________________ अणुवत्ति 411- अभिधानराजेन्द्रः - भाग 1 अणुवलद्धि अणुवत्ति-स्त्री०(अनुवृत्ति) इङ्गितादिना गुरुचित्तं विज्ञाय तदाऽऽनुकूल्येन प्रवृत्तौ, विशे०। आ०म०द्वि०। अणुवभोज्ज-त्रि०(अनुपभोज्य) साधूनामुपभोक्तुमयोग्ये, बृ० ३उ० अणुवम-त्रि०(अनुपम)उपमारहिते,आव०५अ०। न विद्यते उपमा शरीरसन्निवेशसौन्दर्यादिभिर्गुणैर्यस्य तदनुपमम्। षो०१५ विव०॥ अणुवमसिरिय-त्रि०(अनुपमश्रीक )निरुपमदेहकान्तिकल्पिते, आ०म०प्र०। अणुवमा-स्त्री०(अनुपमा) खाद्यविशेषे, जी०३ प्रति०। अणुवयमाण-त्रि०(अनुवदत्) पश्चाद् वदति, "आरंभट्ठी अणुवयमाणे हणपाणे घायमाणे"। आचा० 1 श्रु०६ अ० 4 उ० / "असीला अणुवयमाणस्स बितिया' अनुवदतोऽनुपश्चाद् वदतः पृष्ठतोऽपृष्ठतोऽपवदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः। आचा०१ श्रु०६अ०४ उ०। अणुवरय-त्रि०(अनुपरत)अविरते, स्था०२ ठा०१ उ० / पापाऽनुष्ठानेभ्योऽनिवृत्ते, आचा०१ श्रु०५ अ०१ उ०। अविच्छिन्ने, स०। अणुवरयकायकिरिया-स्त्री०(अनुपरतकायक्रिया)अनुपरत स्याऽविरतस्य सावद्याद् मिथ्यादृष्टे : सम्यग्दृष्टेवा कायक्रियोत्क्षेपादिलक्षणा कर्मबन्धनमनुपरतकायक्रिया / कायिक्याः क्रियाया भेदे, भ०३ श०३ उ०। अणुवरयदण्ड-पुं०(अनुपरतदण्ड) मनोवाक्कायलक्षणदण्डाद् विरते, आचा०१श्रु० 4 अ०१ उ०। अणुवरोह-पुं०(अनुपरोध) अव्यापादने, प्रायोऽन्याऽनुपरोधेन द्रव्यस्नानं तदुच्यते / अप्रतिषेधे च, ध०२ अधि०। अणुवलद्धि-स्त्री०(अनुपलब्धि) उप-लम-क्तिन् / न०तालाभाऽभावे, प्रत्यक्षाऽभावे च / वाच०। सा चदुविहा अणुवलद्धीओ। सओ असओ य। खरसंगस्स बितीया, सओ विदूराइभावओऽभिहिया। सुहुमा सुत्तत्तणओ, कम्माणुगयस्सजीवस्स / / 1 / / सा च अनुपलब्धिरेका असतो भवति, यथा- खरशृङ्गस्य / द्वितीया तु सतोऽप्यर्थस्य भवति।कुत इत्याह-(दूरादिभावादिति) दूरात् सन्नप्यर्थो न दृश्यते, यथा- स्वर्गादिः 1, आदिशब्दादतिसंनिकर्षादतिसौक्ष्म्यात् मनोऽनवस्थानादिन्द्रियापाट वात् मतिमान्द्यादशक्यत्वादावरणादभिभवात् सामान्यादनुपयोगादनुपायाद् विस्मृतेर्दुरागमात् मोहाद् विदर्शनाद् विकारादक्रियातोऽनधिगमात् कालविप्रकर्षात् स्वभावविप्रकर्षाचेति / तच्चाऽतिसन्निकर्षात् सन्नप्यर्थो नोपलभ्यते / यथा- नेत्रदूषिकापक्ष्मादिः 2, अतिसौक्ष्म्यात् परमाण्वादिः 3, मनोऽनवस्थानात् सतोऽप्यनुपलब्धिः, यथा- नष्टचेतसाम् 4, इन्द्रियापाटवात् किंचिद् बधिरादीनाम् 5, मतिमान्द्यादनुपलब्धिः, सतामपि सूक्ष्मशास्त्रार्थविशेषाणाम् 6, अशक्यत्वात् स्वकर्ण कृ काटिकामस्तकपृष्ठादीनाम् ७,आवरणाद् वस्त्रादिस्थगितलोचनायाः, कटकुट्यावृतानां च 8, अभिभवात् प्रसृतसूरतेजसि दिवसे तारकाणाम् 6, सामान्यात् सूपलक्षितस्यापि माषादेः समान-जातीयभाषादिराशिपति-तस्याऽप्रत्यभिज्ञानात् सतोऽप्यनुपलब्धिः 10, अनुपयोगाद् रूपोपयुक्तस्य शेषविषयाणाम् 11, अनुपायाच्छाग्यादिभ्यो गोमहिष्यादिपयः परिमाणजिज्ञासोः 12, विस्मृतेः पूर्वोपलब्धस्य 13, दुरागमाददुरुपदेशात् तत्प्रतिरूपकरीतिकादिविप्रलम्भितमतेः कनकादीनां सतामप्यनुपलब्धिः 14, मोहात् सतामपि जीवादितत्त्वानाम् 15, विदर्शनात् सर्वथाऽन्धादीनाम् 16, वार्द्धक्यादिविकाराद् बहुशः पूर्वोपलब्धस्य सतोऽप्यनुपलब्धिः १७,अक्रियातो भूखननादिक्रियाऽभावाद् वृक्षमूलादीनामनुपलब्धिः 18, अनधिगमाच्छास्त्राऽश्रवणात् तदर्थस्य सतोऽप्यनुपलब्धिः 16, कालविप्रकर्षाद् भूतभविष्यद् ऋषभदेवपद्मनाभतीर्थकरादीनामनुपलब्धिः 20, स्वभावविप्रकर्षात् नभःपिशाचादीनामनुपलम्भः 21 / तदेवं सतामप्यर्थानामेक-विंशतिविधाऽनुपलब्धिः / विशेष आ०५०। त्रिविधा वा, अत्यन्तात् सामान्यादविस्मृतेश्चअचंता सामन्ना, य विस्सुत्ती होइ अणुवलद्धी तु। अनुपलब्धिरेव त्रिधा भवति। तद्यथा-अत्यन्तादेकान्तेनाऽनुपलब्धिः। सामान्याद् विस्मृतेश्च। तत्र प्रथमतोऽत्यन्ताऽनुपलब्धिमाहअत्थस्स दरिसणम्मि वि, लद्धी एगंततो न संभवइ। दलु पि न जाणतो, वोहियपंडा फणससत्तू।। अर्थस्य दर्शनेऽपि कस्यचित्तदर्थविषया लब्धिरेकान्ततो न संभवति। तथा च बोधिकाः पश्चिमदिग्वर्तिनो म्लेच्छाः पनसं दृष्ट्वाऽपि पनस' इत्येवं नजानते, तेषांपनसस्याऽत्यन्त-परोक्षत्वात्।नहितद्देशे पनसः संभवति। तथा पण्डाः मथुरावासिनः सक्तून् दृष्ट्वाऽपि 'सक्तवोऽमी' इति न जानते, तेषां हि सक्तवोऽत्यन्तपरोक्षाः / ततो न तदर्शनेऽपि तदक्षरलाभः। संप्रति सामान्यतदनुपलब्धिमाहअत्थस्सुवम्गहम्मि वि, लद्धी एणंततो न संभवइ। सामन्ना बहुमज्झे, मासं पडियं जहा दट्टुं // अर्थस्याऽवग्रहेऽपि तदन्येनाऽर्थेन सामान्यात् सादृश्यादेकान्ततो लब्धिरक्षरलब्धिर्न संभवति। यथा बहुमध्ये पतितं माषं दृष्ट्वाऽपि तदन्येन सामान्यात् न तदक्षरं लभते / विस्मृतेरनुपलब्धिमाहअत्थस्सऽवि उवलंभे, अक्खरलद्धीन होइ सव्वस्स। पुटवोवलद्धमत्थे, जस्स उ नामं न संसरइ // अर्थस्य पूर्व पश्चाचोपलम्भेऽपि सर्वस्याऽक्षरलब्धिः, तद्विषयाऽक्षरलब्धिर्न संभवति / कस्य न भवतीत्यत आह- यस्याऽर्थे विवक्षार्थविषयं पूर्वोपलब्धं नाम न संस्मरति / तदेवमुक्ता त्रिविधाऽप्यनुपलब्धिः। बृ० 1 उ०। विशेष सम्प्रत्यनुपलब्धि प्रकारतः प्राहुः - अनुपलब्धेरपि दैरूप्यम्, अविरुद्धाऽनुपलब्धिर्विरुद्धाऽनुपलब्धिश्च / / अविरुद्धस्य प्रतिषेध्येनाऽर्थन सह विरोधमप्राप्तस्याऽनुपलब्धिरविरुद्धाऽनुपलब्धिः / एवं विरुद्धाऽनुपलब्धिरपि / / 63 / /