________________ अणुमाण ४०८-अभिधानराजेन्द्रः - भाग 1 अणुमाण प्रतिज्ञादिविपक्षप्रतिषेधःपञ्चप्रकारोऽप्येकएवेति गाथार्थः / / 150 // षष्ठमवयवमभिधायेदानीं सप्तमं दृष्टान्तनामानमभि-धातुकाम आह अरहंत मग्गगामी, दिलुतो साहुणो वि समचित्ता। पागरएसु गिहीसु उ, एसते अवहमाणा उ।।१५१।। पूजामर्हन्तीति अर्हन्तः / न रुहन्तीति वा अरुहन्तः / किम् ? दृष्टान्त इति सम्बन्धः। तथा मार्गगामिन इति। प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुंशीलं येषांतएव गृह्यन्ते।केचते? इत्यत आह-साधवः, साधयन्ति सभ्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः / किं भूताः? समचित्ता रागद्वेषरहितचित्ता इत्यर्थः / किमिति तेऽपि दृष्टान्त इति ? अहिंसादिगुणयुक्तत्वात् / आह च-पाकरतेष्वात्मार्थमेव पाकसक्तेषु गृहेष्वगारेष्वेषन्ते गवेषयन्ति पिण्डपातमित्यध्याहारः / किं कुर्वाणा इत्यत आह-(अवहमाणा उत्ति)न घ्नन्तोऽनन्तः। तुरवधारणार्थः / ततश्चाऽनन्त एत, आरम्भाकरणेन पीडामकुर्वाणा इत्यर्थः / एवं द्विविधोऽपि दृष्टान्त उक्तः / दृष्टान्तवाक्यं चेदम् / स तु संस्कृत्य कर्तव्योऽहंदादिवदिति गाथार्थः // 151 / उक्तः सप्तमोऽवयवः। सांप्रतमष्टममभिधित्सुराहतत्थ भवे आसंका, उदिस्स जई विकीरए पागो। तेण र विसमं नायं, वासतणा तस्स पडिसेहे / / 15 / / तत्र तस्मिन् दृष्टान्ते भवेदाशङ्का भवत्याक्षेपः / यथोद्दिश्याऽङ्गीकृत्य यतीनपि संयतानपि / अपिशब्दादपत्याऽऽदीन्यपि। क्रियते निर्वय॑ते पाकः। कैः? गृहिभिरिति गम्यते। ततः किमित्यत आह- तेन कारणेन / र इति निपातः किल शब्दार्थः। विषममतुल्यम्, ज्ञातमुदाहरणं वस्तुतः पाकोपजीवित्वेन साधूनामनवद्यवृत्त्य-भावादिति भावितमेवैतत् पूर्वमित्यष्टमोऽवयवः / इदानीं नवममधि-कृत्याह- वर्षातृणानि तस्य प्रतिषेध इत्येतच भाष्यकृता प्राक्प्र-पञ्चितमेवेति न प्रतन्यत इति गाथार्थः / / 152 / / उक्तो नवमोऽवयवः। साम्प्रतं चरममभिधित्सुराहतम्हा उ सुरनराणं, पुजत्तं मंगलं सया धम्मो। दसमो एस अवयवो, पइनहेऊ पुणो वयणं // 153|| यस्मादेवं तस्मात् सुरनराणां देवमनुष्याणां पूज्यस्तद्भायः, तस्मात् पूज्यत्वात् मङ्गलं प्राग्निरूपितशब्दार्थ सदा सर्वकालं धर्मः प्रागुक्तः / दशम एषोऽवयव इति संख्याकथनम्। किं विशिष्टो-ऽयमित्यत आह-प्रतिज्ञाहेत्वोः पुनर्वचनं पुनर्हेतुप्रतिज्ञावचनमिति गाथार्थः / उक्तं द्वितीयं दशावयवम् / साधनाऽङ्गता चाऽवयवानां विनेयाऽपेक्षया विशिष्टमतिपत्तिजनकत्वेन भावनीयेत्युक्तोग्नुपमः ॥१५॥दशनि०१ अ०। प्रासङ्गिकमभिधाय पक्षहेतुवचनात्मकं परार्थमनुमानमिति प्रागुक्तं समर्थयन्ते पक्षहेतुवचनलक्षणमवयवद्रयमेव परप्रतिपत्तेरङ्ग न दृष्टान्तादिवचनम्॥