SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ अणेगंतवाय 425 - अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय पत्वादक्रमम, अक्रमाच क्रमिणां नानाकार्याणां कथमुत्पत्तिः? इति चेत्, अहो ! स्वपक्षपाती देवानां प्रियः, यः खलु स्वयमेकस्मात् निरंशाद् रूपादिक्षणात् कारणाद् युगपदनेककारणसाध्याऽन्यनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति। तस्मात् क्षणिक-स्याऽपि भावस्याऽक्रमेणाऽर्थक्रिया दुर्घटा / इत्यनित्यैकान्ता दपि क्रमाऽक्रमयोपिकयोर्निवृत्त्यैव व्याप्याऽर्थक्रियाऽपि व्यावर्तते / तद्व्यावृत्तौ च सत्त्वमपि व्यापकाऽनुपलब्धिबलेनैव निवर्तते, इत्येकान्तानित्यवादोऽपि न रमणीयः / स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावाना-मर्थक्रियोपपत्तिरविरुद्धा / न चैकत्र वस्तुनि परस्परविरुद्ध-धर्माऽध्यासायोगादसन् स्याद्वाद इति वाच्यम् ? नित्याऽनित्य-पक्षविलक्षणस्य पक्षान्तरस्याऽङ्गीक्रियमाणत्वात, तथैव च सर्वरनुभवात् / तथा च पठन्ति - भागे सिंहो नरो भागे, योऽर्थों भागद्वयात्मकः / तमभाग विभागेन, नरसिंहं प्रचक्षते / / 1 / / इति / वैशेषिकै रपिचित्ररूपस्यैकस्याऽवयविनोऽभ्युपगमात्। एकस्यैव पटादेश्वलाऽचलरक्ताऽरक्ताऽऽवृताऽनावृतत्वादिविरुद्धधर्माणामुपलब्धेः, सौगतैरप्येकत्र चित्रपटीज्ञाने नीलाऽनीलयोर्विरोधाऽनङ्गीकारात्,अत्र च यद्यप्यधिकृतवादिनः प्रदीपादिकं कालान्तराऽवस्थायित्वात् क्षणिकं न मन्यन्ते, तन्मते पूर्वाऽपरान्तावच्छिन्नायाः सत्ताया एवाऽनित्यतालक्षणात् / तथाऽपि बुद्धिसुखादिकं तेऽपि क्षणिकतयैव प्रतिपन्नाः / इति तदधिकारेऽपि क्षणिकवादचर्चा नाऽनुपपन्ना / यदाऽपि च कालाऽन्तरावस्थायि वस्तु, तदाऽपि नित्यानित्यमेव / क्षणोऽपि न खलु सोऽस्ति, यत्र वस्तूत्पादव्ययधौव्यात्मकं नास्तीति काव्यार्थः / / 5 / / स्या०। (अनेकान्तज्ञानस्य यथार्थत्वं 'मोक्ख' शब्दे वक्ष्यते) (2) साम्प्रतमनादि-अविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षोपलक्ष्यमाणमप्यनेकान्तवादं येऽवमन्यन्ते, तेषामुन्मत्तता-माविर्भावयन्नाहप्रतिक्षणोत्पाद विनाशयोगि, स्थिरैकमध्यक्षमपीक्षमाणः। जिन ! त्वदाज्ञामवमन्यते यः, स वातकी नाथ ! पिशाचकी दा? |21|| प्रतिक्षणं प्रतिसमयमुत्पादेनोत्तराऽऽकारस्वीकाररूपेण, विनाशेन च पूर्वाऽऽकारपरिहारलक्षणेन, युज्यत इत्येवंशीलं प्रतिक्षणोत्पादविनाशयोगि। किं तत् ? स्थिरैकं कर्मताऽऽपन्नम, स्थिरमुत्पादविनाशयोरनुयायित्वात् त्रिकालवर्ति यदेकं द्रव्यं स्थिरैकम् / एकशब्दोऽत्र साधारणवाची। उत्पादे विनाशे च तत्साधारणमन्वयिद्रव्यत्वात्। यथाचैत्रमैत्रयोरेका जननी साधारणेत्यर्थः / इत्थमेव हितयोरेकाऽधिकरणता, पर्यायाणां कथञ्चिदनेकत्वेऽपि तस्य कथश्चिदेकत्वात्। एवं त्रयाऽऽत्मकं वस्तु अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयन्नपि, हे जिन ! रागादिजैत्र ! त्वदाज्ञाम्, आ सामस्त्येनाऽनन्तधर्मविशिष्टतया ज्ञायन्तेऽवबुध्यन्ते जीवादयः पदार्थाः, यया सा आज्ञा, आगमः, शासनम्, तवाऽऽज्ञा त्वदाज्ञा, तां त्वदाज्ञा भवत्प्रणीत-स्याद्वादमुद्रां, यः कश्चिदविवेकी अवमन्यतेऽवजानाति। जात्यपेक्षमेकवचनम्, अवज्ञया वा। स पुरुषपशुतिकी, पिशाचकी वा। वातो रोग विशेषोऽस्यास्तीति वातकी, वातकीव वातकी, वातूल इत्यर्थः। एवं पिशाचकीव पिशाचकी, भूताऽऽविष्ट इत्यर्थः / अत्र वा शब्दः समुच्चयऽर्थ उपमानाऽर्थो वा। स पुरुषाऽपसदो वातकि पिशाचकिभ्यामधिरोहति, तुलामित्यर्थः। वातातीसारपिशाचात् कश्चाऽन्तः(७।२।६१)इत्यनेन (हैम-सूत्रेण) / मत्त्वर्थीयः कश्चाऽन्तः। एवं पिशाचकीत्यपि। यथा किलवातेन पिशाचेन वाऽऽक्रान्तवपुर्वस्तुतत्त्वं साक्षात् कुर्वन्नपि तदावेशवशादन्यथा प्रतिपद्यते, एवमयमप्येकान्तवादा-ऽपस्मारपरवश इति / अत्र च जिनेति साभिप्रायम्, रागादि-जेतृत्वाद्धि जिनः / ततश्च यः किल विगलितदोषकालुष्यतया-ऽवधेयवचनस्याऽपि तत्रभवतः शासनमवमन्यते तस्य कथं नोन्मत्ततेति भावः / नाथ ! हे स्वामिन् ! अलब्धस्य सम्यग्दर्शना-ऽऽदेर्लम्भकतया लब्धस्य च तस्यैव निरतिचार परिपालनोप-देशदायितया च योगक्षेमकरत्वोपपत्तेनाथः, तस्याऽsमन्त्रणम्। वस्तुतत्त्वं च- उत्पादव्ययध्रौव्यात्मकम्। तथाहि- सर्व वस्तु द्रव्याऽऽत्मना नोत्पद्यते, विपद्यते वा, परिस्फुटमन्वयदर्शनात् / लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम्, प्रमाणेन बाध्यमानस्याऽन्वयस्याऽपरिस्फुटत्वात् / न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात् / सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः / “सत्यो श्चित्यपचित्योराकृतिजातिव्यवस्थानात्" इति वचनात्। ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते, विपद्यते च, अस्खलितपर्यायानुभवसद्भावात् / न चैवं शुक्ले शङ्ख पीतादिपर्यायाऽनुभवेन व्यभिचारः, तस्य स्खलद् रूपत्वात् / न खलु सोऽस्खलद् रूपो येन पूर्वाऽऽकारविनाशाऽजहद् धृतोत्तराकारोत्पादाऽविनाभावी भवेत् / न च जीवादी वस्तुनि हर्षाऽमर्षां दासीन्यादिपर्यायपरम्पराऽनुभवः स्खलद् रूपः, कस्यचिद् बाधकस्याऽभावात् / ननूत्पादादयः परस्परं भिद्यन्ते ? न वा ? यदि भिद्यन्ते, कथमेकं वस्तु त्रयाऽऽत्मकम् ? न भिद्यन्ते चेत् तथापि कथमेक त्रयाऽऽत्मकम् ? तथा च-"यधुत्पादादयो भिन्नाः कथमे कं त्रयाऽऽत्मकम् ? अथोत्पादादयोऽभिन्नाः, कथमे कंत्रयात्मकम् ?" ||1|| इति चेत्। तदयुक्तम्। कथञ्चिद् भिन्नलक्षणत्वेन तेषां कथञ्चिद् भेदाऽभ्युपगमात् / तथाहि- उत्पादविनाशध्रौव्याणि स्याद् भिन्नानि भिन्नलक्षणत्वाद् रूपादिवदिति। न च भिन्नलक्षणत्वमसिद्धम, असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयाऽनुवर्तनं च खलूत्पा-दादीनां परस्परमसङ्कीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव / न चाऽमी भिन्नलक्षणा अपि परस्परा-ऽनपेक्षा खपुष्पवदसत्त्वा-ऽऽपत्तेः / तथाहि- उत्पादः केवलो नाऽस्ति, स्थितिविगमरहित-त्वात्, कूर्मरोमवत्। तथा विनाशः केवलो नाऽस्ति, स्थित्युत्पत्ति-रहितत्वात्, तद्वत् / एवं स्थितिः केवलो नाऽस्ति, विनाशोत्पाद-शून्यत्वात्, तद्वदेव। इत्यन्यो-ऽन्याऽपेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् / तथा चोक्तम्- "घटमौलिसुवर्णाऽर्थी, नाशोत्पादस्थितिः स्वयम् / शोकप्रमोदमाध्यस्थ्यं, जनो याति सहेतुकम् / / 1 / / पयोव्रतो नदध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्माद् वस्तु त्रयात्मकम्' ||2|| इति काव्याऽर्थः // 21 // अथाऽन्ययोगव्यवच्छेदस्य प्रस्तुतत्वाद्, आस्तां तावत् साक्षाद् भवान, भवदीयप्रवचनावयवा अपि परतीर्थिकतिरस्कारबद्धक क्षा इत्याशयवान् स्तुतिकारः स्याद्वादध्यवस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाहअनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम्। इति प्रमाणान्यपि ते कुवादि-कुरङ्गसंत्रासनसिंहनादाः।।२।। तत्त्वं परमार्थभूतं वस्तु, जीवाऽजीवलक्षणम्, अनन्तधर्मात्मकमेव, अनन्तास्त्रिकालविषयत्वादपरिमिता ये धर्माः सहभाविनः
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy