SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ अणेगंतवाय ४३०-अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय तत्राऽपि भिन्नदेशत्वासिद्धेः / कथञ्चित्पक्षस्तु दृष्टान्ते दान्तिके च स्याद्वादिना नदुर्लभः। एवमप्यपरितोषश्चेदायुष्मतः, तइँकस्यैव पुंसस्तत्र तत्तदुपाधिभेदात् पितृत्वपुत्रत्वमातुलत्वभागिनेयत्व-पितृव्यत्वभ्रातृव्यत्वादिधर्माणां परस्परविरुद्धानामपि प्रसिद्धि-दर्शनात् किं वाच्यम् ? एवमवक्तव्यतादयोऽपि वाच्याः। इत्युक्त-प्रकारेणोपाधिभेदेन वास्तवं विरोधाभावमप्रबुध्यैवाज्ञात्वैव, एवकारोऽवधारणे। स च तेषां सम्यग्ज्ञानस्याभाव एव, न पुनर्लेशतोऽपि भाव इति व्यनक्ति। ततस्ते विरोधभीताः, सत्त्वासत्त्वादिधर्माणां बहिर्मुखशेमुष्या संभावितो यो विरोधः सहानवस्थानादिः, तस्माद् भीतास्त्रस्तमानसाः / अत एवं जडास्तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूर्खाः परवादिनस्तदेकान्तहताः, तेषां सत्त्वादिधर्माणां य एकान्त इतरधर्मनिषेधेन स्वाभिप्रेतधर्मव्यव-स्थापननिश्चयः, तेनहताइव हताः पतन्ति स्खलन्ति / पतिताश्च सन्तस्ते न्यायमार्गाक्रमणे-नासमर्था न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः / यद्वापतन्तीति प्रमाणमार्गतः च्यवन्ते। लोके हि सन्मार्गच्युतः पतित इति परिभाष्यते / अथवा- यथा वजादिप्रहारेण हतः पतितो मूछमितुच्छामासाद्य निरुद्धवाक्प्रसरो भवति, एवं तेऽपि वादिनः स्वाभिमतैकान्तवादेन युक्तिसरणिमननुसरता वज्राशनिप्रायेण निहताः सन्तः स्याद्वादिनां पुरतोऽकिञ्चित्करा वाङ्मात्रमपि नोच्चारयितुमीशत इति। अत्र च विरोधस्योपलक्षणत्वा-द्वैयधिकरण्यमनवस्था सङ्कराव्यतिकरः संशयोऽप्रतिपत्तिर्विषयव्यवस्थाहानिरित्येतेऽपि परोद्भाविता दोषा अभ्यूह्याः / तथाहि- सामान्यविशेषात्मकं वस्त्वित्युपन्यस्ते परे उपालब्धारो भवन्ति / यथा सामान्याविशेषयो विधिप्रतिषेधरूपयोर्विरुद्धधर्मयोरेकत्राऽभिन्ने वस्तुन्यसंभवाच्छीतोष्णवदिति विरोधः / न हि यदेव विधेरधिकरणं तदेव प्रतिषेधस्याधिकरणं भवितुमर्हति, एकरूपतापत्तेः / ततो वैयधिकरण्यमपि भवति। अपरं चयेनात्मना सामान्यस्याधिकरणं येन च विशेषस्य, तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति, द्वाभ्यां वा स्वभावाभ्याम् ? एकेनैव चेत्, तत्र पूर्ववद्विरोधः / द्वाभ्यां वा स्वभावाभ्यां सामान्यविशेषाख्यं स्वभावद्वयमधिकरोति, तदाऽनवस्थातावपि स्वभावान्तराभ्यां, तावपि स्वभावान्तरा-भ्यामिति / येनाऽऽत्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च, येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति सङ्करदोषः। येन स्वभावेन सामान्यं तेन विशेषः, येन विशेषस्तेन सामान्यमिति व्यतिकरः / ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः। ततश्चा-प्रतिपत्तिः, ततश्च प्रमाणविषयव्यवस्थाहानिरिति / एते च दोषाः स्याद्वादस्य जात्यन्तरत्वान्निरवकाशा एव / अतः स्याद्वादमर्मवेदिभिरुद्धरणीयास्तत्तदुपपत्तिभिरिति, स्वतन्त्रतया निरपेक्षयोरेव सामान्यविशेषयोर्विधिप्रतिषेधरूपयोस्तेषाम्वकाशात् / अथवा विरोधशब्दोऽत्र प्रदोषवाची / यथा विरुद्धमाचरन्तीति दुष्टमित्यर्थः / ततश्च विरोधेभ्यो विरोधवैयधिकरण्यादिदोषेभ्यो भीता इति व्याख्येयम् / एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्तीति काय्यार्थः // 24 // अथानेकान्तवादस्य सर्वद्रव्यपर्यायव्यापित्वेऽपि मूलभेदाऽपेक्षया चातुर्विध्याभिधानद्वारेण भगवतस्तत्त्वामृतरसास्वाद सौहित्यमुपवर्णयन्नाह स्यान्नाशि नित्यं सदृशं विरूप, वाच्यं न वाच्यं सदसत्तदेव / विपश्चितांनाथ ! निपीततत्त्व-सुधोद्गतोदारपरम्परेयम्॥