२८ आदिशब्देनोपनयनिगमनादिग्रहः / एवं च यद् व्याप्त्युपेतं पक्षधर्मतोपसंहाररूपं सौगतैः, पक्षहेतुदृष्टान्तस्वरूपं भाट्ट-प्राभाकरकापिलैः,पक्षहेतुदृष्टान्तोपनयनिगमनलक्षणं नैयायिकवैशेषिकाभ्यामनुमानमाम्नायि। तदपास्तम्। व्युत्पन्न-मतीन प्रतिपक्षहेतुवचसोरेवोपयोगत् // 28 // पक्षप्रयोग प्रतिष्ठाप्य हेतुप्रयोगप्रकारं दर्शयन्तिहेतुप्रयोगस्तथोपपत्त्यन्यथाऽनुपपत्तिम्यां दिप्रकारः / / 2 / / तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः / अन्यथा साध्याऽभावप्रकारेणानुपपत्तिरेवाऽन्यथाऽनुपपत्तिः // 26) अमू एव स्वरूपतो निरूपयन्तिसत्येव साध्ये हेतोरुपपत्तिस्तथोपपत्तिः, असति साध्ये हेतोरनुपपत्तिरेवान्यथाऽनुपपत्तिः॥३०॥ निगदव्याख्यानम् // 30 // प्रयोगतोऽपि प्रकटयन्तियथा कृशानुमानयं पाक प्रदेशः, सत्येव कृशानुमत्त्वे धूमवत्त्वस्योपपत्तेः, असत्यनुपपत्तेर्वा // 31 // एतदपि तथैव॥३१॥ अमुयोः प्रयोगौ नियमयन्तिअनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्राऽनुपयोगः // 32 // अयमर्थः - प्रयोगयुग्मेऽपि वाक्यविन्यास एव विशिष्यते, नाऽर्थः / स चाऽन्यतरप्रयोगैणैव प्रकटीबभूवेति किमपरप्रयोगेण ? इति // 32 // अथ यदुक्तं "न दृष्टान्तादिवचनं परप्रतिपत्तेरङ्गम्" इति तत्र दृष्टान्तवचनं तावन्निराचिकीर्षवस्तद्धि किं परप्रतिपत्त्यर्थं परैरङ्गीक्रियते ?, किं वा हेतोरन्यथाऽनुपपत्तिनिर्णीतये ? यद्वाऽविनाभावस्मृतये? इति विकल्पेषु प्रथमं विकल्पं तावद् दूषयन्तिन दृष्टान्तवचनं परप्रतिपत्तये प्रभवति, तस्यां पक्षहेतुवचनयोरेव व्यापारोपलब्धेः // 33 // प्रतिपन्ना अविस्मृतसंबन्धस्य हि प्रमातुरग्निमानयं देशो धूमवत्त्वाऽन्यथाऽनुपपत्तेरित्येतावतैव भवत्येव साध्यप्रतीतिरिति॥३३॥ द्वितीयं विकल्पं परास्यन्तिन च हेतोरन्यथाऽनुपपत्तिनिर्णीतये यथोक्ततर्कप्रमाणादेव तदुपपत्तेः॥३|| दृष्टान्तवचनं प्रभवतीति योगः // 34 // अत्रैवोपपत्त्यन्तरमुपवर्णयन्तिनियतै कविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगतो विप्रतिपत्तौ तदन्तराऽपेक्षायामनवस्थितेर्दुर्निवारः समवतारः॥३१॥ प्रतिनियतव्यक्तौ हि व्याप्तिनिश्चयः कर्तुमशक्यः। ततो व्यक्त्यन्तरेषु व्याप्त्यर्थं पुनर्दृष्टान्तान्तरं मृग्यम् / तस्याऽपि व्यक्तिरूपत्वेनाऽपरदृष्टान्ताऽपेक्षायामनवस्था स्यात् // 35 / / तृतीयविकल्पं पराकुर्वन्तिनाऽप्यविनाभावस्मृतये, प्रतिपन्न प्रतिबन्धस्य व्युत्पन्नमतेः पक्षहेतुप्रदर्शनेनैव तत्प्रसिद्धेः॥३६|| दृष्टान्तवचनं प्रभवतीति योगः॥३६॥ अमुमेवार्थ समर्थयन्तेअन्तयप्त्यिा हेतोः साध्यप्रत्यायने शक्तावशक्ती च बहिव्यतिरुद्भावनं व्यर्थम् // 37|| अयमर्थः - अन्तव्याप्तः साध्यंसं सिद्धिशक्ती, बायव्याप्तेः