________________ अणेगंतवाय 432- अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय एवं पुण्यपापादावपि / तस्माद् यत्किश्चिदेतत् / एवं बन्धमोक्षयोरप्यसंभवः / लोकेऽपि हि य एव बद्धः स एव मुच्यते / निरन्वयनाशाभ्युपगमे चैकाधिकरणत्वाभावात्सन्तानस्य चाऽवा-स्तवत्वात् कुतस्तयोः संभावनामात्रमपीति? परिणामिनि चात्मनि स्वीक्रियमाणे सर्व निर्वाधमुपपद्यते / 'परिणामोऽवस्थान्तरगमनं न च सर्वथा ह्यवस्थानम् / न च सर्वथा विनाशः, परिणाम-स्तद्विदामिष्टः" ||1|| इति वचनात् / पातञ्जलटीकाकारोऽप्याह- "अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्ती धर्मान्तरोत्पत्तिः परिणामः" इति / एवं सामान्यविशेषसदसदभिलाप्याऽनभि-लाप्यै कान्तवादेष्वपि सुखदुःखाद्यभावः स्वयमभियुक्तैरभ्यूह्यः। अथोत्तरार्द्धव्याख्याएवमनुपपद्यमानेऽपि सुखदुःखभोगादिव्यवहारेपरैः परतीर्थिकः, अथच परमार्थतः शत्रुभिः, परशब्दो हि शत्रुपर्यायोऽप्यस्ति (दुर्नीतिवादव्यसनाऽसिना) नीयतेएकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्ट नीतयो दुर्नीतयो दुर्नयाः, तेषां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः / तत्र यद् व्यसनमत्यासक्तिरौचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम् / तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद-सिरिवाऽसिः कृपाणः, दुर्नीतिवादव्यसनाऽसिः। तेन दुर्नीति-वादव्यसनाऽसिना करणभूतेन दुर्नय-प्ररूपणहेवाकखड्गेन / एवमित्यनुभवसिद्धं प्रकारमाह। अपि शब्दस्य भिन्नक्र-मत्वादशेषमपि जगन्निखिलमपि त्रैलोक्यम्, तात्स्थात्तव्यपदेश इति / त्रैलोक्यगतजन्तुजातं विलुप्तम्, सम्यग्ज्ञानादि भावप्राण-व्यपरोपेण व्यापादितम् / तत् त्रायस्वेत्याशयः / सम्यग्ज्ञानादयो हि भावप्राणाः प्रावचनिकैर्गीयन्ते / अत एव सिद्धेष्वपि जीवव्यपदेशः / अन्यथा हि जीवधातुः प्राणधारणार्थेऽभिधीयते / तेषां च दशविधप्राणधारणाऽभावादजीवत्वप्राप्तिः / सा च विरुद्धा / तस्मात्संसारिणो दशविधद्रव्यप्राणधारणाजीवाः, सिद्धाश्च ज्ञानादिभावप्राणधारणादिति सिद्धम्। दुर्नयस्वरूपंचोत्तरकाव्ये व्याख्यास्यामः। इति काव्यार्थः // 27 // स्या०। वस्तुनोऽनियतसदसद्रूपत्वमनेकान्तजयपताकायांन्यक्षेण प्रत्यपादि परं तल्लेखस्यातिसंक्षिप्तत्वेन दुरवबोधत्वात्सम्मति प्रभृतिग्रन्थैर्गतार्थत्वाचास्माभिरत्रोपेक्षितम्। अनेकान्तजयपता कावृत्तिविव०। (5) वस्तुन एकान्तसद्रूपत्वं स्वीकुर्वतःसांख्यमतस्य परासने युक्तिः / एकान्तेन सर्व वस्तु सदिति साङ्ख्य मतं तु न युक्तम् / युक्तिश्चात्र यत्तावदुच्यते सांख्याऽभिप्रायेण - सर्वं सर्वात्मकम्, देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धिरिति / तदयुक्तम् / यतो भेदेन सुखदुःखजीवितमरणदूरासन्नसूक्ष्मबादरसुरूपकु रूपादिकं संसारवैचित्र्यमध्यक्षेणाऽनुभूयते / न च दृष्टऽनुपपन्नं नाम / न च सर्व मिथ्येत्यध्युपपन्नं युज्यते, यतो दृष्टहानिरदृष्टकल्पना च पापीयसी। किञ्च। सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभाव तथा कृतनाशोऽकृताभ्यागमश्च बलादापतति / यचैतत्सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमित्येतत्सर्वस्य जगतः कारणं, तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकत्वात्। अपि च / सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमाने सत्त्वरजस्तमसामप्येकत्वं स्यात्। तद्भेदे च सर्वस्य भेद इति। तथा यदप्युच्यते- सत्त्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादत्वाच मयूराण्डकरणे चञ्चुपिच्छादीनां सतामेवोत्पादाभ्युप गमादसदुत्पादे चाऽऽम्रफलदीनाम-प्युत्पत्तिसङ्गादित्येतद्वाड्मात्रम् / तथाहि- यदि सर्वथा कारणे कार्यमस्तिनतत्पिादः, निष्पन्नघटस्येव, अपि च-मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः। नच भवन्ति, ततो नास्ति कारणे कार्यम् / अथाऽनभिव्यक्तमस्तीति चेत्। न तर्हि सर्वात्मना विद्यते नाऽप्येकान्तेनासत्कार्यवाद एव / तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतो मृत्पिण्डादेर्घटा-देरिवोत्पत्तिः स्यात् / न चैतद् दृष्टमिष्टं वा / अपि चैवं सर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्यात् / एवं च न शाल्यकुरार्थी शालिबीजमेवाऽऽदद्यादपि तु यत्किञ्चिदेवेति नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिरतो नास-त्कार्यवाद इति। तदेवं सर्वपदार्थानां सर्वज्ञेयत्वप्रमेयत्वादिभिर्धर्मः कथञ्चिदेकत्वम्, तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारितदेव परमार्थतः सदिति कृत्वा कथञ्चिद्भेद इति सामान्यविशेषा-त्मकं वस्तु इति स्थितम् / अनेन च स्यादस्ति, स्यान्नास्तीति भङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्याः। ततश्च सर्ववस्तु सप्तभङ्गीस्वभावम्। ते चाऽमी स्वद्रव्यक्षेत्रकालभावापेक्षया स्यादस्ति 1, परद्रव्यापेक्षया स्यान्नास्ति 2, अनयोरेव धर्मयोर्यो गपद्येनाभिधातुमशक्यत्वात् स्यादवक्तव्यम् 3, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात, कस्यचिच्चांशस्य परद्रव्याद्यपेक्षया स्याद्वा, नास्ति वा, वक्तव्यं चेति 4, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वद्रव्याद्यपेक्षया विवक्षितत्वात्। स्यादस्ति चावक्तव्यं चेति५, तथैकांशस्य परद्रव्याद्यपेक्षया स्यान्नास्ति चावक्तव्यं चेति 6, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया, परस्य तु परद्रव्याद्यपेक्षया, अन्यस्यतु यौगपद्येन स्वद्रव्याद्यपेक्षया विवक्षितत्वात् स्यादस्ति च नास्ति चाऽवक्तव्यम् 7, इयं च सप्तभङ्गी यथायोगमुत्तरत्राऽपि योजनीयेति / सूत्र०२ श्रु० 5 अ०। (6) कालाद्येकान्तवादोऽपि मिथ्यात्वमेवेत्याहकालो सहावणियई, पुवकयं परिसकारणेगंता। मिच्छत्तं तो चेवा, समासओ होति सम्मत्तं / / 146 / / कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपाएकान्ताः सर्वेऽपि एकका मिथ्यात्वम्, त एव समुदिताः परस्पराजहवृत्तयः सम्यक्त्वरूपता प्रतिपद्यन्त इति तात्पर्यार्थः / / 146 // (सम्म) पं०व०। तन्नकालाद्येकान्ताः प्रमाणतःसंभवन्तीति तद्वादो मिथ्यात्ववाद इति स्थितेत एवाऽन्योन्यसव्यपेक्षा नित्याद्येकान्तव्यपोहेनैका-नेकस्वभावाः कार्यनिर्वर्तनपटवः प्रमाणविषयतया परमार्थतः सन्त इति तत्प्रतिपादकस्य शास्त्रस्यापि सम्यक्त्वमिति तद्वादः सम्यग्वादतया व्यवस्थितः / यथैते कालाद्येकान्तः मिथ्या-त्वमनुभवन्ति, स्याद्वादोपग्रहात्तु त एव सम्यक्त्वं प्रतिपद्यन्ते, तथाऽऽत्माऽप्येकान्तनित्यानित्यत्वादिधर्माध्यासितो मिथ्यात्वम्, अनेकान्तरूपतया त्वभ्युपगम्यमानः सम्यक्त्वं प्रतिपद्यत इत्याहणत्थि ण णिचो ण कुणइ, कयं ण वेएइ णत्थि णिव्वाणं / णत्थिय मोक्खोवाओ, छं मिच्छत्तस्स छणाइं / / 150 / / नास्त्यात्मा एकान्त इति सांख्याः। अत एव प्राहुः -यः कर्ता, स न भोक्ता, प्रकृतिवत्, कर्तुर्भोक्तृत्वानुपपत्तेः / यद्वा- येन कृतं कर्म, नाऽसौ तद् भुङ्के, क्षणिकत्वात्, छिन्नसंतते रिति बौद्धः। क्षणिकत्वाच तत्सन्ततेः कृतं न वेदयत इति बौद्ध एवाह- कर्ता