवं साधनोपन्यासं विदध्यादिति वक्तव्यम्, यतोऽन्यदा संदेहेऽपि चिन्तासंबन्धि-पुरुषोऽन्यतराऽनुपलब्धेः पक्षधर्मान्वयव्यतिरेकानवगच्छंस्त-बलात्स्वसाध्यं यदा निश्चिनोति, तदा द्वितीयस्तामेव स्वसा-ध्यसाधनाय हेतुत्वेनाभिधत्ते / यद्यतस्त्वत्पक्षसिद्धिरत एव मत्पक्षसिद्धिः किं न भवेत् ? त्रैरूप्यस्य पक्षद्वयेऽप्यत्र तुल्यत्वात्। अथ नित्यत्वानित्यत्वैकान्तविपर्ययेणाऽप्यस्याः प्रवृत्तेरनैका-न्तिकता / उभयवृत्ति नैकान्तिको न प्रकरणसमः / न यत्र पक्ष-सपक्षविपक्षाणां तुल्यो धर्मो हेतुत्वेनोपादीयते तत्र संशयहेतुता, साधारणत्वेन तस्य विरुद्धविशेषानुस्मारकत्वात् / न तु प्रकृत एवं विधः / यतो नित्यधर्मानुपलब्धेरनित्य एव भावो, न नित्ये, एवमनित्यधर्मानुपलब्धेर्नित्य एव भावो, नानित्ये / एवं चात्र साध्ये विपक्षव्यावृत्तिः प्रकरणसमता, नानैकान्तिकतापक्षद्वयवृत्तित्वेन तस्या भावात्।नयद्ययं पक्षद्वये तदा साधारणाऽनै कान्तिकः / अथ न वर्तते कथमयं पक्षद्वयसाधकः स्यात् अतवृत्तेरतत्साधकत्वात्। न पक्षद्वये प्रकृतस्य वृत्त्यभ्युपगमात्। तथाहि-कथं साधनकालेऽनित्यधर्मानुपलब्धिर्वर्तते, न नित्ये / यदाऽपि नित्यत्वं साध्यं तदाऽपि नित्यपक्ष एवानित्यधर्मानुपलब्धिर्वर्तते नाऽनित्ये। ततश्च सपक्ष एव प्रकरणसमस्य वृत्तिः, सपक्षविपक्षयोश्चा-नैकान्तिकस्य साध्यापेक्षसपक्षविपक्षव्यवहारः, नाऽन्यथा, तेन साध्यद्वयवृत्तिरुभयसाध्यसपक्षवृत्तिश्च प्रकरणसमो, न तु कदाचित्साध्यापेक्षया विपक्षवृत्तिः / अनैकान्तिकस्तु-विपक्षवृत्तिरपीत्यस्मादस्य भेदः / न च रूपत्रययोगेऽप्यस्य हेतुत्वम्, सप्रतिपक्षत्वात् / यस्य तु कदाचित्साध्यापेक्षया विपक्षवृत्तिरने क प्रतिबन्धपरिसमाप्तिरूपत्रययोगे, तेन प्रकरणसमस्य नाहेतुत्वमुपदर्शयितुं शक्यम् / न चाऽस्य कालात्ययापदिष्टत्वमबाधितविषयम्।ययोर्हि प्रकरणचिन्ता तयोरयं हेतुः। न चततः संदिग्धत्वाद् बाधामस्योपदर्शयितुं क्षमः। नचहेतुद्वय-सन्निपातादेकत्र धर्मिणि संशयोत्पत्ते स्तज्जकनत्वेनास्यानैका-न्तिकतया तेन संशयहेतुताऽनैकान्तिकत्वम् इन्द्रियसन्निकर्षादेरपि तथा- त्वप्रसक्तेः। न च तत्त्वानुलब्धिर्विशेषस्मृत्यादिश्वान्या संशयकारणम्, न च तत्सहिताया अस्या हेतुत्वम् केवलायाएव तत्त्वेनोपन्यासात् / न च संदिग्धविषयभान्तपुरुषेण निश्चया-र्थमुपादीयमानाया अस्याः संदेहहे तुता युक्ता / भवतु वा कथश्चिदतः संशयोत्पत्तिः, तथाऽप्यनैकान्तिकादस्य विशेषः। स हि सपक्ष-विपक्षयोः समानः, अयं तु तद्विपरीतः साध्यद्वयवृत्तित्वात्तु प्रकरणसमः / न चासंभवः, अस्यैवंविधसाधनप्रयोगस्य भ्रान्तेः सद्भावात्। अथास्यासिद्धेरन्तर्भावः / अनित्यवादिनो नित्य-धर्मानुपलब्धेरितरस्य चेतरधर्मानुपलब्देरसिद्धत्वात् / असदेतत् / यतश्चिन्तासंबन्धिपुरुषेण समस्य हेतुत्वेनोपन्यासस्तस्य च तत्संबन्धिनो वा कथमितरेणासिद्धतोद्भावन विधातुं शक्यम् / यस्य ह्यनुपलब्धिनिमित्तसंशयोत्पत्तौ शब्दे नित्यत्वजिज्ञासा, स कथमन्यतराऽनुपलब्धे हेतुप्रयोगेऽसिद्धता ब्रूयात् ? अत एव सूत्रकारेण 'यस्मात्प्रकरणचिन्ता, इत्यसिद्धतादोषपरिहारा-र्थमुपात्तम् / एवमनित्यः शब्दः' सपक्षपक्षयोरन्यतरत्वाद् घटवदिति चिन्तासंबन्धिना पुरुषेणोक्तेऽपरस्तत्संबन्धात् नित्यः शब्दः, पक्षसपक्षयोरन्यतरत्वादाकाशवत् यदाह / तया प्रकरणसम एव अत्र प्रेरयन्तिपक्षसपक्षयोरन्यतरः पक्षः? सपक्षो वा ? | यदि पक्षः, तदा न हेतोः सपक्षवृत्तिता, न हि शब्दस्य धर्मान्तरे वृत्तिः संभवीत्वसाधारणतैवास्य हेतोः स्यात् / अथ पक्षोऽन्यतर-शब्दवाच्यस्तदा हेतोरसिद्धता। सपक्षयोर्घटाकाशयोः शब्दा-ख्यधर्मिण्यप्रवृत्तिरसिद्धेऽन्तर्भूतस्यास्यन प्रकरणसमता, न च पक्षसपक्षयोर्व्यतिरिक्तः कश्चिदन्यतरशब्दवाच्यः, यस्यपक्ष-धर्मताऽन्वयश्च भवेत्, तन्नायं हेतुः। अत्र प्रतिविदधति-भवेदेष दोषो यदि पक्षयोर्विशेषशब्दवाच्ययोर्हेतुत्वं विवक्षितं भवेत, तच्च न, अन्यतरशब्दाभिधस्यैव हेतुत्वेन विवक्षितत्वात् / स च पक्ष-सपक्षयोः साधारणः, तस्यैव साधारणशब्दाभिधेयत्वात्।यदि वाऽनुगतो द्वयोधर्मः कश्चिच्छब्दवाच्यो न भवेत्तदा विशेषशब्दवदन्यतर-शब्दोऽपि न तत्र प्रवर्तते, नाऽपि तच्छब्दादुभयत्र प्रतीतिर्भवेत् / दृश्यते, तस्मात्पक्षता सपक्षतां चासाधारणरूपत्वेन कल्पितां परित्यज्यान्यरशब्दो द्वयोरपि वाचकत्वेन योग्यः। ततो या विशेषप्रतीतिः, सापुरुषविवक्षानिबन्धना। यदा हि साधन-प्रयोक्ता पक्षधर्मत्वमस्य विवक्षति तदाऽन्यतरशब्दवाच्यः पक्षः सपक्षेऽनुगमविशेषाभिधायी स्यात् / यतोऽलोकव्यवहाराच्छ-ब्दार्थसंबन्धव्युत्पत्तिस्तत्र च पक्षशब्दस्य न सपक्षे प्रवृत्तिः। नाऽपि सपक्षशब्दस्य पक्षे / यथा वाऽनयोः सङ्केतादपि नान्यत्र प्रवृत्ति-रेवमन्यतरशब्दस्य सामान्ये सङ्केतितस्य न विशेष एव वृत्तिः। उभयाभिधायकत्वे तु विवक्षावसानाऽन्यतरनियमः / न चैवमपि विशेषे तस्य वृत्तौ दूषणम, तदवस्थायामेवं दोषोद्भावने कस्यचित् सम्यगृहेतूपपत्तेः / कृतकत्वादेरपि पक्षधर्मत्वविवक्षायां विशेष-रूपत्वादनुगमाभावात् / सपक्षविशेषितस्य पक्षधर्मत्वायोगात् / अथ कृतकत्वमात्रस्य हेतुत्वेन विवक्षातो न दोषः, तर्हि तत्प्रकृतेऽपि तुल्यम्, अन्यतरशब्दस्याप्यनङ्गीकृतविशेषस्य द्वयाऽभिधाने सामोपपत्तेः। एतेन यदुक्तं न्यायविदा अनर्थः खल्वपि कल्पनासमारोपितो न लिङ्गात् तथा पक्ष एवायं पक्षसपक्षयोरन्यतर इत्यादि / तदपि निरस्तम् / त्रैरूप्यसद्भावेऽपि प्रकरणसमत्वेनास्यागमकत्वात् / प्रत्यक्षागमबाधितकर्मनिर्देशानन्तरप्रयुक्तः कालात्ययापदिष्टोऽपि हेतुत्वाभासोऽपरोऽभ्युपगतः / यथापक्वान्येतान्यामूफलानि, एकशाखाप्रभवत्वात्, उपयुक्तफलवत् / अस्य हि रूपत्रययोगिनोऽपि प्रत्ययबाधितकनिन्तरप्रयोगात् / अपदिष्टतागमकत्वे निबन्धनहेतोः कालाद् दुष्टकर्मानन्तरं प्रयोगः / प्रत्यक्षादिविरुद्धस्य दुष्टकर्मानन्तरं प्रयोगाद्धेतुकालव्यतिक्रमेण प्रयोगः / तस्माच्च कालात्ययादिष्टशब्दा-भिधेयता हेत्वाभासता च / तदुक्तं न्यायभाष्यकृता- 'यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः सः" इति। तदेवं पञ्चलक्षणयोगिनि हेतावविनाभावपरिसमाप्तेः। तत्पुत्रत्वादौ तु त्रैलक्षण्येऽपि कालात्ययापदिष्टत्वान्न गमकत्वमिति नैयायिकाः / असदेतत्। असिद्धादिव्यतिरेकेण परस्य