________________ अणेगंतवाय 427- अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय वस्तुनस्त्र्यात्मकत्वाऽभ्युपगमात्। अतीतानागतकालयोरपि तद्रूपेण सत्त्वे उत्पादविनाशयोरभावेन कथं त्र्यात्मकत्वं तस्य ? अतीतानागतकालयोरभावे कथं नित्यत्वमिति वाच्यम् / कथञ्चित्तस्याऽभ्युपगमात्, त्यक्तोपादित्स्यमानपूर्वोत्तरपर्यायस्यान्यान्यवेशपरित्यागोपादानै कनटपुरुषवद् द्रव्यस्य व्यावत्मिकत्वात्, सर्वथाऽनित्यत्वे पूर्वोत्तरव्यपदेशाभावसमक्तेः / सर्वथा नित्यत्वेऽप्युभयत्रैकप्रतिभासव्यप-देशादिव्यवहाराभावश्च स्यात् / न चैकत्वप्रतिभासो मिथ्या, ततो यदेव विनष्टं शिवकरूपतया तदेवोत्पन्नं मृद्रव्यं घटादिरूपतया, अवस्थितं च मृत्त्वेनेति त्र्यात्मकं तत् सर्वदा द्रव्यमवस्थितं यथोत्पादव्यवस्थितम् / यथोत्पादव्यवस्थितीनां प्रत्येकमेकैकरूपं त्र्यात्मकं, तथा भूतवर्तमानभविष्यद्भिरप्येकैकं रूपं त्रिकालतामासादयति। इत्येतदेवाहउप्पञ्जमाणं कालं, उप्पण्णं ति विगयं विगच्छंतं / दवियं पण्णवयंतो, तिकालविसयं विसेसेइ॥१३४|| उत्पद्यमानसमय एव किश्चित्पटद्रव्यं तावदुत्पन्नं, यदि एकतन्तुप्रवेशक्रियासमये न द्रव्यं तेन रूपेणोत्पन्नं, तर्जुत्तरत्रापि तत्रोत्पन्नमित्यत्यन्तानुत्पत्तिप्रसक्तिस्तस्य स्यात् / न चोत्पत्तिप्रसक्तिः, उत्तरोत्तरक्रि याक्षणस्य तावन्मात्रफलोत्पादन एव प्रक्षयादपरस्य फलान्तरस्यानुत्पत्तिप्रसक्तेः / यदि च विद्यमाना एकततन्तुप्रवेशक्रिया न फलोत्पादिका, विनष्टा सुतारां न भवेत, असत्त्वात्, उत्पत्त्यवस्थावत्। न ह्यनुत्पन्नविनष्टयोरसत्त्वे कश्चि-द्विशेषः। ततः प्रथमक्रियाक्षणः केनचिद् रूपेण तमनुत्पादयति, द्वितीयस्त्वसौ तदेवांशान्तरेणोत्पादयति। अन्यथा क्रिया-क्षणान्तरस्य वैफल्यप्रसक्तेः। एकेनांशेनोत्पन्नं सदुत्तरक्रिया-क्षणफलांशेन यद्यपूर्वमपूर्वं तदुत्पद्यते तदोत्पन्नं भवेद्, नाऽन्यथेति / प्रथमतन्तुप्रवेशादारभ्यान्त्यतन्तुसंयोगावधि यावदुत्पद्यमानं प्रबन्धेन तद्पतयोत्पन्नमभिप्रेतानिष्टरूपतया चोत्पत्स्यत इत्युत्पद्यमानमुत्पत्स्यमानं च भवति / एवमुत्पन्नमप्युत्पद्यमान-मुत्पत्स्यमानं च भवति / तथोत्पत्स्यमानमप्युत्पद्यमानमुत्पन्नं चेत्येकैकमुत्पन्नादिकालत्रयेण यथा चैकाल्यं प्रतिपद्यते, तथा विगच्छदादिकालत्रयेणाऽप्युत्पादादिरेकैकः त्रैकाल्यं प्रतिपद्यते। तथाहि-यथा यदैवोत्पद्यतेन तत्तदैवोत्पन्नमुत्पत्स्यते। यद् यदैवोत्पन्नं न तत्तदैवोत्पद्यते उत्पत्स्यते च / यद् यदैवोत्पत्स्यते तत्तदैवोत्पद्यते उत्पन्नं च / तथा तदेव तदैव यदुत्पद्यते तत्तदैव विगतं विगच्छद्विगमिष्यश्च / तथा यदेव यदैवोत्पन्नं तदेव तदैव विगतं विगच्छद्विगमिष्यच्च / तथा यदेव यदैवोत्पत्स्यते तदेव तदैव विगतं विगच्छद्विगमिष्यच / एवं विगमोऽपि त्रिकालमुत्पादादिना दर्शनीयः / तथा स्थित्याऽपि त्रिकाल एवं सप्रपञ्चं दर्शनीयः / एवं स्थितिरप्युत्पादविनाशाभ्यां प्रपञ्चाभ्यामे कै काभ्यां त्रिकालदर्शनीयेति। द्रव्यमन्योन्यात्मक तथाभूतकालत्रयात्मकोत्पादविनाशस्थित्यात्मकं प्रज्ञापयस्त्रिकालविषयप्रादुर्भव-द्धर्माधारतया तद्विशिनष्टि / अनेन प्रकारेण त्रिकालविषयं द्रव्यस्वरूपं प्रतिपादितं भवति / अन्यथा द्रव्यास्याऽभावात् त्रैकाल्यं दूरोत्सारितमेवेति, तद्वचनस्य मिथ्यात्वप्रसक्तिरिति भावः / सर्वथाऽन्तर्गमनलक्षणस्य विनाशस्यासंभवाद् विभागजस्य चोत्पादस्य तत्तद्वयाभावे स्थितेरप्यभावात्। तत् त्रैकाल्यं दूरोत्सारितमेवेति मन्यमानत्वाद्वादिनः प्रति / तदभ्युपगमदर्शनपूर्वकमाहदध्वंतरसंजोगाहिँ केऽवि दवियस्य बिंति उप्पायं। उप्पायत्था कुशला, विभागजायं न इच्छंति।।१३।। समानजातीयद्रव्यान्तरादेव समवायिकारणात् तत्संयोगा-- समवायिकारणात् तत्संयोगासमवायिकारणनिमित्तकारणादिसव्यपेक्षादवयवि कार्यद्रव्यं भिन्न कारणद्रव्येभ्य उत्पद्यत इति द्रव्यस्योत्पादं केचन बुवते / ते चोत्पादार्थानभिज्ञा विभागजोत्पाद नेच्छन्ति। कुतः पुनर्विभागजोत्पादानभ्युपगमवादिन उत्पादार्थानभिज्ञाः ? यतः - अणु अणुएहिं दव्वे, आरद्धे ति अणुयं ति ववएसो। तत्तो य पुण विभत्तो, अणु त्ति जाओ अणु होई // 136 / / द्वाभ्यां परमाणुभ्यां कार्यद्रव्ये आरब्धे ऽणु रितिव्यपदेशः, परमाणुद्वयारब्धस्य व्यणुकस्याणुपरिमाणत्वात् / त्रिभिद्य॑णुकैश्चतुर्भिर्वाऽरब्धे त्र्यणुकमिति व्यपदेशः। अन्यथोत्पन्नानुपलब्धि-निमित्तस्य महत्त्वस्याभावप्रसक्तेः / अत्र किल त्रिभिश्चतुर्भिर्वा प्रत्येक परमाणुभिरारब्धमणुपरिमाणमेव कार्यमिति। आदिपरमाणुनाऽरम्भकत्वे आरम्भवैयर्थ्यप्रसक्तिरिति द्वाभ्यां तु परमाणुभ्यां व्यणुकमारम्यते / त्र्यणुकमपि न द्वाभ्यामणुभ्यामारभ्यते, कारणविशेषपरिमाणतोऽनुपभोग्यत्वप्रसक्तेः, यतो महत्त्वपरिमाणयुक्तं तदुपलब्धियोग्यं स्यात्। तथा चोपभोग्यकारणबहुत्वमहत्त्वप्रचयन्यं च महत्त्वमान् च द्वित्रिपरमाण्वारब्धे कार्ये महत्त्वं, तत्र महत्परिमाणाऽभावात्तेषामणुपरिमाणात्तदुपलब्धियोग्य स्यात्, तथा चोपभोग्य कारणत्वात्, प्रचयोऽप्यवयवाभावान्न संभवति, तेषामपि द्वाभ्यामणुभ्यां कारणबहुत्वाभावात्। नच त्रयोऽपि, प्रशिथिलावयवसंयोगाभावात्। उपलभ्यते च समानपरिमाणैस्त्रिभिः पिण्डैरारब्धे कार्ये महत्त्वं, न द्वाभ्यामिति महत्परिमाणाभ्यां ताभ्यामेवारब्धं महत्त्वं, न त्रिभिरल्पपरिमाणैरारब्ध इति / समानसंख्यातुलापरिमाणाभ्यां तन्तुपिण्डाभ्यामारब्धे पटादि-कार्ये प्रशिथिलावयवतन्तुसंयोगकृतं महत्त्वमुपलभ्यते, न तदितरत्रेति।नन्येवं यदि कार्यारम्भस्तदा। द्रव्याणि द्रव्यान्तरमारभन्ते, द्विबहूनि वा समानजातीयानीत्यभ्युपगमः परित्यज्यताम्, यतो न परमाणुव्यणुकादीनामपि त्यक्तजनकावस्थानामनङ्गीकृत-स्वकार्यजननस्वभावानां च व्यणुकत्र्यणुकादिकार्यनिर्वर्त्तकत्वम्, अन्यथा प्रागपि तत्कार्यप्रसङ्गात् / अथ न तेषामजनकावस्थात्यागतो जनकस्वभावान्तरोत्पत्तौ कार्यजनकत्वम्, किन्तु पूर्वस्वभाव-व्यवस्थितानामेव संयोगलक्षणसहकारिशक्तिसद्भावात् तदा कार्यनिवर्तकत्वं प्राक्तनतदभावान्न कार्योत्पत्तिः / कारणानामविचलितस्वरूपत्वेऽपिनच संयोगेन तेषामनतिशयो व्यावर्त्तते, अतिशयो वा कश्चिदुत्पाद्यते, अभिन्नो भिन्नो वा, संयोग-स्येवातिशयत्वात्। न च कथमन्यः संयोगस्तेषामतिशय इति, वाच्यस्याप्यतिशयत्यायोगात्। न हि स एव तस्यातिशय इत्युप-लब्धम्, तस्मात्तत्संयोगे सति कार्यमुपलभ्यते, तदभावे तु नोपलभ्यत इति संयोग एव कार्योत्पादने तेषामतिश इति, न तदुत्पत्तौ तेषां स्वभावान्तरोत्पत्तिः, संयोगाऽतिशयस्य तेभ्यो भिन्नत्वादिति। असदेतत् / यतः कार्योत्पत्तौ तेषां संयोगाऽतिशयो भवतु, संयोगोत्पत्तौ तु तेषां कोऽतिशयः ? इति वाच्यम्।नतावत्स्व एव संयोगः, तस्या-द्यानुत्पत्तेः। नापि संयोगान्तरं तदनभ्युपगमात् / अभ्युपगमेऽपि तदुत्पत्तावप्यपरसंयोगातिशयप्रकल्पनायामनवस्थाप्रसक्तेः / न च क्रियातिशयः, तदुत्पत्तावपि पूर्वोक्तोदोषप्रसङ्गात् / किं चादृष्टापेक्षादात्माणुसंयोगात्परमाणुषु