SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ अणेक्काणंतरसिद्धकेवलनाण 423 - अभिधानराजेन्द्रः - भाग 1 अणेगंतवाय अणेक्काणंतरसिद्धके वलनाण-न० (अनेकान्तरसिद्धकेवलज्ञान) आभिनिबोधिकज्ञानभेदे, स्था०२ ठा० 1 उ०। अणेगंगिय-पुं० (अनेकानिक) अनेकपट्टकृते, नि० चू०१ उ०। कन्थिकाप्रस्तारात्मके संस्तारभेदे च। व्य०२ उ०। अणे गंत-त्रि० (अनेकान्त) न एकान्तो नियमोऽव्यभिचारी यत्र / अनियमे, अनिश्चितफलके च।वाच० अनिश्चये, विशे०। एकाग्रये, प्रव० 38 द्वा०। अणे गंतजयपडागा-स्त्री०(अनेकान्तजयपताका) हरिभद्रसूरिविरचिते स्वनामख्याते ग्रन्थभेदे,यवृत्तिविवरणं मुनिचन्द्रेणाऽकारि। तदुपक्रमे "शेषमतातिशयानां, यस्याऽनेकान्तजयपताके ह / हतुमशक्या के नाऽपि वादिना नौमि तं वीरम् // 1 / / कतिपयविषमपदगतं, वक्ष्येऽनेकान्तजयपताकायाः / वृत्तेर्विवरणमहमल्पबुद्धिबुद्ध्यै समासेन"||२| अनेकान्तजयपताकावृत्तिविव०। अणेगंतप्पग-न०(अनेकान्तात्मक) अम्यते गम्यते निश्चीयते इत्यन्तो धर्मः / न एकोऽनेकः / अने कश्चाऽसावन्तश्चाऽने कान्तः / स आत्मा स्वभावो यस्य वस्तुजातस्य तदनेकान्तात्मकम् / सदसदाद्यनेकधर्माऽऽत्मके, रत्ना०३ परि०। अणेगंतवाय-पु०(अनकान्तवाद) स्याद्वादे, सच यथा युक्ततामञ्चति, तथा स्याद्वादमञ्जर्यादिग्रन्थेभ्यः संगृह्यते। (1) एकान्तवाददूषणपुरस्सरमनेकान्तवादिमतम्। (2) प्रत्यक्षोपलक्ष्यमाणमप्यनेकान्तवादं येऽवमन्यन्ते, तेषामुन्मत्त ताऽऽविर्भावनम्। (3) उत्पादविनाशयोरैकान्तिकताऽभ्युपगमनिषेधः / (4) वस्तुनोऽनन्तधर्मात्मकत्वम्। (5) वस्तुन एकान्तसद्रूपत्वं स्वीकुर्वतः सांख्यमतस्यपरासने युक्तिः / (6) कालाधकान्तवादोऽपि मिथ्यात्वमेव / (7) साधर्म्यतो वैधयंतश्च साध्यसिद्धिः। (8) अनेकान्तवाद एव सन्मार्गः। () एकान्तवादिनोऽज्ञाः। (10) अनेकान्तवादस्वीकाराऽस्वीकारयोः सम्यमिथ्यात्वम्। (1) तत्रैकान्तवाददूषणपुरस्सरमनेकान्तवादी आहआदीपमाव्योम समस्वभावं, स्याद्वादमुद्राऽनतिभेदि वस्तु। तन्नित्यमेवैकमनित्यमन्य दिति त्वदाऽऽज्ञाद्विषतां प्रलापाः||५|| आदीपं दीपादारभ्य, आव्योम व्योममर्यादीकृत्य, सर्वं वस्तु पदार्थस्वरूपं, समस्वभावम्-समस्तुल्यःस्वभावःस्वरूपं यस्य तत्तथा / किञ्च- वस्तुनः स्वरूपं द्रव्यपर्यायात्मकत्वमिति ब्रूमः / तथा च वाचकमुख्यः - "उत्पादव्ययध्रौव्ययुक्तं सत्" इति / समस्वभावत्वं कुतः? इति विशेषणद्वारेण हेतुमाह - (स्याद्वाद-मुद्राऽनतिभेदि) स्यादित्यव्ययमनेकान्तद्योतकम् / ततः स्याद्वादोऽनेकान्तवादो नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत् / तस्य मुद्रा मर्यादा तां नाऽतिभिनत्ति नाऽतिक्रामति इति स्याद्वादमुद्राऽनतिभेदि। यथाहि-न्यायैकनिष्ठे राजनि राज्यश्रियंशासति सति सर्वाः प्रजास्तन्मुद्रां नाऽतिवर्तितुमीशते, तदतिक्रमे तासां सर्वार्थहानिभावात्। एवं विजयिनि निष्कण्टके स्याद्वादमहानरेन्द्र तदीयमुद्रां सर्वेऽपि पदार्था नाऽतिक्रामन्तिः तदुल्लङ्घ ने तेषां स्वरूपव्यवस्थाहानिप्रसक्तेः / सर्ववस्तूनां सम-स्वभावत्वकथनं च पराभीष्टस्यैकं वस्तुव्योमादि नित्यमेव, अन्यच्च प्रदीपादि अनित्यमेवेति वादस्य प्रतिक्षेपबीजम् / सर्वे हि भावा द्रव्यार्थिकनयापेक्षया नित्याः, पर्यायार्थिकनयादेशात् पुनरनित्याः / तत्रैकान्ताऽनित्यतया परैरङ्गीकृ तस्य प्रदीपस्य तावन्नित्याऽनित्यत्वव्यवस्थापने दिङ्मात्रमुच्यते / तथाहि-प्रदीपपर्यायाऽऽपन्नास्तैजसाः परमाणवः स्वरसतस्तैलक्षयाद्वाताभिधाताद्वा, ज्योतिःपर्यायं परित्यज्य तमोरूपं पर्यायान्तर-मासादयन्तोऽपि नैकान्तेनाऽनित्याः, पुद्गलद्रव्यरूपतयाऽव-स्थितत्वात् तेषाम् / न ह्येतावतैवाऽनित्यत्वं यावता पूर्वपर्यायस्य विनाशः, उत्तरपर्यायस्य चोत्पादः। न खलु मृद्रव्यं स्थासक कोशकुशूलशिवकघटाद्यवस्थाऽन्तराण्यापद्यमानमप्येकान्ततो विनष्टम्, तेषु मृद्रव्यानुगमस्याऽऽबालगोपालं प्रतीतत्वात् / न च तम सः पौगलिकत्वमसिद्धम, चाक्षुषत्वाऽन्यथाऽनुपपत्तेः, प्रदीपाऽऽलोकवत्। अथ यश्चाक्षुषं तत् सर्वं स्वप्रतिभासे आलोकमपेक्षते, न चैवं तमः, तत् कथं चाक्षुषम् ? नैवम्। उलूकादीनामालोकमन्तरेणापितत्प्रतिभासात्। यैस्त्वस्मदादिभिरन्यच्चाक्षुषं घटादिकमालोकं विना नोपलभ्यते, तैरपि तिमिरमालोकयिष्यते, विचित्रत्वाद् भावानाम् / कथमन्यथा / पीतश्वेतादयोऽपि स्वर्णमुक्ताफलाद्या आलोकाऽपेक्षदर्शनाः। प्रदीपचन्द्रादयस्तुप्रकाशान्तरनिरपेक्षाः। इति सिद्धं तमश्चाक्षुषं, रूपवत्त्वाच स्पर्शवत्त्वमपि प्रतीयते, शीतस्पर्श-प्रत्ययजनकत्वात्। यानित्वनिविमावयवत्वमप्रतिघातित्वमनुभूतस्पर्श विशेषत्वमप्रतीयमानखण्डावयविद्रव्यप्रविभागत्वमित्यादीनि तमसः पौद्रलिकत्वनिषेधाय परैः साधनान्युपन्यस्तानि, तानि प्रदीपप्रभादृष्टान्तेनैव प्रतिषेध्यानि, तुल्ययोगक्षेमत्वात्। न च वाच्यं तैजसाः परमाणवः कथं तमस्त्वेन परिणमन्त इति ? पुद्गलानां तत्तत्सामग्रीसहकृतानां विसदृशकार्योत्पादकत्वस्याऽपि दर्शनात्। दृष्टो ह्याट्रॅन्धनसंयोगवशाद् भास्वररूपस्याऽपि वढेरभास्वररूपधूमरूपकार्योत्पादः / इति सिद्धो नित्याऽनित्यः प्रदीपः। यदाऽपि निर्वाणादर्वाग् देदीप्यमानो दीपस्तदाऽपि नवनव पर्यायोत्पादविनाशभावत्वात् प्रदीपत्यान्वयाच नित्याऽनित्य एव / एवं व्योमापि उत्पादव्ययध्रौव्यात्मकत्वान्नित्याऽनित्यमेव / तथाहि - अवगाहाकानां जीवपुद्गलानामवगाहदानोपग्रह एव तल्लक्षणम्, "अवकाशदमाकाशमिति" वचनात्। यदा चाऽवगाहका जीवपुद्गलाः प्रयोगतो विलसातो वा एकस्मात् नभःप्रदेशात् प्रदेशान्तरमुपसर्पन्ति, तदा तस्य व्योम्नस्तैरवगाहकैः सममेकस्मिन् प्रदेशे विभागः, उत्तरस्मिंश्च प्रदेशेसंयोगः। संयोगविभागौ च परस्परं विरुद्धौ धौ / तद्भेदे चाऽवश्यं धर्मिणो भेदः / तथा चाहुः - "अयमेव हि भेदो भेद हे तुर्वा, यद्विरुद्धधर्माऽध्यासः कारणभेदश्चेति" / ततश्च तदाकाशं पूर्वसंयोगविनाशलक्षणपरिणामापत्त्या विनष्टम् उत्तरसंयोगोत्पादाऽऽख्यपरिणामानुभवाचोत्पन्नम् | उभयत्राऽऽकाशद्रव्यस्याऽनुगतत्वाचोत्पादव्यययोरेकाऽधि-करणत्वम्। तथा च "यदप्रच्युताऽनुत्पन्नस्थिरैकरूपं नित्यम्" इति नित्यलक्षण-माचक्षते / तदपास्तम् / एवंविधस्य कस्यचिद्वस्तुनो-ऽभावात्। 'तद्भावाऽव्ययं नित्यम्' इतितुसत्यं नित्यलक्षणम्। उत्पाद-विनाशयोः सद्भावेऽपि तद्भावादन्वयिरूपाद् यत्न व्येति, तत् नित्यम्, इति तदर्थस्य घटमानत्वात् / यदि हि अप्रच्युताऽऽदि लक्षणं नित्यमिष्यते, तदोत्यादव्यययोर्निराधारत्वप्रसङ्गः / न च
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy