SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ अणेगंतवाय 424 - अभिवानराजेन्द्रः - भाग 1 अणेगंतवाय तयोर्यो गे नित्यत्यहानिः / द्रव्यं पर्यायवियुतं, पर्याया द्रव्य - वर्जिताः / क्व कदा केन किंरूपाः, दृष्टा मानेन केन वा ? // 1 // इति वचनात् / न चाऽऽकाशं, न द्रव्यं, लौकिकानामपि घटाऽऽकाशं पटाऽऽकाशमिति व्यवहारप्रसिद्धराकाशस्य नित्याऽनित्वत्वम् / घटाडाकाशमपि हि यदा घटापगमे पटेनाऽऽक्रान्तं, तदा पटाssकाशमिति व्यवहारः / न चाऽयमौपचारिकत्वादप्रमाणमेव ? उपचारस्याऽपि किश्चित्साधर्म्यद्वारेण मुख्याऽर्थस्पर्शित्वात्। नभसो हि यत्किल सर्वव्यापकत्वं मुख्यं परिमाणं, तत् तत् आधेयघटपटादि सम्बन्धिनियतपरिणामवशात् कल्पितभेदं सत्प्रतिनियतदेशव्यापितया व्यवह्रियमाणंघटाऽऽकाशपटा-ऽऽकाशादितत्तद्व्यपदेशनिबन्धनं भवति। तत्तद्घटादिसंबन्धे च व्यापकत्वेनाऽवस्थितस्यव्योम्नोऽवस्थाऽन्तराऽऽपत्तिः, ततश्चा-ऽवस्थाभेदेऽवस्थावतोऽपि भेदः, तासां ततोऽविष्वगभावात्। इति सिद्धं नित्याऽनित्यत्वं व्योम्नः। स्वायम्भुवा अपि हि नित्यानित्यमेव वस्तु प्रपन्नाः। तथा चाऽऽहुस्ते- त्रिविधः खल्वयं धर्मिणः परि-णामो धर्मलक्षणावस्थारूपः / सुवर्ण धर्मि, तस्य धर्मपरिणामो वर्द्धमानरूचकादिः, धर्मस्य तु लक्षण परिणामोऽनागतत्वादिः / यदा खल्वये हेमकारौ वर्द्धमानकं भक्त्वा रुचकमारचयति, तदा वर्द्धमानको वर्तमानतालक्षणं हित्वाऽतीततालक्षणमापद्यते, रूचकस्तु अनागततालक्षणं हित्वा वर्तमानतामापद्यते / वर्तमानताऽऽपन्न एव रुचको नवपुराणभावमा पद्यमानोऽवस्था-परिणामवान् भवति / सोऽयं त्रिविधः परिणामो धर्मिणः / धर्मलक्षणाऽवस्थाश्च धर्मिणो भिन्नाश्चाभिन्नास्च / तथा च ते धर्म्यभेदात् तन्नित्यत्वेन नित्याः भिदाचोत्पत्तिविनाशविषयत्वमित्युभयमुपपन्नमिति || अथोत्तरार्द्ध विवियते एवं चोत्पादव्ययध्रौव्यात्मकल्वे सर्वभावानां सिद्धेऽपि तद्वस्तू एकमाकाशाऽऽत्मादिकं नित्यमेव, अन्यच्च प्रदीपघटादिकमनित्यमेवेति / एवकारोऽत्रापि संबध्यते। इत्येहि दुर्नयवादापत्तिः, अनन्त-धर्माऽऽत्मके वस्तुनि स्वाऽभिप्रेतनित्यत्वादिधर्मसमर्थनप्रवणाः शेषधर्मतिरस्कारेण प्रवर्त्तमाना दुर्नया इति तल्लक्षणात् / इत्यनेनोल्लेखेन त्वदाज्ञाद्विषतां भवत्प्रणीतशासनविरोधिनां, प्रलापाः प्रलपिताऽन्यसंबद्धवाक्यानीति यावत् / अत्र च प्रथममादीपमिति परप्रसिद्ध्या अनित्यपक्षोल्लेखेऽपि यदुत्तस्त्र यथासंख्यपरिहारेण पूर्वतरं नित्यमेवैकमित्युक्तं, तदेवं ज्ञापयतियदनित्यं तदपि नित्यमेव कथञ्चित्, यच नित्यं तदप्यनित्यमेव कथञ्चित् / प्रक्रान्तवादिभिरप्येकस्यामेव पृथिव्यां नित्या-ऽनित्यत्वाऽभ्युपगमात्। तथा च प्रशस्तकारः - सातु द्विविधा नित्याऽनित्या च। परमाणुलक्षणा नित्या, कार्यलक्षणा त्वनित्येति / न चाऽत्र परमाणुद्रव्यंकार्यलक्षणविषयद्वयभेदान्नैकाधिकरणं नित्यऽनित्यत्वमिति वाच्यम् ? पृथिवीत्वस्योभयत्राऽव्यभिचारात् / एवमवादिष्वपीति / आकाशेऽपि संयोगविभागा-ऽङ्गीकारात्तैरनित्यत्वं युक्त्या प्रतिपन्नमेवा तथाच स एवाह - "शब्दकारणत्ववचनात् संयोगविभागौ" इति नित्याऽनित्यपक्षयोः संवलितत्वम् / एतच्च लेशतो भावितमेवेति / प्रलापप्रायत्वं च परवचनानामित्थ समर्थनीयम, वस्तुनस्तावदर्थक्रियाकारित्वं लक्षणम्, तच्चैकान्तनित्याऽनित्यपक्षयोन घटते। अप्रच्युताऽनुत्पन्नस्थिरैकरूपो हि नित्यः / स च क्रमेणाऽर्थक्रियां कुर्वीत ? अक्रमेण वा ? अन्योऽन्यव्यवच्छेदरूपाणां प्रकारा-ऽन्तराऽसंभवात् / तत्र न तावत् क्रमेण / स हि कालाऽन्तरभाविनीः क्रियाः प्रथमक्रियाकाल एव प्रसह्य कुर्यात्, समर्थस्य कालक्षेपाऽयोगात, कालक्षेपिणो वाऽसामर्थ्यप्राप्तेः। समर्थोऽपि तत्तत्सहकारिसमवधाने तं तमर्थं करोतीति चेत्, न तर्हि | तस्य सामर्थ्यम्, अपरसहकारिसापेक्षवृत्तित्वात्। 'सापेक्ष-मसमर्थम्' | इति न्यायात् / न तेन सहकारिणोऽपेक्ष्यन्ते, अपि तु कार्यमेव सहकारिष्वसत्सु अभवत्, तानपेक्षत इति चेत्, तत् किं स भावोऽसमर्थः ? समर्था वा ? समर्थश्चेत् किं सहकारिमुखप्रेक्षणदीनानि तान्युपेक्षते, न पुनर्झटिति घटयति ? / ननु समर्थमपि बीज मिला जलाऽनिलादि स ह क रिस हित में घाऽड्कुरं करोति, नाऽन्यथा / तत् किं तस्य सहकारिभिः किंचिदुपक्रियेत?नवा। यदि नोपक्रियेत, तदा सहकारिसन्निधानात् प्रागिव किं न तदाऽप्यर्थक्रियायामुदास्ते ? उपक्रि येत चेत्, स तर्हि तैरुपकारो भिन्नोऽभिन्नो वा ? क्रियत इति वाच्यम् / अभेदे स एव क्रियते, इति लाभमिच्छतो मूलक्षतिरायात्, कृतकत्वेन तस्याऽनित्यत्वाऽऽपत्तेः / भेदे तु स कथं तस्योपकारः, किं न सह्यविन्ध्याऽद्रेरपि ? तत्संबन्धात् तस्याऽयमिति चेत्, उपकार्योपकारयोः कः संबन्धः? न तावत् संयोगः द्रव्ययोरेव तस्य भावात्। अत्र तु उपकार्य द्रव्यम्, उपकारश्व क्रियेति न संयोगः। नाऽपि समवायः, तस्यैकत्वाद, व्यापकत्वाच / प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वात् न नियतैः संबन्धिभिः संबन्धो युक्तः। नियतसंबन्धिसम्बन्धे चाऽङ्गीक्रियमाणे तत्कृत उपकारोऽस्य समवायस्याऽभ्युपगन्तव्यः तथा च सत्युपकारस्य भेदाऽभेदकल्पना तदवस्थैव। उपकारस्य समवायादभेदे समवायएव कृतः स्यात्।भेदे तु पुनरविसमवायस्यन नियतसंबन्धिसंबन्धत्वम्। तन्नैकान्तनित्यो भावः क्रमेणाऽर्थक्रियां कुरुते / नाऽप्यक्र मेण / नहि एको भावः सकलकालकलाकलाप-भाविनीयुगपत्सर्वाः क्रियाः करोतीति प्रातीतिकम् / कुरुतां वा, तथाऽपि द्वितीयक्षणे किं कुर्यात् ? करणे वा क्रमपक्षभावी दोषः / अकरणे त्वर्थक्रियाकारित्वाऽभावादवस्तुत्वप्रसङ्गः। इति एकान्तनित्यात क्रमाऽक्रमाभ्यां व्याप्ताऽर्थक्रिया व्यापकाऽनुपलब्धिबलाद् व्यापकनिवृत्तौ निवर्तमाना स्वव्याप्यमर्थक्रियाकारित्वं निवर्तयति / अर्थक्रियाकारित्वं च निवर्तमानं स्वव्याप्यं सत्त्वं निवर्तयतीति / इति नैकान्तनित्यपक्षो युक्तिक्षमः / एकान्ताऽनित्यपक्षोऽपि न कक्षीकरणाऽर्हः / अनित्यो हि प्रतिक्षणविनाशी / स च न क्रमेणाऽर्थक्रियासमर्थः, देशकृतस्य कालकृतस्य च क्रमस्यैवाऽभावात् / क्रमोऽहि पौर्वापर्यम्, तच क्षणिकस्याऽसंभवि। अवस्थितस्यैव हि नानादेशकाल-व्याप्तिर्देशक्रमः, कालक्रमश्चाऽभिधीयते। न चैकान्तविनाशिनि साऽस्ति। यदाहुः - "यो यत्रैव स तत्रैव, यो यदैव तदैव सः। न देशकालयोव्याप्तिर्भावानामिह विद्यते ||1|| न च सन्तानाऽपेक्षया पूर्वोत्तरक्षणानां क्रमः संभवति, सन्तानस्याऽवस्तुत्वात्। वस्तुत्वेऽपितस्य यदि क्षणिकत्वम् ? न तर्हि क्षणेभ्यः कश्चिद् विशेषः / अथाऽक्षणिकत्वम् ? तर्हि समाप्तः क्षणभङ्गवादः / नाऽप्यक्रमेणाऽर्थक्रियाक्षणिके संभवति, स हि एको बीजपुरादिक्षणो युगपदनेकान् रसादिक्षणान् जनयन एकेन स्वभावेन जनयेत् ? नानास्वभावैर्वा ? यदि एकेन, तदा तेषां रसादिक्षणानामेकत्वं स्यात्, एकस्वभावजन्यत्वात् / अथ नानास्वभावैर्जनयति किञ्चद् रूपादिकमुपादानभावेन, किञ्चिद् रसादिकं सहकारित्वेनेति चेत्, तर्हि ते स्वभावास्तस्याऽऽत्मभूताः ? अनात्मभूताषा ? अनात्मभूताश्चेत्, स्वभावत्वहानिः / यदि आत्मभूतास्तार्हि तस्याऽनेकत्वम्, अनेकस्वभावत्वात्। स्वभावानांवा एकत्वं प्रसज्येत, तदव्यतिरक्तित्वात् तेषाम, तस्य चैकत्वात्। अथ य एव एकत्रोपादानभावः स एवाऽन्यत्र सहकारिभाव इतिन स्वभावभेद इष्यते, तर्हि नित्यस्यैकरूपस्याऽपि क्रमेण नानाकार्यकारिणः स्वभावभेदः, कार्यसाङ्कयं च कथमिष्यते क्षणिकवादिना ? अथ नित्यमेकरू
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy