SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ अणुव्वय ४१८-अभिधानराजेन्द्रः - भाग 1 अणुव्वय महत्तरागारेणं सव्वसमाहिवत्तिआगारेणं वोसिरामि० तत एकाशनादि विशेषतपः कारयति, सम्यक्त्वादिदुर्लभताविषयां च देशनां विधत्ते / देशविरत्यारोपणविधिरप्येवमेव / व्रता-भिलापस्त्वेवम्- अहं णं भंते ! तुम्हाणं समीवे थूलगं पाणाइवायं संकप्पओ निरवराह पञ्चक्खामि, जावजीवाए दुविहं तिविहेणं, मणेणं वायाए काएणं, न करेमिन कारवेमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि॥१।। अहं णं भंते! तुम्हाणं समीवे थूलगं मुसावायं जीहा छेआइहेउं कन्नाऽलीयाई पंचविहं पचक्खामि दक्खिन्नाइअविसए जावजीवाए दुविहमित्यादि०।२।। अहं णं भंते ! तुम्हाणं समीवे थूलगं अदत्तादाणं खेत्तखणणाइ चोरकारकरं रायनिग्गहकरं सचित्ताचित्तवत्थु-विसयं पचक्खामि, जावजीवाए दुविहमित्यादि०॥३॥ अहं णं भंते ! तुम्हाणं समीवे ओरालिय-वेउव्वियभेयं थूलगं मेहुणं पञ्चक्खामि, तत्थ दिव्यं दुविहं तिविहेणं तेरिच्छं एगविहं तिविहेणं, मणुअंअहागहियभंगएणं, तस्स भंते ! पडिकमामि निंदामीत्यादि०॥४॥ अहं णं भंते ! तुम्हाणं सभीवे अपरिमियपरिग्गहं पचक्खामि, धणधन्नाइनवविहवत्थुविसयं इच्छापरिमाणं उवसंपज्जामि, जावजीवाए अहागहियभंगएणं, तस्स भंते ! पडिक्कमामि० इत्यादि ||5|| एतानि प्रत्येकं नमस्कारपूर्व वारत्रयमुचारणीयानि। अहंणं भंते! तुम्हाणं समीवे गुणव्वयतिए उड्डाऽहोतिरिय-गमणवियसयं दिसिपरिमाणं परिवज्जामि० / / 6 / / उवभोगपरिभोगवए भोयणओ अणंतकायबहुबीयराइभोयणाइ परिहरामि / कम्मओ णं पन्नरसकम्मादाणाइं इंगालकम्माइयाई बहुसावज्जाइं खरकम्माई रायनियोगं च परिहरामि० // 7 // अणत्थदंडे अवज्झाणाइअं चउव्विहं अणत्थदंडं जहासत्तीए परिहरामि। जावज्जीवाए अहागहियभंगएणं० तस्स भंते !0 इत्यादि।८त्रीण्यपि समुदितानि वारत्रयम्। अहं णं भंते ! तुम्हाणं समीवे सामाइयं० / / 6 / / देसावगासियं० // 10 // पोसहोववासं० / / 11 / / अतिहिसंविभागवयं विभागवयं च जहासत्तीए पडिवजामि, जायजीवाए आहागहियभंगएणं, तस्स भंते ! . इत्यादि // 12 // चत्वार्यपि समुदितानि वारत्रयम्। इच्चेइयं सम्मत्तमूलं पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्म उवसंपज्जित्ताणं विहरामि। वारत्रयमिति / अथाऽणुव्रतादीन्येव क्रमेण दर्शयन्नाहस्थूलहिंसादिविरति-व्रतभङ्गेन केनचित्। अणुव्रतानिपञ्चाहु-रहिंसादीनिशंभवः // 24|| इह हिंसा प्रमादयोगात् प्राणव्यपरोपणरूपा। सा च- स्थूला सूक्ष्माच। तत्र सूक्ष्मा पृथिव्यादिविषया / स्थूला मिथ्यादृष्टीना-मपि हिंसात्वेन प्रसिद्धा या सा। स्थूलानां वा त्रसानां हिंसा स्थूलहिंसा। आदिशब्दात् स्थूलमृषावादाऽदत्तादानाऽब्रह्मपरिग्रहाणां परिग्रहः / एभ्यः स्थूलहिंसादिभ्यो या विरतिनिवृतिस्ताम्। (अहिंसादीनीति)अहिंसासूनृताऽस्तेयब्रह्मचर्याऽपरिग्रहान् / अणूनि साधुव्रतेभ्यः सकाशात् लघूनि, व्रतानि नियमरूपाणि अणुव्रतानि, अणोर्वा यत्यपेक्षया लघुगुणस्थानिनो व्रतान्यणुव्रतानि / अथवा- अनु पश्चात् महाव्रतप्ररूपणाऽपेक्षया प्ररूपणीयत्वाद् व्रतानि अनुव्रतानि / पूर्व हि महाव्रतानि प्ररूप्यन्ते, ततः तत्प्रतिपत्त्यसमर्थस्याऽनुव्रतानि / यदाहजइधम्मे असमत्थो, जुजइतद्देसणं पि साहुति। तानि कियन्तीत्याह- | (पञ्चेति) पञ्चसंख्यानि, पञ्चाऽणुव्रतानीति बहुवचननिर्देशेऽपि, यद् विरतिमित्येकवचननिर्देशः, सः सर्वत्र विरतिसामान्याऽपेक्षयेति / शंभवःतीर्थकराः,आहुः प्रतिपादितवन्तः। किमविशेषेण विरतिः? न, इत्याह- व्रतभङ्गे नेत्यादि / केनचिद् द्विविधत्रिविधादीनामन्यतमेन व्रतभङ्गेन व्रतप्रकारेण बाहुल्येन हि श्रावकाणां द्विविध-त्रिविधादयः षडेव भङ्गाः संभवन्तीति तदादिभङ्गजालग्रहणमुचितमिति भावः / ते च भङ्गा एवम्- श्राद्धा विरताः, अविरताश्च / ते सामान्येन द्विविधा अपि विशेषतोऽष्टविधा भवन्ति। यत आवश्यके-साभिग्गहाय णिरभिग्गहा य ओहेण सावया दुविहा। ते पुण विभज्जमाणा, अट्ठविहा हुंति णायव्वा // 1 // साभिग्रहा विरता आनन्दादयः, अनभिग्रहा अविरताः कृष्ण-सात्यकिश्रेणिकाऽऽदय इति / अष्टविधास्तु द्विविधत्रिविधादिभङ्गभेदेन भवन्ति। तथाहिदुविह तिविहेण पढमो, दुविहं दुविहेण बीअओ होइ। दुविहं एगविहेणं, एगविहं चेव तिविहेणं // 1 // एगविहं दुविहेणं, एगेगविहेण छट्ठओ होइ। उत्तरगुणसत्तमओ, अविरओ विचेव अट्ठमओ|२|| द्विविधम्- कृतं कारितं च / त्रिविधन- मनसा वचसा कायेन, यथास्थूलहिंसादिकं न करोत्यात्मना, न कारयत्यन्यैः,मनसा वचसा कायेनेत्यभिग्रहवान् प्रथमः 1, अस्य चाऽनुमतिः प्रतिषिद्धा, अपत्यादिपरिग्रहसद्भावात्, तैर्हिसादिकरणे तस्याऽनुमतिप्राप्तेः / अन्यथा परिग्रहाऽपरिग्रहयोरविशेषेण प्रव्रजिताऽप्रव्रजितयोरभेदाऽऽपत्तेः। त्रिविधत्रिविधादयस्तु भङ्गा गृहिणामाश्रित्य भगवत्युक्ता अपि क्वाचित्कत्वात् नेहाऽधिकृताः, बाहुल्येन षड्भिरेव विकल्पैस्तेषां प्रत्याख्यानग्रहणात्, बाहुल्याऽपेक्षया चाऽस्य सूत्रस्य प्रवृत्तेः / क्याचित्कत्वं तु तेषां विशेषविषयत्वात्। तथाहि- यः किल प्रविव्रजिषुः पुत्रादिसंततिपालनाय प्रतिमाः प्रतिपद्यते, यो वा विशेष स्वयंभूरमणादिगतं मत्स्यादिमांसं दन्तिदन्तचित्रकचमादिकं स्थूलहिंसादिकं वा क्वचिदवस्थाविशेषे प्रत्याख्याति, स एव त्रिविधत्रिविधादिना करोति, इत्यल्पविषयत्वात् नोच्यते। तथा द्विविधं द्विविधेनेति द्वितीयो भङ्गः२, अत्र चोत्तरभङ्गास्त्रयः, तत्र द्विविधं- स्थूलहिंसादिकं न करोति, न कारयति, द्विविधेन- मनसा वचसा 1, यद्वा- मनसा कायेन 2, यद्वा- वाचा कायेनेति 3 / तत्र यदा- मनसा वचसा न करोति, न कारयति, तदा- मनसाऽभिसंधिरहित एव, वाचाऽपि हिंसादिकमबू वन्नेव कायेन दुश्चेष्टितादि असंज्ञिवत् करोति 1, यदा तु मनसा कायेन न करोति न कारयति, तदा मनसाऽभिसन्धिरहित एव कायेन दुश्चेष्टितादि परिहरन्नेवाऽनाभोगाद्वाचैव हन्मि, घातयामि चेति ब्रूते २,यदा तुवाचा कायेन न करोति, न कारयति, तदा मनसैवाऽभिसन्धि-मधिकृत्य करोति, कारयति३ / अनुमतिस्तु त्रिभिः सर्वत्रैवाऽस्ति। एवं शेषविकल्पा अपि भावनीयाः। द्विविधमेकविधेनेति तृतीयः 3, अत्राऽप्युत्तरभङ्गास्त्रयः। द्विविधं कारणं करणं च, एकविधेन मनसा, यद्वा- वचसा, यद्वा- कायेन / एकविधं त्रिविधेनेति चतुर्थः४,अत्रच द्वौ भङ्गौ, एकविधं करणम्, यद्वा-कारणम्, त्रिविधेन मनसा वाचा कायेन / एकविधं द्विविधेनेति पञ्चमः 5, अत्रोत्तरभेदाः षट्, एकविधं करणं, यद्वा-कारणम्, द्विविधेन मनसा वाचा, यद्वा- मनसा कायेन, यद्वा वाचा कायेन / एकविधमेकविधेनेति षष्ठः६,अत्राऽपि प्रतिभङ्गाः षट्।
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy