________________ अणेगंतवाय 428 - अभिवानराजेन्द्रः - भाग 1 अणेगंतवाय क्रियोत्पद्यत इति अभ्युपगमादात्मपरमाणुसंयोगाभावेऽप्यपरो-ऽतिशयो वाच्यः / तदेव चतत्र दूषणम् / किञ्चासौ संयोगो व्यणुकादिनिवर्तकः किं परमाण्वाद्याश्रितः, उत तदन्याश्रितः, आहोस्विदनाश्रित इति। यद्याद्यः पक्षः, तदा तदुत्पत्तावाश्रय उत्पद्यते, न वेति ? यद्युत्पद्यते, तदा परमाणुनामपि कार्यत्वप्रसक्तिः, तत्संयोगवत् / अथ नोत्पद्यते, तदा संयोगस्तदाश्रितो न स्यात्, समवायस्याऽभावात् / तेषां च तं प्रत्यकारकत्वात् / तदकारकत्वे तु तत्र तस्य प्रागभावानिवृत्तेः, तदन्यगुणान्तरवत् / ततस्तेषां कार्यरूपतया परिणतिरभ्युपगन्तव्या। अन्यथा तदाश्रितत्वं संयोगस्य तस्मादन्याश्रितत्वेऽपि पूर्वोक्तप्रसङ्गः। अनाश्रित्वपक्षे तु निर्हेतुकोत्पत्तिप्रसक्तिः / अथ संयोगो नोत्पद्यत इत्यभ्युपगमः, तदा वक्तव्यं किमसौ सन् वाऽसन् ? यदि संस्तदा तन्नित्यत्वप्रसक्तिः, सदकारण-वन्नित्यमिति भवतोऽभ्युपगमात् / तथा चासौ गुणो न भवेद् नित्यत्वेनानाश्रितत्वात्, अनाश्रितस्य पारतन्त्र्यायोगात्, अपर-तन्त्रस्य चागुणत्वात् अथासन्नितिपक्षः,तदा कार्यानुत्पत्तिप्रसङ्ग, तदभावे प्राग्वद्विशिष्टपरिमाणोपेतकार्यद्रव्योत्पत्त्य भावात् / तथा च जगतोऽदृश्यताप्रसक्तिरिति संयोगैकत्वसंख्यापरिमाणमहत्त्वाद्यनेकगुणानां तत्रोत्पत्तिरभ्युपेया, कारणगुण-पूर्वप्रक्रमेण कार्योत्पत्त्यभ्युगमादिष्टमेवैतदिति चेत् , ननु तेषां क आश्रयः ? इति वक्तव्यम् / न तावत् कार्यम्, तदुत्पत्तेः प्राक् तस्याऽसत्त्वात्, सत्त्वे चोत्पत्तिविरोधात्।नच प्रथमक्षणे निर्गुणमेव कार्यगुणोत्पत्तेः प्रागस्तीति वक्तव्यम् / गुणसंबद्धवत् सत्ता-संबन्धस्याद्यक्षणे अभावः, तत्सत्त्वासंभवात्।नचोत्पत्तिसत्ता-संबन्धयोरेककालतयाऽऽद्यक्षण एव सत्त्वम्, तदा रूपादिगुण-समवायाभावतोऽनुपलम्भे ततस्तत्सत्तासंबन्धव्यवस्थापना-संभवात्, न हि सदित्युपलम्भमन्तरेण तदा तस्य सत्तासंबन्धः, सत्त्वं वा व्यवस्थापयितुं शक्यम्।नच महत्त्वादेर्गुणद्रव्येण सहोत्पादतद्- द्रव्याधेयता, तद्रव्यस्य वा तदाऽऽधारता, अकारणस्या-श्रयत्वायोगात्। नचैककालयोः कार्यकारणभावः सव्येतरगो विपाणयोरिव भवत्पक्षे युक्तः सन् न कार्यं तदाश्रयः / अथाणवस्तदाश्रयाः, तर्हि कार्यद्रव्यस्यापि त एवाश्रय इत्येका-श्रयौ कार्यगुणौ प्राप्तौ / तदभ्युपगमेऽपि तावदयुतसिद्धयोस्तयोः कुण्डबदरवदाश्रयाश्रयिभावः, अकार्यकारणप्रसङ्गात्।नायु-तसिद्धयोः, अयुतसिद्ध्याश्रयाश्रयिभावविरोधात् / तथा ह्यपृथसिद्ध इत्यनेन भेदनिषेधः प्रतिपाद्यते, समवाया-भावेऽन्यस्यार्थस्यात्रासंभवात् / आधाराधेयभाव इत्यनेन चैक-त्वनिषेधः क्रियत इति कथमनयोरेकत्र सद्भावः / अथान्य-त्राधाराधेयभावः, तर्हि तेषां सत्त्वमुतासत्त्वमिति वक्तव्यम् ? / यद्याद्यः पक्षः, तदा संयोगादिगुणाकारपरमाणव एव तथाभूतकार्यमिति जैनपक्ष एव समाश्रितः स्यात् / द्वितीयपक्षे तु, सर्वानुपलब्धिप्रसक्तिः। यदि च परमाणवः स्वरूपापरित्यागतः कार्यद्रव्यमारभन्ते स्वात्मनो व्यतिरिक्तम्, तदा कार्यद्रव्यानुत्पत्तिप्रसक्तिः / न हि कार्यद्रव्य-परमाणुस्वरूपापरित्यागे स्थूलत्वस्य सद्भावः, तस्य तद्भावात्म-कत्वात् / तस्मात्परमाणुरूपतापरित्यागेन मृद्रव्यं स्थूलकार्यस्व-रूपमासादयतीति वलयवत् पुद्गलद्रव्यपरिणतः आदिरन्तो वा न विद्यते, इति न कार्यद्रव्यं कारणेभ्यो भिन्नम् / न चार्थान्तरभावगमनं विनाशोऽयुक्तः, इति तद्पपरित्यागोपादानात्मकस्थिस्विभावस्य द्रव्यस्य त्रैकाल्यं नानुपपन्नम् / यथा च एकसंख्याविभागाऽल्प-परिमाणपरत्वात्मकत्वेन प्रादुर्भावात्परमाणवः | कार्यद्रव्यवत्, तथोत्पन्नाश्चाभ्युपगन्तव्याः / कारणान्वयव्यतिरेकानुविधानोप-लम्भात् कार्यताव्यवस्थानिबन्धनस्यात्रापि सद्भावात, इत्ययमर्थः (तत्तो य) इत्यादिना गाथापश्वार्द्धन प्रदर्शितः, तस्मादेकपरिमाणाद् द्रव्याद् विभक्तः विभागात्मकत्वेनोत्पन्नः (अणुरिति) अणुर्जातो भवति, एतदवस्थायाः प्राक् तदसत्त्वात्। सत्त्वे वा इदानीमिव प्रागपि स्थूलरूपकार्याभावप्रसङ्गात् / इदानीं वा तद् पाऽविशेषात्प्राक्तनावस्थानमिव स्यात्। एवं चतुर्विधकार्यद्रव्याभ्युपगमे संगतः। नच य एव कार्यद्रव्यारम्भकाः, परैकत्वविरोधात्, घटद्रव्यप्रागभावप्रध्वंसाभावमृत्पिण्डकपालवत् / न च प्रागभावप्रध्वंसाभावोत्थरूपतया मृत्पिण्डकपालरूपत्वमसिद्धम्, तुच्छरूपस्याभावस्याप्रमाणत्वात्तजनकत्वेन तविषयत्वतो व्यवस्थापयितुमशक्यत्वादिति प्रतिपाद नात् / न च कपालसंयोगाद् घटद्रव्यमुपजायते, तद्विभागाच विनश्यतीति मृत्पिण्डस्य घटद्रव्यसमवायिकारणत्वानुमानमध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टम् / न चाल्पपरिमाणतन्तुप्रभवं महत्परिमाणं पटकार्यमुपलब्धमिति घटादिकमपि तदल्पपरिमाणानेककारणप्रभवं कल्पयितुं युक्तम्, विपर्ययेणापि कल्पनायाः प्रवृत्तिप्रसङ्गात्। अध्यक्षबाधस्तुतदितरत्रापि समानः। किञ्च / परमाणूना सर्वदैकं रूपमभ्युपगच्छन्नभावमेव तेषामभ्युपगच्छेत्, अकारकत्वप्रसङ्गात्। तच्च प्रागभावप्रध्वंसाभावविकल्पत्वेनाना-धेयातिशयत्वात, वियत्कुसुमवत् / तदसत्त्वे च कार्यद्रव्य-स्याप्यभावः, तस्यासत्त्वात्। तदभावेच परापरत्वादिप्रत्यया-देरयोगात् कालादेरप्यमूर्त्तद्रव्यस्याभाव इति सर्वाभावप्रसक्तिः। तथाहि-न तावदध्यक्षं तत् प्रतिपादने व्याप्रियते, कपाल-पर्यन्तघटविनाशोपलम्भे तस्य व्यापारोपलब्धेः। नानुमानमपि, प्रत्यक्षाप्रवृत्तौ तत्र तस्याप्यप्रवृत्तेः, अध्यक्षपूर्वकत्वेन तस्य व्यावर्णनात्। आगमस्य चात्रार्थे अनुपयोगात्। परमाणुपर्यन्ते च विनाशेघटादिध्वंसे न किञ्चिदप्युपलभ्येत, परमाणू-नामदृश्यत्वेनाभ्युपगमात् / छिद्रघटेन पाकनिक्षिप्तेन वा तेनानेकान्त इति चेत् / न / सर्वस्य पक्षीकृतत्वात् / अवयविनिच छिद्रस्योत्पन्नत्वात्तस्य च निरवयवत्वान्नावयवतदुत्पत्तिः, परमाणुषु तदसंभवात् ! पाकान्यथाऽनुपपत्त्या परमाणुपर्यन्तो विनाशः परिकल्पत इति चेत् / न / विशिष्ट सामग्रीवशा-द्विशिष्टवर्णस्य घटादेव्यस्य कथञ्चिद् विनाशेऽप्युत्पत्तिसंभवात् ! परमाणुपर्यन्तविनाशाऽभ्युपगमे च तद्देशत्वतत्संख्यात्वतत्परिमाण-त्वोपर्यवस्थापितकर्पराद्यपातप्रत्यक्षोपलभ्यत्वदीनि पच्यमाने घटे न स्युः। सूच्यग्रविद्धघटेनानेकान्तः परिहृत एव / न च कपालार्थी घट भिद्यादापरमाण्वन्ते विनाशे ततः प्रतीतिविरुद्धत्वान्नासावभ्युपगन्तव्य इति प्रस्तुतमेवाक्षेपद्वारेणोपसंहरत्याचार्यः - बहुयाण एगसद्दे, जइ संयोगाहिँ होइ उप्पाओ। णणु एगविभागम्मि वि, जुज्जइ बहुयाण उप्पाओ / / 137 / / व्यणुकादीनांसति संयोगेयद्येकस्यत्र्यणुकादेः कार्यद्रव्य-स्योत्पादोभवति, अन्यथैकाभिधानप्रत्ययव्यवहारायोगात् / नहि बहुष्येको घट उत्पन्न इत्यादिव्यवहारो युक्तः / नन्वित्थं क्षमायामेकस्य कार्यद्रव्यस्य विनाशेऽपि युज्यत एव बहूनां समानजातीयानांतत्कार्यद्रव्यविनाशात्मकानांप्रभूततया विभक्तात्मनामुत्पाद इति / तथाहि - घटविनाशाद् बहूनि कपालानि