२५|| स्यादित्यव्ययमनेकान्तद्योतकमष्टास्वपि पदेषु योज्यम्, तदेवाधिकृतमेवैकं वस्तु स्यात्कथञ्चिन्नाशि, विनशनशीलमनित्यामित्यर्थः / स्यानित्यमविनाशधर्मीत्यर्थः / एतावता नित्यनित्यलक्षणमेकं विधानम् / तथा स्यात्सदृशमनुवृत्तिहेतुसामान्यरूपम् / स्याद्विरूपं विविधरूपं विसदृशपरिणामात्मक, व्यावृत्तिहेतुविशेषरूपमित्यर्थः / अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः / तथा स्याद्वाच्यं वक्तव्यम् / स्याद् न वाच्यमवक्तव्यमित्यर्थः / अत्र च समासेऽवाच्यमिति युक्तम्, तथाप्यवाच्यपदे योन्यादौ रूढमित्यसभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः / एतेनाभिलाप्यानभिलाप्यस्वरूपस्तृतीयो भेदः / तथा स्यात्सद्विद्यमानमस्तिरूपमित्यर्थः / स्यादसत्तद्विलक्षणमिति / अनेन सदसदाख्या चतुर्थी विधा / हे विपश्चितां नाथ ! संख्यावतां मुख्य ! इयमनन्तरोक्ता निपीततत्त्वसुधोगतोगारपरम्परा, तवेति प्रकरणात्सामाऱ्यांद्वा गम्यते। तत्त्वं यथावस्थितवस्तुस्वरूप-परिच्छेदः, तदेव जरामरणापहारित्वाद्विबुधोपभोग्यत्वात् मिथ्यात्वविषोमिनिराकरिष्णुत्वादान्तराहादकारित्वाच पीयूषं तत्त्वसुधा / नितरामनन्यसामान्यतया पीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उगारपरम्परा उद्गारश्रेणिरिवेत्यर्थः / यथाहिकश्चिदाकण्ठं पीयूषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुञ्चति, तथा भगवानपि जरा-मरणापहारे तत्त्वामृतं स्वैरमास्वाद्य तद्रसानुविधायिनीं प्रस्तुता नेकान्तवादभेदचतुष्टयीलक्षणामुद्गारपरम्परां देशनामुखे-नोद्गीर्णवानित्याशयः।अथवा - यैरकान्तवादिभिः मिथ्यात्वगरलभोजनमातृप्ति भक्षितं, तेषां तत्तद्वचनरूपा उद्गारप्रकाराः प्राक प्रदर्शिताः / यैस्तु पचेलिमप्राचीनपुण्यप्राग्भारानुगृही तैर्जगद्गुरुवदनेन्दुनिःस्यन्दि तत्त्वामृतं मनोहत्य पीतं तेषां विपश्चितां यथार्थवादविदुषां हे नाथ ! इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम्। एते च चत्वारोऽपि वादास्तुषु तेषु स्थानेषु प्रामेव चर्चिताः / तथाहि - 'आदीपमाव्योमेति' वृत्ते नित्यानित्यवादः / 'अनेकमेकात्मकमिति' काव्ये सामान्य-विशेषवादः / सप्तभङ्गयामभिलाप्यानभिलाप्यवादः, सदसद्वादश्च, इति न भूयः प्रयासः। इति काव्यार्थः / / 25 / / इदानीं नित्यानित्यपक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोरितरेतरोदीरितविविधहेतुहेतिसं निपातसं जातविनिपातयोरयवसिद्धप्रतिपक्षप्रतिक्षेपस्य भगवच्छासन-साम्राज्यस्य सर्वोत्कर्षमाहय एव दोषाः किल नित्यवादे, विनाशवादेऽपि समास्त एव / परस्परध्वंसिषु कण्टकेषु, जयत्यधृष्यं जिन ! शासनं ते // 26|| किले ति निश्वये / य एव नित्यवाद नित्यैकान्तवादे दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः क्रमयौगपद्याभ्यामर्थ-क्रियाऽनु पपत्त्यादयस्य एव विनाशवादेऽपि क्षणिकैकान्तवादेऽपि समास्तुल्या नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः / तथाहि नित्यवादी प्रमाणयति-सर्वं नित्यं, सत्त्वात् / क्षणिके सदसत्कालयोरर्थक्रियाविरोधात् तल्लक्षणं सत्त्वं नाऽवस्थां बध्नातीति / ततो
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy