________________ अणुवलद्धि 412- अभिधानराजेन्द्रः - भाग 1 अणुवलद्धि सम्प्रत्यविरुद्धाऽनुपलब्धेर्निषेधसिद्धौ प्रकारसंख्यामाख्यान्ति, तत्राऽविरुद्धाऽनुपलब्धिप्रतिषेधाऽवबोधे सप्त प्रकाराः // 64|| अमूनेव प्रकारान् प्रकटयन्ति प्रतिषेध्ये नाऽविरुद्धानां स्वभावव्यापक कार्यकारणपूर्वचरोत्तरचरसहचराणामनुपलब्धिः ||5|| एवं च स्वभावानुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, पूर्वचरानुपलब्धिः, उत्तरचरानुपलब्धिः, सहचरानुपलब्धिश्चेति ।।६५|क्रमेणाऽमूरुदाहरन्तिस्वभावाऽनुपलब्धिर्यथा- नाऽस्त्यत्र भूतले कुम्भः,उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलम्भात्।।६।। (उपलब्धिलक्षणप्राप्तस्येति) उपलब्धिानम्, तस्य लक्षणानि कारणानि चक्षुरादीनि, तैयुपलब्धिलक्ष्यते जन्यत इति यावत्। तानि प्राप्तः, जनकत्वेनोपलब्धिकारणान्तर्भावात्, स तथा दृश्य इत्यर्थस्तस्याऽनुपलम्भात् // 66 // घ्यापकाऽनुपलब्धिर्यथा- नाऽस्त्यत्र प्रदेशे पनसः, पादपाऽनुपलब्धे ||7|| कार्याऽनुपलब्धिय॑थानाऽस्त्यत्राऽप्रतिहतशक्तिकं बीजमकुराऽनवलोकनात् / / 68|| अप्रतिहतशक्तिकत्वं हि कार्य प्रति अप्रतिबद्धसामर्थ्यत्वं कथ्यते। तेन बीजमात्रेण न व्यभिचारः॥६८|| कारणानुपलब्धिर्यथा- न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धानाऽभावात्HIEl (प्रशमप्रभृतयो भावा इति) प्रशमसंवेगनिर्वेदानुकम्पाऽऽस्तिक्यलक्षणजीवपरिणामविशेषाः / तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्याऽभावः। कुतोऽपि देवद्रव्यभक्षणादेः पापकर्मणः सकाशात् सिध्यन् तत्त्वार्थश्रद्धानकार्यभूतानां प्रशमादीनामभावं गमयति ||6|| पूर्वचराऽनुपलब्धिर्यथा- नोदमिष्यति मुहूर्ताऽन्ते स्वातिनक्षत्रं, चित्रोदयाऽदर्शनात् / / 100|| उत्तरचराऽनुप-लब्धिर्यथानोदगमत् पूर्व भद्रपदामुहूर्तात् पूर्वमुत्तरभद्रपदोदमाऽनवगमात् / / 101|| सहचराऽनुपलब्धिर्यथानाऽस्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनाऽनुपलब्धः।।१०२|| इयं च सप्तधाऽप्यनुपलब्धिः साक्षादनुपलम्भद्वारेण परम्परया पुनरेषा संभवन्त्यत्रैवाऽन्तर्भावनीया। तथाहि-नाऽस्त्येकान्त-निरन्वयं तत्त्वम्, तत्र क्रमाक्रमाऽनुपलब्धेरिति या कार्यव्यापका-ऽनुपलब्धिः, निरन्वयतत्त्वकार्यस्याऽर्थक्रियारूपस्य यद् व्यापकं क्रमाऽक्रमरूपं, तस्याऽनुपलम्भसद्भावात्, सा व्यापका-ऽनुपलब्धावेव प्रवेशनीया / एवमन्या अपि यथासंभवमास्वेव विशन्ति ।।१०२।विरुद्धाऽनुपलब्धि विधिसिद्धौ भेदतो भाषन्तेविरुद्धाऽनुपलब्धिस्तु विधिप्रतीतौ पञ्चधा / / 103 / / तानेव भेदानाहुः - विरुद्धकार्यकारणस्वभावव्यापकसहचराऽनुपलम्भभेदात्॥१०॥ विधेयेनाऽर्थेन विरुद्धानां कार्यकारणस्वभावव्यापक सहचराणामनुपलम्भा अनुपलब्धयस्तैर्भेदो विशेषस्तस्मात् / ततश्च विरुद्धकार्याऽनुपलब्धिः, विरुद्धकारणाऽनुपलब्धिः, विरुद्धस्वभावाऽनुपलब्धिः, विरुद्धव्यापकाऽनुपलब्धिः, विरुद्धसहचराऽनुपलब्धिश्चेति // 10 // क्रमेणैतासामुदाहरणान्याहुः - विरुद्धकार्यानुपलब्धिर्यथाऽत्र शरीरिणि रोगाऽतिशयः समस्ति, नीरोगव्यापाराऽनुपलब्धेः।।१०५|| विधेयस्य हि रोगाऽतिशयस्य विरुद्धमारोग्यम्, तस्य कार्य विशिष्टो व्यापारः / तस्याऽनुपलब्धिरियम् // 10 // विरुद्धकारणानुपलब्धिर्यथा- विद्यतेऽत्र प्राणिनि कष्टमिष्टसंयोगाऽभावात्॥१०६| अत्र विधेयं कष्टम्, तद् विरुद्धं सुखम्, तस्य कारणमिष्ट-संयोगः, तस्याऽनुपलब्धिरेषा / / 106|| विरुद्धस्वभावाऽनुपलब्धिर्यथा- वस्तुजातमनेकाऽन्तात्मकमेकान्तस्वभावाऽनुपलम्भात्॥१०७|| वस्तुजातमन्तरङ्गो बहिरङ्गश्च विश्ववर्तिपदार्थसार्थः / अम्यते गम्यते निश्चीयते इत्यन्तो धर्मः, न एकोऽनेकः अनेकश्वाऽसावन्त-श्वाऽनेकान्तः, स आत्मा स्वभावो यस्य वस्तुजातस्य तदने का-ऽन्तात्मकम्, सदसदाद्यनेकधर्माऽऽत्मकमित्यर्थः / अत्र हेतुः एकान्तस्वभावस्य सदसदाद्यन्यतरधविधारणस्वरूपस्या-ऽनुपलम्भादिति / अत्र विधेयेनानेकान्तात्मकत्वेन सह विरुद्धः सदायेकान्तस्वभावः, तस्याऽनुपलब्धिरसौ // 107 / / विरुद्धव्यापकाऽनुपलब्धिर्यथा- अस्त्यत्र छाया औष्ण्याऽनुपलब्धेः / / 108|| विधेयया छायया विरुद्धस्तापः, तद्व्यापकमौष्ण्यम्, तस्याऽनुपलब्धिरियम् // 10 // विरुद्धसहचरानुपलब्धिर्य था- अस्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनाऽनुपलब्धेः॥१०६।। विधेयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानं, तत्सहचरं सम्यग्दर्शनं, तस्याऽनुपलब्धिरेषा / / 106 // रत्ना०३ परि० / अथाऽनुपलब्धेः प्रामाण्यविचारः - यदपि- प्रत्यक्षदेरनुत्पत्तिः, प्रमाणाऽभाव उच्यते / साऽत्मनोऽपरिणामो वा, विज्ञानं वाऽन्यवस्तुनि // 1 // (सेति) प्रत्यक्षादिअनुत्पत्तिः आत्मनो घटादिग्राहकतया परिणामाऽभावः प्रसज्यपक्षे / पर्युदासपक्षे पुनरन्यस्मिन् घटविविक्तताऽऽख्ये वस्तुनि अभावे घटो नाऽस्तीति विज्ञानमित्यभावप्रमाणमभिधीयते / तदपि यथासंभवं प्रत्यक्षाद्यन्तर्गतमेव / तथाहि- गृहीत्वा वस्तुसद्भाव, स्मृत्वा च प्रतियोगिनम् / मानसं नाऽस्तिताज्ञानं, जायतेऽक्षानपेक्षया ||1 / / इतीयमभावप्रमाणजनिका सामग्री। तत्रच भूतलादिकं वस्तु प्रत्यक्षेण घटादिभिः प्रतियोगिभिः संसृष्टमसंसृष्ट वा गृह्येत?नाऽऽद्यः पक्षः। प्रतियोगिसंसृष्टस्य भूतलादिवस्तुनः प्रत्यक्षेण ग्रहणे तत्र प्रतियोग्य-भावग्राहकत्वेनाऽभावप्रमाणस्य प्रवृत्तिविरोधात्। प्रवृत्तौ वा न प्रामाण्यम्, प्रतियोगिनः सत्त्वेऽपि तत्प्रवृत्तेः / द्वितीयपक्षे त्वभाव-प्रमाणवैयर्थ्यम्,प्रत्यक्षेणैव प्रतियोगिनां कुम्भादीनामभावप्रतिपत्तेः। अथ न संसृष्टं नाऽप्यसंसृष्टं प्रतियोगिभिर्भूतलादि-वस्तु प्रत्यक्षेण गृह्यते, वस्तुमात्रस्य तेन ग्रहणाऽभ्युपगमादिति चेत् ? तदपि दुष्टम्। संसृष्टत्याऽसंसृष्टत्वयोः परस्परपरिहारस्थितिरूपत्वेनैक-निषेधे अपरविधानस्य परिहर्तुमशक्यत्वादिति / सदसद्रुपवस्तु