________________ अणेगंतवाय 433 - अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय भोक्ता चात्मा किन्तु न मुच्यते, सचेतनत्वात्, अभव्यवत्, रागादीनामात्मस्वरूपाव्यतिरेकात् , तदक्षये तेषामप्यक्षयादिति ज्ञायिकः / निर्हेतुक एवासौ मुच्यते, तत्स्वभावताव्यतिरेकेण परस्य तत्रोपायस्याऽभावादिति मण्डली प्राह ! एतानि षट् मिथ्यात्वस्य स्थानानि, षण्णामप्येषां पक्षाणां मिथ्यात्वाधारतया व्यवस्थितेः। तथाहि- तानि नास्तित्वादिविशेषणादीनि साध्यधर्मिविसेशणतयोपादीयमानानि किं प्रतिपक्षय्युदासेनोपादीयन्ते ? आहोस्वित् कथंचित्तत्संग्रहेणे ति कल्पनाद्वयम् / प्रथमपक्षेअध्यक्षविरोधः, स्वसंवेदनाध्यक्षतश्चैतन्यस्यात्मरूपस्य प्रतीतिः. कथक्षितस्य परिणाम नित्यताप्रतीतेश्व, शरीरादिव्यापारतः कर्तृत्वोपलब्धेश्व, स्वव्यापारनिर्वर्तितभक्तरूपादिभोक्तृ-त्वसंवेदनाच, पुद्गललक्षणतया, रागादिव्यक्ततया च, शम-सुखरसावस्थायां कथञ्चित्तस्योपलब्धेश्व।स्वोत्कर्षतरतमा-दिभावतो रागाद्युपचयतरतमभावविधायिसम्यग्ज्ञानदर्शना-देरुपलम्भाच्चानुमानतोऽपि विरोधः / तथाभूतज्ञानकार्या-न्यथाऽनुपपत्तिचैतन्यलक्षणस्यात्मनः सिद्धिर्घटादिवत् रूपा-दिगुणतः ज्ञानस्वरूपगुणोपलम्भात् कथशित्तदभिन्नस्याऽऽत्म-लक्षणस्य गुणिनः सिद्धिरिति नानुमानविरोधः, इतरधर्मनिरपेक्षधर्मलक्षणस्य विशेषणस्य तदाधारभूतस्य च विशेष्यस्याप्रसिद्धेः अप्रसिद्धविशेषणविशेष्योभयदोषैर्दुष्टश्व पक्ष आत्मेति वचनेन, तत्सत्ताऽभिधानं नास्तीत्यनेन च, तत्प्रति-षेधाभिधानपदयोः प्रतिज्ञावाक्यव्याघातो लोकविरोधश्च / तथाभूतविशेषणविशिष्टतया धर्मिणो लोके तद्व्यवहि यमा-णत्वात् स्ववचनविरोधश्च / तत्प्रतिपादक वचनस्येतर धर्मसापेक्षतया प्रवृत्ते हे तुरपीतरनिरपेक्षक धर्मरूपोऽसिद्धः, तथाभूतस्य तस्य क्वचिदनुपलब्धेः सर्वत्र तद्विपरीत एवाभावात् / विरुद्धश्च दृष्टान्तः, साधनधर्माधिकरणतया कस्यचिद्धर्मिणोऽप्रसिद्धेः। तन्न प्रथमः पक्षः / नापि द्वितीयः, स्वाभ्युपगमविरोधप्रसङ्गात्, साधन-वैफल्यापत्तेश्च / तथाभूतस्यानेकान्तरूपतयाऽस्माभिरप्य-भ्युपगमात् / तस्माद् व्यवस्थितमेतदेकान्तरूपतया षडप्येतानि / तद्विपर्ययेणाप्येकान्तवादे तथैव तानीति दर्शयन्नाहअत्थि अविणासधम्मा, करेइ वेएइ अस्थि णिव्वाणं। अस्थि अमोक्खोवाओ, छं मिछत्तस्स ठाणाई।।