________________ अणेगंतवाय 431 - अभिवानराजेन्द्रः - भाग 1 अणेगंतवाय निवर्तमानमनन्यशरणतया नित्यत्वेऽवतिष्ठते। तथाहि-क्षणिकोऽर्थः सन वा कार्यं कुर्यादसन् वा ? गत्यन्तरा-भावात् / न तावदाद्यः पक्षः, समसमयवर्तिनि व्यापारायोगात्, सकलभावानां परस्परं कार्यकारणभावप्राप्त्याऽतिप्रसङ्गाच / नापि द्वितीयः पक्षः क्षोदे क्षमते / असतः कार्यकरणशक्ति विकलत्वात् / अन्यथा शशविषाणादयोऽपि कार्यकरणायोत्सहेरन, विशेषाभावादिति / अनित्यवादी नित्यवादिनं प्रति पुनरेवं प्रमाणयति - 'सर्व क्षणिकं, सत्त्वात्, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्, अर्थक्रियाकारित्वस्य च भावलक्षणत्वात्। ततोऽर्थक्रिया व्यावर्तमाना स्वकोडीकृतां सत्तां व्यावर्तये दिति क्षणिक सिद्धिः / न हि नित्योऽर्थोऽर्थक्रियां क्रमेण प्रवर्त्तयितुमुत्सहते, पूर्वार्थक्रियाकरणस्वभावोपमर्दद्वारेणोत्तरक्रियायां क्रमेण प्रवृत्तेः, अन्यथा पूर्वक्रियाकरणाविरामप्रसङ्गात् / तत्स्वभावप्रच्यवे च नित्यता प्रयाति, अतादवस्थ्यस्यानित्यतालक्षणत्वात् / अथ नित्योऽपि क्रमवर्तिनं सहकारिकारणमर्थमुदीक्षमाणस्तावदासीत्, पश्चात्तमासाद्य क्रमेण कार्य कुर्यादिति चेत् / न सहकारिकारणस्य नित्येऽकिश्चित्करत्यात्, अकिञ्चित्करस्याऽपि प्रतिक्षणेऽनवस्थाप्रसङ्गात् / नापि यौगपद्येन नित्योऽर्थोऽर्थक्रियां कुरुते, अध्यक्षविरोधात् / न ह्येककालं सकलाः क्रियाः प्रारभमाणः कश्चिदुपलभ्ये, करोतु वा, तथाऽप्याद्यक्षण एव सकलक्रियापरिसमाप्तेर्द्वितीयादिक्षणेष्वकुर्वाणस्यानित्यता / बलादाढौकते, करणाकरणयो रेकस्मिन् विरोधात् इति / तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तिसाम्याद् विरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनस्य ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणो नैकान्तिका इति / अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः / उपलक्षणत्वाच सामान्यविशेषाद्येकान्तवादा अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव हेतूनुपस्पृशन्तीति परिभावनीयम् / अथोत्तरार्द्ध व्याख्यायत(परस्परेत्यादि) एवं च कण्टकेषु क्षुद्रशत्रुषु एकान्तवादिषु परस्परध्वंसिषु सत्सु परस्परस्मात् ध्वंसन्ते, विनाशमुपयान्तीत्येवंशीलाः, सुन्दोपसुन्दवदिति परस्परध्वंसिनः, तेषु, हे जिन ! ते तय, शासनं स्याद्वादप्ररूपणनिरूपणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानांस्वयमुच्छिन्नत्वेनैवाभावाद-धृष्यमपराभवनीयम्। 'शक्ताई कृत्याश्च' (5 / 4 / 35) इति (हैमसू०) कृत्यविधानाद् धर्षितुमशक्यं धर्षितुमनह वा, जयति सर्वोत्कर्षण वर्तते / यथा कश्चिन्महाराजः पीवरपुण्यपरीपाकः परस्परं विगृह्य स्वमेव क्षयमुपेयिवत्सु द्विषत्सु अयत्नसिद्धनिष्कण्टकत्वं समृद्ध राज्यमुपभुजानः सर्वोत्कृष्टो भवत्येवं त्वच्छासनम पीति काव्यार्थः // 26|| अनन्तरकाव्ये नित्यानित्यायेकान्तवादे दोषसामान्यमभिहितम्। इदानी कतिपयतद्विशेषान्नामग्राहं दर्शयंस्तत्प्ररूपकारणामसद्भूतोद्भावक तयोवृत्ततथाविधरिपुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेः त्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोतिनैकान्तवादे सुखदुःखभोगी, न पुण्यपापे न च बन्धमोक्षौ / दुर्नीतिवादव्यसनाऽसिनैवं, परैर्विलुप्तं जगदप्यशेषम् / / 27 / / एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे, न सुखदुःखभो गौ घटेते, न च पुण्यपापे घटेते, न च बन्धमोक्षौ घटेते / पुनः पुनर्नञः प्रयोगोऽत्यन्ताघटमानतादर्शनार्थः / तथाहि- एकान्तनित्ये आत्मनि तावत् सुखदुःखभोगौ नोपपद्ये ते / नित्यस्य हि लक्षणम् - 'अप्रच्युतानुत्पन्नस्थिरैकरूपत्वम् / ततो यदाऽऽत्मा सुखमनुभूय स्वकारणकलापसामग्रीवशाद् दुःखमुपभुङ्क्ते , तदा स्वभावभेदादनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः, एवं दुःखमनुभूय सुखमुपभुजानस्यापि वक्तव्यम् / अथावस्थाभेदादयं व्यवहारः / न चावस्थासु भिद्यमानास्वपि तद्वतो भेदः, सर्पस्येव कुण्डलाऽऽर्जवाद्यवस्थासुइति चेत्। ननुतास्ततो व्यतिरक्तिा अव्यतिरिक्ता वा ? व्यतिरेके तास्तस्येति संबन्धाभावः, अतिप्रसङ्गात् / अव्य-तिरेके तु तद्वाने वेति तदवस्थितैव स्थिरैकरूपताहानिः / कथं च तदेकान्तैकरूपत्वेऽवस्थाभेदोऽपि भवेदिति / किश्च / सुखदुःखभोगौ पुण्यपापनिर्वा, तन्निर्वर्तनं चार्थक्रिया , सा च कूटस्थनित्यस्य क्रमेणाक्रमेण वा नोपपद्यत इत्युक्तप्रायम्।अत एवोक्तम्-(नपुण्यपापे इति) पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म / पापं हिसादिक्रियासाध्यमशुभं कर्म। ते अपिन घटेते, प्रागुक्तनीतेः। तथा न बन्धमोक्षौ / बन्धः कर्मपुद्गलैः सह प्रतिप्रदेशमात्मनो वययःपिण्डवदन्योन्यसंश्लेषः / मोक्षः कृत्स्नकर्मक्षयः / तावप्येकान्तनित्ये न स्याताम्। बन्धो हि संयोग-विशेषः, सचाप्राप्तानां प्राप्तिरिति लक्षणः / प्राक् कालभाविनि अप्राप्ति-रन्याऽवस्था / उत्तरकालभाविनी प्राप्तिश्चान्या। तदनयोरप्य-वस्थाभेददोषो दुस्तरः। कथं चैकरूपत्वे सति तस्याकस्मिको बन्धनसंयोगः ? बन्धनसंयोगाच प्राक् किं नाऽयं मुक्तोऽभवत् ? किच्चा तेन बन्धनेनासौ विकृतिमनुभवति, नवा ? अनुभवति चेचर्मादिवदनित्यः। नानुभवति चेन्निर्विकारत्वे सता असता वा तेन गगनस्येव न कोऽप्यस्य विशेषः / इति बन्धवैफल्यान्नित्यमुक्त एव स्यात् / ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था / तथा च पठन्ति - "वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् / चर्मोपमश्चेत्सोऽनित्यः, खतुल्यश्चेदसत्फलः" / / 1 / / बन्धानुपपत्ती मोक्षस्याऽप्यनुपपत्तिर्बन्धनविच्छेदपर्यायत्वान्मुक्तिशब्दस्येति / एवमनित्यैकान्तवादेऽपि सुखदुःखाद्यनुपपत्तिः / अनित्यं हि अत्यन्तोच्छेद धर्मकम् / तथाभूते चात्मनि पुण्योपादाक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत्फलभूतसुखानुभवः ? एवं पापोपादानक्रियाकारिणोऽपि निरवयवनाशे कस्य दुःखसंवेदन-मस्तु? एवं चान्यः क्रियाकारी, अन्यश्च तत्फलभोक्तत्यसमञ्ज-समापद्यते / अथ "यस्मिन्नेव हि सन्ताने, आहिता कर्मवासना / फलं तत्रैव संधत्ते, कसे रक्तता यथा" ||1|| इति वचनान्ना-समञ्जसमित्यपि वाङ् मात्रम्, सन्तानयासनयोरवास्तवत्वेन प्रागेव निर्लो ठितत्वात् / तथा पुण्यपापे अपिन घटेते। तयोस्र्थक्रिया सुखदुःखोपभोगः। तदनुपपत्तिश्चानन्तरमेवोक्ता, ततोऽर्थक्रिया-कारित्वाऽभावात्तयोरप्यघटमानत्वम्। किञ्च / अनित्यः क्षणमात्रस्थायी, तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्यपापोपादनक्रियाऽर्जनम् ? द्वितीयादिक्षणेषु चावस्थातुमेव न लभते, पुण्यपापोपादानक्रियाभावे च पुण्यपापे कुतः?निर्मूलत्वात्, तदसत्त्वे च कुतस्तनः सुखदुःखभोगः / आस्तां वा कथञ्चिदेतत्, तथाऽपि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम्, उपादानाऽनुरूपत्यादुपादेय-स्य / ततः पूर्वक्षणाद् दुःखितादुत्तरक्षणः कथं सुखित उत्पद्यते ? कथं च सुखिता ततः स दुःखित स्यात् ? विसदृशभागताऽऽपत्तेः /