SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ अणुमाण 407 - अभिधानराजेन्द्रः - भाग 1 अणुमाण दृष्टान्तद्वैविध्यख्यापनार्थम्, यः खल्वनन्तरप्रयुक्तोऽपि परोक्षत्वादागमगम्यत्वाद् दार्शन्तिकार्थसाधनायाऽलं न भवति, तत्प्रसिद्धये विपक्षसिद्धो योऽन्य उच्यते,सपरम्परादृष्टान्तः। तथाचतीर्थंकरास्तथा साधवश्च द्वावपि भिन्नावेतावुत्तरत्र दृष्टान्ता-वभिधस्येते / अत्र तीर्थकृल्लक्षणं दृष्टान्तमङ्गीकृत्येह विपक्ष-प्रतिषेधावुक्तौ / साधूंस्त्वधिकृत्य तत्रैवाऽऽशङ्कातत्प्रतिषेधौ दर्शयिष्येते इत्यदोषः / स्यात् मतं प्रागुक्तेन विधिना लाघवार्थ-मनुक्त एव दृष्टान्तः, उच्यता काममिहैव दृष्टान्तविपक्षः, तत्प्रतिषेधश्च स एव दृष्टान्तः, किमित्युत्तरत्रोपदिश्यते, येन हेतुविभक्तेरनन्तरमिहैव न भण्यते ? तथाह्यत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीनामिव द्विरूपस्यापि दृष्टान्तस्याऽर्हत्साघुलक्षणस्यैतावेव विपक्षतत्प्रति-षेधावुपपद्यते। ततश्च साधुलक्षणस्य दृष्टान्तस्याऽऽशङ्का तत्प्रतिषेधावुत्तरत्र न पृथग्वक्तव्यौ भवतः। तथा च सति ग्रन्थलाघवंजायते। तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धिकास्त्रयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति अत्रोच्यतेइहाऽभिधीयमाने दृष्टान्तस्यैव प्रतिज्ञादीनामपि प्रत्येकमाशङ्कातत्प्रतिषेधौ वक्तव्यौ स्तः / तथा च सत्यवयवबहुत्वे दृष्टान्तस्य वा प्रतिज्ञानीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ नवक्तव्यौ स्याताम् / एवं सति दशावयवा न प्राप्नुवन्ति / दशावयवं चेदं वाक्यं भयन्तरेण प्रतिपिपादयिषितम-स्याऽपि न्यायस्य प्रदर्शनार्थमत एव यदुक्तं साधुलक्षण दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग्वक्तव्यौ स्यातामित्यादि, तदपाकृतं वेदितव्यमित्यलं प्रसङ्गेन। एवं प्रतिज्ञादीनां प्रत्येकं विपक्षो-ऽभिहितः // 146 / / अधुनाऽयमेव प्रतिज्ञादिविपक्षः पञ्चमो-ऽवयवो वर्तते, इत्येतद्दर्शयन्निदमाहएवं तु अवयवाणं, चउण्ह पडिवक्खु पंचमोऽवयवो। एत्तो छट्ठोऽवयवो, विपक्खपडिसेहतं वोच्छं / / 147 / / एवमित्ययमेवकार उपप्रदर्शने / तुरवधारणे / अयमेवाऽवयवानां प्रमाणाऽङ्गलक्षणानां चतुर्णा प्रतिज्ञादीनां प्रतिपक्षो विपक्षः पञ्चमोऽवयव इति / आह- दृष्टान्तस्याप्यत्र विपक्ष उक्त एव, तत्किमर्थ चतुर्णामित्युक्तम् ? उच्यते हेतोः सपक्षविपक्षाभ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात् तद्विपक्ष एव चाऽस्यान्तर्भावाददोष इत्युक्तः पञ्चमोऽवयवः। अधुना षष्ठ उच्यते तथा चाऽऽह- इत उत्तरत्र षष्ठोऽवयवो विपक्षप्रतिषेधस्तं वक्ष्ये-ऽभिधास्य इति गाथार्थः // 147 // इत्थं सामान्येनाऽभिधायेदानीमाद्यद्वयविपक्षप्रतिषेधम-भिधातुकाम आहसायं सम्मत्त पुमं, हासरई आउनामगोयसुहं। धम्मफलं आइदुगे, विपक्खपडिसेह मो एसो॥१४८| (सायं ति) सातवेदनीयं कर्म (सम्मत्तं ति) सम्यक्त्वं सम्यग्भावः सम्यक्त्वं मोहनीयं कर्मव (पुमं ति) पुंवेदमोहनीयम् / (हासं ति) हस्यतेऽनेनेति हासस्तद्भावो हास्यम्, हास्यमोहनीयम्। रम्यते-ऽनयेति रतिः, क्रीडाहेतू रतिमोहनीयं कर्मव / (आउनामगोयसुहं ति) अत्र शुभशब्दः प्रत्येकमभिसंबध्यते, अन्ते वचनात् / ततश्च आयुःशुभं, नामशुभं, गोत्रशुभम्, तत्राऽऽयुःशुभंतीर्थकरादिसंबन्धि, नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः। तथाहि-यशोनामादिशुभंतीर्थकरादीनामेव भवति। तथोर्गोत्रं तदपि शुभं तेषामेवेति। (धम्मफलं