________________ अणेगंतवाय 429 - अभिवानराजेन्द्रः - भाग 1 अणेगंतवाय उत्पन्नानीत्यनेकाभिधानप्रत्ययव्यवहारो युक्तः, अन्यथा तदसंभवात्। ततः प्रत्येकं यात्मकास्त्रिकाश्चोत्पादादयो व्यवस्थिता इत्यनन्तपर्यायात्मकमेकं द्रव्यम्, तत्त्वनन्ते काले भवत्वनन्तपर्यायात्मकमेकं द्रव्यम् / एकसमये तु कथं तत्त दात्मकमवसीयते ? प्रदर्शितदिशा तदात्मकं तदवसीयत इत्यादिएगसमयम्मि एगदवियस्स बहुया विहाँति उप्पाया। उप्पायसमा विगमा, ठिई उउस्सग्गओ णियमा।।१३८|| एकस्मिन्समयेएकद्रव्यस्य बहव उत्पादा भवन्ति, उत्पाद-समानसंख्या विगमा अपितस्यैव तदैवोत्पद्यन्ते, विनाशमन्त-रेणोत्पादस्यासंभवात् / न हि पूर्वपर्यायाविनाशे उत्तरपर्यायः प्रादुर्भवितुमर्हति। प्रादुर्भाव वा सर्वस्य सर्वकार्यताप्रसक्तिः, तदकार्यत्वं वा कार्यान्तरस्य चस्यात्। स्थितिरपि सामान्यरूपतया तथैव नियता, स्थितिरहितस्योत्पादस्याभावात्। भावे वा शशशृङ्गादेरप्युत्पत्तिप्रसङ्गात्॥१३८! एतदेव दृष्टान्तद्वारेण समर्थयन्नाहकायमणवयण किरिया-रूवाइ गई विसेसओ वा वि। संजोगभेयओ जाणणायदवियस्स उप्पाओ॥१३९।। यदैवानन्तान्तप्रदेशिका हावभावपरिणतपुद्गलोपयोगो पजातशशरुधिरादिपरिणतवशाविर्भूतशिरोऽगुल्याद्यगोपाङ्ग भावपरिणतस्थूरसूक्ष्मतरादिभेदभिन्नावयवात्मकस्य कार्योत्पत्तिः, तदैवानन्तानन्तपरमाणूपचितमनोवर्गणापरिणतिलभ्यमान उत्पादोऽपि, तदैव वचनस्यापि कायोत्कृष्टतरवर्गणोत्पत्तिप्रति-लब्धप्रवृत्तिरुत्पादः, तदैव च कायात्मनोरन्योन्यानुप्रवेशा-द्विषमीकृतासंख्यातात्मप्रदेशे कायक्रियोत्पत्तिः, तदैव च रूपादीनामपि प्रतिक्षणोत्पत्तिविनश्वराणामुत्पत्तिः, तदैव च मिथ्यात्वाऽविरतिप्रमादकषायादिपरणतिसमुत्पादिकर्म-बन्धनिमित्तागामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सृज्य मानोपादीयमानानन्तपरमाण्याद्यनन्तपरमाणुसंयोगविभागाना-मुत्पत्तिः / यद्वा- यदैव शरीरादे व्यस्योत्पत्तिः, तदैव तत्रैकान्तगत-समस्तद्रव्यैः सह साक्षात् पारम्पर्येण वा संबन्धानामुत्पत्तिः, सर्वव्याप्तिव्यवस्थिताकाशं धर्माधर्मादिद्रव्यसंबन्धात्, तदैव च भाविस्वपर्यायपरज्ञानविषयत्वादीनां चोत्पादनशक्तीनामप्युत्पादः, शिरोग्रीवाचक्षुनेत्रपिच्छोदरचरणाद्यनेकावयवान्तर्भाव-मयूराण्डकरणशक्तीनामिव, अन्यथा तत्र तेषामुत्तरकाल-मप्यनुत्पत्तिप्रसङ्गात् / उत्पादविनाशस्थित्यात्मकाश्च प्रतिक्षणं भावाः शीतोष्णसंपर्कादिभेदेनानचपुराणतया क्रमेणोपलब्धिः प्रतिक्षणं तथोत्पत्तिमन्तरेण संभवति / न चास्मदाद्यध्यक्ष निरवशेषधर्मात्मक-वस्तुग्राहकं, येनानन्तधर्माणामेकदा वस्तुन्यप्रतिपत्तेरभाव इत्युच्यते, अनुमानतः प्रतिक्षणमनन्त-धर्मात्मकस्य तस्य प्रदर्शितन्यायेन प्रतिपत्तेः / सकलत्रैलोक्यव्यावृत्तस्य वस्तुनोऽध्यक्षेण ग्रहणे तव्यावृत्तीनां पारमार्थिकद्धर्मरूपतया / अन्यथा तस्य तद्व्यावृत्त्ययोगात्, कथं नानन्तधर्माणां वस्तुन्यध्यक्षेण ग्रहणम् ? / सम्म० अन्योन्यनिरपेक्षतयाऽऽश्रितस्य मिथ्यात्वविनाभूतमेव दर्शयन्नाहजे संतवाएँ दोसे, सक्कोलूया वयंति संखाणं / संखाय असव्वाए, तेसिं सव्वेऽपिते सव्वा / / 146|| येऽनेकान्तसद्वादपक्षे द्रव्यास्तिकायाऽभ्युपगमपदार्थाभ्युपगमे शाक्यौलूक्या दोषान् वदन्ति, सांख्यानां क्रियागुणव्यपदेशोपलब्ध्यादिप्रसङ्गादिलक्षणाः, ते सर्वेऽपि तेषां सत्या इत्येवं संबन्धः कार्यः / ते च दोषा एवं सत्याः स्युः यद्यन्यनिरपेक्षतयाऽभ्युपगतपदार्थप्रतिपादकं तच्छास्त्रं न मिथ्या स्यात्, नाऽन्यथा। प्रागपि कार्यावस्थात एकान्तेन तत्सत्त्वनिबन्धनत्वात्तेषाम् / अन्यथा कथञ्चित्सत्त्वेऽनेकान्तवादापत्तेर्दोषाभाव एव स्यात्। सम्म०। (4) वस्तुनोऽनन्तधर्मात्मकत्वम् - अनन्तरं भगवद्-दर्शितस्यानेकान्तात्मना वस्तुनो बुद्धरूपवेद्यत्वमुक्तम् / अनेकान्तात्मकत्वं च सप्तभङ्गीप्ररूपणेन सुखोन्नेयं स्यादिति साऽपि निरूपिता, तस्यां च विरुद्धधर्माध्यासितं वस्तु पश्यन्त एकान्तवादिनोऽबुधरूपा विरोधमुद्भावयन्ति / तेषां प्रमाणमार्गात् च्यवनमाहउपाधिभेदोपहितं विरुद्धं, नाऽर्थेष्वसत्त्वं सदवाच्यते च / इत्यप्रबुद्यैव विरोधभीताः, जडास्तदेकान्तहताः पतन्ति॥२४|| अर्थेषु पदार्थेषु चेतनाऽचेतनेष्वसत्त्वं नास्तित्वं न विरुद्धं न विरोधावरुद्धम, अस्तित्वेन सह विरोधं नानुभवतीत्यर्थः / न केवलमसत्त्वं नविरुद्धम्, किन्तु सदवाच्यते च। सञ्चाऽवाच्यं च सदवाच्ये, तयोर्भावौ सदवाच्यते, अस्तित्वावक्तव्यत्वे इत्यर्थः। ते अपिन विरुद्धे / तथाहिअस्तित्वं नास्तित्वेन सह न विरुद्ध्यते / अवक्तव्यत्वमपि विधिनिषेधात्मकमन्योन्यं न विरुद्धयते। अथवाऽवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुद्वहति / अनेन च नास्तित्वाऽस्तित्वावक्तव्यत्वलक्षणभङ्ग त्रयेण सकलसप्तभङ्गया निर्विरोधतोपलक्षिता, अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानांचसंयोगजत्वेनामीष्वेवान्तर्भावादिति / नन्वेते धर्माः परस्पर विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति ? इति विशेषणद्वारेण हेतुमाह - (उपाधिभेदोपहितमिति) उपाधयोऽवच्छेदका अंशप्रकाराः, तेषां भेदो नानात्वं, तेनोपहितमर्पितम् / असत्त्वस्य विशेषणमेतत् / उपाधिभेदोपहितं सदर्थेष्वसत्त्वं न विरुद्धम्। सदवाच्यतयोश्च वचनभेदं कृत्वायोजनीयम्। उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्ध। अयमभि-प्रायः परस्परपरिहारेण ये वर्तेते, तयोः शीतोष्णवत्सहाऽनवस्थानलक्षणो विरोधः / न चात्रैवम्, सत्त्वासत्त्वयोरितरेतरमविष्वग्भावेन वर्तनात् / न हि घटादौ सत्त्वमसत्त्वं परिहत्य वर्तते, पररूपेणाऽपिसत्त्वप्रसङ्गात्। तथा चतद्व्यतिरिक्तान्तिराणां नैरर्थक्यम्, तेनैव त्रिभुवनार्थसाध्यार्थ-क्रियाणां सिद्धेः / न चासत्त्वं सत्त्वं परिहत्य वर्तते स्वरूपेणाप्य-सत्त्वप्राप्तेः / तथाच निरुपाख्यत्वात्सर्वशून्यतेति, तदा हि विरोधः स्याद् यदि एकोपाधिकं सत्त्वमसत्त्वं च स्यात्। न चैवम्, यतो न हि येनैवांशेन सत्त्वं तेनैवासत्त्वमपि। किंत्वन्योपाधिकं सत्त्वम्, अन्योपाधिकं पुनरसत्त्वम्। स्वरूपेण हि सत्त्वं, पररूपेण चासत्त्वम्। दृष्ट हि एकस्मिन्नेव चित्रपटावयविनि अन्योपाधिकं तु नीलत्वमन्योपाधिकाश्चेतरे वर्णाः / नीलत्वं हि नीलरागाद्युपाधिकम्, वर्णान्तराणिच तत्तद् रञ्जनद्रव्योपाधिकानि / एवं मेचकरक्तेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसे यम् / न चैभिर्दृष्टान्तैः सत्त्वासत्त्वयोर्मिन्नदेशत्वप्राप्तिः, चित्रपटाद्यवयविन एकत्वात् /