१५१।। अस्त्यात्मेति पक्षः पूरणादेवादिनः। स चाविनाशधर्मी, एषा प्रतिज्ञा कलमतानुसारिणः / कर्तृभोक्तृस्वभावोऽसाविति मतं जैमिनेः। तथाभूत एवासौ जडस्वरूप इत्यक्षपादकणभुङ् मतानुसारिण / अस्ति निर्वाणमस्ति च मोक्षोपाय इत्यामनन्ति नास्तिकयाज्ञिक-व्यतिरिक्ताः / पाखण्डिन एते चाभ्युपगमाः एकान्तेन तदस्तित्वादेरध्यक्षानुमानाभ्यामप्रतीतेः / तथाऽभ्युपगमे च स्वास्तित्वेनेवान्यभावास्तित्वेनापि तस्य भावात् सर्वभाव-संकीर्णताप्रसक्तेः, स्वस्वरूपाव्यवस्थितेः खपुष्पवदसत्त्वमेव स्यात्, इत्यादिदूषणमसकृत् प्रतिपादितम् / हेतु- दृष्टान्तदोषाश्च पूर्ववदत्रापि वाच्याः। चतुर्थपादं तु गाथायाः केचिदन्यथा पठन्ति 'छस्सम्मत्तस्स ठाणाइंति' |अत्र तुपाठे इतरधर्मा जहवृत्त्या प्रवर्तमाना एते षट् पक्षाः सम्यक्त्वस्याधारतां | प्रतिपद्यन्त इति व्याख्येयम् / न च स्यादस्त्यात्मा) नित्यादिप्रतिज्ञावाक्यमध्यक्षादिना प्रमाणेन बाध्यते, स्वपरभावाभास- | काध्यक्षादिप्रमाणव्यतिरेकेणान्यथाभूतस्या-ऽध्यक्षादेरप्रतीतः।। तेनानुमनाभ्युपगमात् स्ववचने लोकस्य व्यहार-विरोधोऽपि न, 1 प्रतिज्ञाया अध्यक्षादिप्रमाणावसे ये सदसदात्मके वस्तुनि कस्यचिद्विरोधस्यासंभवात् / न चाप्रसिद्धविशेषणः पक्षः, लौकिकपरीक्षकैस्तथाभूतविशेषणस्यापि प्रतिपत्त्या सर्वत्र प्रतीतेरन्यस्य वा विशेषणव्यवहारस्योच्छेदप्रसङ्गात् / अन्यथाभूतस्य क्वचिदप्यसंभवात्तथाभूतविशेषणात्मकस्य धर्मिणः सर्वप्रतीतेनाप्रसिद्धविशेष्यतादोषः / नाप्यप्रसिद्धोभयता दूषणम्, तथाभूतद्वयव्यतिरेकेणान्यस्यासत्त्वतः प्रमाणाविषयत्वहेतुरपि नाप्रसिद्ध, तत्र तस्य सत्त्वप्रतीतेः / विपक्षे सत्त्वासंभवान्नापि विरुद्धः / अनैकान्तिकताऽप्यत एवायुक्ता / दृष्टान्तदोषा अपि साध्यादिविकलत्वादयो नात्र संभविनः, असिद्धत्वादिदोषवत्येव साधने तेषां भावात् / नानुमानतोऽनेकात्मकं वस्तु तद्वादिभिः प्रतीयते / अध्यक्षसिद्धत्वाद्वस्तुप्रतिपत्तेरपि ततस्तस्मिन् विप्रतिपद्यते / तं प्रति तत्प्रसिद्धेनैव न्यायेनानुमानोपन्यासेन विप्रतिपत्तिनिराकरणमात्रमेव विधीयत इति नाप्रसिद्धविशेषणत्वादिदोषस्यावकाशः / प्रतिक्षणपरिणामपरभागादीनां तूरुविकारार्वाग्भागदर्शनाऽन्यथा-ऽनुपपद्यामानेनाध्यक्षादिबाधादस्मदाद्यक्षस्य सर्वात्मना वस्तुग्रहणासामर्थ्यात्स्फटिकादौ चार्वाग्भागपरभागयोरध्यक्षत एवैकदा प्रतिपत्तेरनवस्थैर्यग्राह्यध्यक्ष प्रतिक्षणपरिणामानुमानेन विरुध्यते, अस्य तदनुग्राहकत्वात्, कथञ्चित्प्रतिक्षणपरिणामस्य तत्प्रतीस्यैवानुमानतो विनिश्चयात्। अनेकान्तव्यवच्छेदेनैकान्ताऽवधारिधर्माधिकरणत्वेन धर्मिणं साधयन्नैकान्तवादी न साधर्म्यतः साधयितुं प्रभु पि वैधयंत इति प्रतिपादयन्नाह (7) साधर्म्यतो वैधयंतश्च साध्यसिद्धिः। साहम्मओ व्व अत्थं,साहिल परो विहम्मओ वा वि। अण्णोण्णं पडिकुट्ठा, दोण्ण वि एए असव्वाया।।१५२।। समानस्तुल्यः साध्यसामान्यान्वितसाधनधर्मो यस्यासौ सधर्मा, साधर्म्यदृष्टान्तापेक्षया साधर्मी, तस्य भावः साधर्म्यम्, ततो वाऽर्थ साध्यधर्मादिकरणतया धर्मिणं साधयेत् परः अन्ययिहेतुप्रदर्शनात् / साध्यधर्मिणि विवक्षितं साध्यं यदि वैशेषिकादि साधेयत्, तदा तत्पुत्रत्वादेरपिगमकत्वं स्यात्, अन्वयमात्रस्य तत्रापि भावात्। अथ वैधाद् विगतस्तथाभूतसाधनधर्मो ह्यस्मादसौ विधर्मा, तस्य भावो वैधर्म्यम्, ततो वा व्यतिरेकिणो हेतोः प्रकृतं साध्यं साधयेत्, उभाभ्यां वा, वाशब्दस्य समुच्चयार्थत्वात् / तथापि पुत्रत्वादेरेव गमकत्वप्रसक्तिः। श्यामत्वाभावे च तत्पुत्रत्वादेः, अन्यत्र गौरपुरुषे अभावात्, उभाभ्यामपि तत्साधने / अत एव साध्यसिद्धिप्रसक्तिः स्यात् / अथाऽत्र कालात्ययापदिष्टत्वादिदोषसद्भावान्न साध्यसाधकताप्रसक्तिः, असिद्धविरुद्धानकान्तिकहेत्वाभासमन्तरेणापरहेत्वाभासासंभवात् / न च त्रैरूप्यलक्षणयोगिनोऽसिद्धत्वादिहेत्वाभासता कृतकत्वादेरिवा-नित्यत्वसाधने संभवति / अस्ति च भवदभिप्रायेण त्रैरूप्यं प्रकृतहेताविति कुतोऽस्य हेत्वाभासता? अथ भवत्वयं दोषः, येषां त्रैरूप्येऽविनाभावपरि-समाप्तिः, नास्माकं च लक्षणहेतुवादिनाम्, प्रकरणसमादेरपि हेत्वा-भासत्वोपपत्तेः लक्षण्यसद्भावेऽग्य-परस्याऽसतमतिपक्षत्वा-देहेतुलक्षणस्यासंभवे तदाभासत्वसंभवात्, 'यस्मात्प्रकरणाचिन्ता स प्रकरणसमः' इति प्रकरणसमस्य लक्षणाभिधानात् / प्रक्रियेते साध्यत्वेनाऽधिक्रियेते निश्चितौ पक्षप्रतिपक्षी यौ तौ प्रकरणम्, तस्य चिन्ता संशयात्