ति) धर्मस्य फलं धर्मफलम्, धर्मेण वा फलं धर्मफलम्, एतदहिंसादेर्जिनोक्तस्यैव धर्मस्य फलम् / अहिंसादिना जिनोक्तेनैव च धर्मणैव फलमवाप्यते / सर्वमेव चैतत् सुखहेतुत्वाद् हितम्। अतः स एव धर्मो मङ्गलं,नश्वशुरा-ऽऽदयः / तथाहि- मङ्गयते हितमनेनेति मङ्गलम् / तच्च यथोक्तधर्मणव मङ्गच्यते नाऽन्येन, तस्मादसावेव मङ्गलं, न जिनवचनबाह्याः श्वशुरादय इति स्थितम् / आह- मङ्गलबुद्ध्यैव जनः प्रणमतीत्युक्तं, तत्कथमित्युच्यते मङ्गलबुद्ध्याऽपि गोपालाऽङ्गनाऽऽदिमोह-तिमिरोपप्लुतबुद्धिलोचनो जनः प्रणमन्नपि न मङ्गलत्वनिश्चयाया-ऽलम् / तथाहि- न तैमरिकद्विचन्द्रोपदर्शन सचेतसां चक्षुष्मतां द्विचन्द्राऽऽकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते / अतद्रूप एव तद्पाध्यारोपद्वारेण तत्प्रवृत्तेरिति ।(आइदुगेति)आद्यद्वयं प्रागुक्तं, तस्मिन् आद्यद्वयविषये विपक्ष प्रतिषेधः / मो इति निपातो वाक्याऽलङ्कारार्थः / एष इति यथा वर्णित इति गाथार्थः / इत्थमाद्यद्यविपक्षप्रतिषेधः प्रतिपादितः / / 148 // संप्रति हेतुतच्छुद्ध्योर्विपक्षप्रतिषेधप्रतिपिपादयिषयेदमाहअजिइंदिय सोवहिया,वहगा जइ ते वि नाम पुजंति। अग्गी वि होज सीओ, हेउविभत्तीण पडिसेहो||१४९ll न जितानि श्रोत्रादीनि इन्द्रियाणि यैस्ते तथोच्यन्ते / उपधिश्छद्म मायेत्यनन्तरम् / उपधिना सह वर्त्तन्त इति सोपधयो मायाविनः, परव्यंसका इति यावत् / अथवा उपदधातीत्युपधिर्वस्त्राद्यनेक-रूपः परिग्रहः, तेन सह वर्तन्ते येते तथाविधाः, महापरिग्रहा इत्यर्थः / वहगा इति, वधन्तीति वधकाः प्रण्युपमर्दकर्तारः, जइ ते वि नाम पुजंतित्ति, यदीति पराभ्युपगमसंसूचकः, त इति याज्ञिकाः / अपिः संभावने। नाम इति निपातो वाक्यालङ्कारार्थः / येऽजितेन्द्रिय-त्वादिदोषदुष्टा यज्ञयाजिनो वर्तन्ते, यदि तेऽपि नाम पूज्यन्ते, एवं तद्यग्निरपि भवेच्छीतः ।नच कदाचिदप्यसौ शीतो भवति। तथा यदीन्दीवरस्रजोऽपि बान्धेयोरःस्थलशोभामादधीरन्, न चैतद् भवति / यथैवमादिरत्यन्तोऽभावस्तथेदमपीति मन्यते / अथापि कालदौर्गुण्यात् कथंचिदविवेकिना जनेन पूज्यन्ते, तथाऽपि तेषां न मङ्गलत्वसंप्रसिद्धिरप्रेक्षावतामतद्पेऽपि वस्तुनि तद्पा -ऽध्यारोपेण प्रवृत्तेः,तथाह्यकलङ्कधियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तांगमयति। अतथाभूते वस्तुनितबुद्ध्या तेषामप्रवृत्तेः। सुविशुद्ध-बुद्धयश्च दैत्याऽमरेन्द्रादयः, ते चाऽहिंसादिलक्षणं धर्ममेव पूजयन्ति, न यज्ञयाजिनः / तस्माद् दैत्याऽमरेन्द्रादिपूजितत्वाद् धर्म एवोत्कृष्ट मङ्गलं, न याज्ञिका इति स्थितम् / (हे उविभत्तीणं ति) एष हेतु तद्विभक्त्योः (पडिसेहोत्ति)विपक्षप्रतिषेधः / विपक्षशब्द इहा-ऽनुक्तेऽपि प्रकरणाद् ज्ञातव्य इति गाथार्थः / एवं हेतुतच्छुद्ध्यो-विपक्षप्रतिषेधो दर्शितः। ___ सांप्रतं दृष्टान्तविपक्षप्रतिषेधं दर्शयन्नाहबुद्धाई उवयारे, पूयाठाणं जिणा उ सम्भावं। दिटुंते पडिसेहो,छट्ठो एसो अवयवो उ||१५०|| बुद्धादयः, आदिशब्दात् कापिलादिपरिग्रहः / उपचार इति सुपा सुपो भवन्तीति न्यायादुपचारेण किञ्चिदतीन्द्रिय कथयन्तीति कृत्वा न वस्तुस्थित्या पूजायाः स्थानं पूजास्थानम् / जिनास्तु सद्भावं परमार्थमधिकृत्येति वाक्यशेषः / सर्वज्ञत्वाद्यसाधारणगुणयुक्तत्वादिति भावना / दृष्टान्तप्रतिषेध इति / विपक्षशब्दलोपाद् दृष्टान्तविपक्षप्रतिषेधः / किम् ? षष्ठ एषोऽवयव / तुर्विशेषणाऽर्थः / किं विशिनष्टि ?, सर्वोऽप्ययमनन्तरोदितः
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy