________________ अणुमाण 406 - अभिवानराजेन्द्रः - भाग 1 अणुमाण तच्छुद्धीनामधिकृतवाक्यार्थी पकारकत्वेन प्रतिज्ञादीनामिव भावनीयमित्यत्र बहु वक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात्प्रारम्भस्येति / दश० 1 अ०। (प्रतिज्ञादीनां स्वरूपं सोदाहरणं स्वस्वस्थाने दृश्यम्) / इदानीं भूयोऽपि भग्यन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे नियुक्तिकारः ते उपइन्नविभत्ती, हेउविभत्ती विवक्ख पडिसेहो। दिढतो आसंका, तप्पडिसेहो निगमणं च // 42|| (त इति) अवयवाः / तु पुनःशब्दार्थः। तु पुनरमी प्रतिज्ञादयः। तत्र प्रतिज्ञानं प्रतिज्ञा, वक्ष्यमाणस्वरूपेत्येकोऽवयवः 1, तथा विभजन विभक्तिः, तस्या एव विषयविभागकथनमिति द्वितीयः२, तथा हिनोति गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुस्तृतीयः 3, तथा विभजनं विभक्तिरिति पूर्ववचतुर्थकः 4, तथा विसदृशः पक्षो विपक्षः, साध्यादिविपर्यय इति पञ्चमः 5, तथा प्रतिषेधनं प्रतिषेधः, विपक्षस्येति गम्यत इत्ययं षष्ठः 6, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तमः 7, तथा आशङ्कनमाशङ्का, प्रक्रमाद् दृष्टान्तस्यैव इत्यष्टमः 8, तथा तत्प्रतिषेधः अधिकृता-ऽऽशङ्काप्रतिषेध इति नवमः 6, तथा निश्चित गमनं निगमनम्, निश्चितोऽवसाय इतिदशमः १०॥चशब्द उक्तसमुच्चयार्थ इति गाथासमासार्थः / व्यासार्थे तु प्रत्यवयवाऽर्थं वक्ष्यति ग्रन्थकार एव ।।१४२|तथा चाऽऽहधम्मो मंगलमुक्किट्ठ-ति पइन्ना अत्तवयणनिद्देसो। सो य इहेव जिणमए, नऽन्नत्थ पइन्न पविभत्ती।।१४३|| धर्मा मङ्गलमु त्कृष्ट मिति पूर्ववदियं प्रतिज्ञा / आह- केयं प्रतिज्ञेत्युच्यते ?, आप्तवचननिर्देश इति / तत्राऽऽप्त अप्रतारकः / अप्रतारकश्चाऽशेषरागादिक्षयाद् भवतीति। उक्तंच-"आगमो ह्याप्तवचन माप्तं दोषक्षयाद् विदुः / वीतरागोऽनृतं वाक्यं, न बूयाद् हेत्वसंभवात्" ||1|| तस्य वचनमाप्तवचनम् तस्य निर्देश आप्तवचननिर्देशः / आह- 'अयमागम०' इति / उच्यते- विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति नैष दोषः / पाठान्तरं वासाध्यवचननिर्देशः, इति। साध्यत इति साध्यम, उच्यते इति वचनमर्थः यस्मात् स एवोच्यते- साध्यं च तद्वचनं च साध्यवचनम्, साध्यार्थ इत्यर्थः / तस्य निर्देशः प्रतिज्ञेत्युक्तः प्रथमोऽवयवः / अधुना द्वितीय उच्यते- स चाऽधिकृतो धर्मः, किमिहैव जिनशासने अस्मिन्नेव मौनीन्द्रे प्रवचने, नाऽन्यत्र कपिलादिमतेषु?। तथाहि- प्रत्यक्षत एवोपलभ्यन्ते वस्त्राद्यपूतप्रभूतोदकाद्युपभोगेषुपरिव्राट्-प्रभृतयः प्राण्युपमर्दै कुर्वाणाः, ततश्च कुतस्तेषु धर्म ?, इत्याद्यत्र बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थविस्तरभयाद् भावितत्वाचेति / प्रतिज्ञा प्रविभक्तिरियम् - प्रतिज्ञाविषयविभागकथनेति गाथार्थः / उक्तो द्वितीयोऽवयवः / / 143 / / अधुना तृतीय उच्यते। तत्रसुरपूइओ त्ति हेऊ, धम्मट्ठाणे ठिया उजं परमे। हेउविभत्ती निरुवहि-जिवाण अवहेणय जियंति // 14 // सुरा देवास्तैः पूजितः सुरपूजितः। सुरग्रहणमिन्द्राद्युपलक्षणम् / इति शब्द उपदर्शने / कोऽयम् ? हेतुः / पूर्ववद् हेत्वर्थसूचकं चेदं वाक्यम्। हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः / अस्यैव सिद्धतां दर्शयतिधर्मः पूर्ववद् / तिष्ठत्यस्मिन्निति स्थानं, धर्मश्चा-ऽसौ स्थानं च धर्मस्थानम्, स्थानमालयः, तस्मिन् स्थिताः। तुरयमेवकारार्थः, स चाऽवधारणे, अयं चोपरिष्टात् क्रियया सह योक्ष्यते / यद् यस्मात्, किंभूते धर्मस्थाने ? परमे प्रधाने, किम्? सुरादिभिः पूज्यन्त एवेति वाक्यशेषः / इति तृतीयोऽवयवः / अधुना चतुर्थ उच्यते - हेतुविभक्तिरियं हेतुविषयविभागकथनम्। अथक एते धर्मस्थाने स्थिता इत्यत्राह-निरुपधयः / उपधिश्छद्म माया इत्यनर्थाऽन्तरम् / अयं च क्रोधाऽऽधुपलक्षणम् / ततश्च निर्गता उपध्यादयः सर्व एव कषाया येभ्यस्ते निरुपधयो निष्कषायाः, जीवानां पृथिवीकायिकादीनामवधेनाऽपीडया, चशब्दात् तपश्चरणादिना च हेतुभूतेन जीवन्ति प्राणान् धारयन्ति, ये त एव धर्मस्थाने स्थिता नाऽन्य इति गाथार्थः / / 144 // उक्तश्चतुर्थोऽवयवः / अधुना पञ्चममभिधित्सुराहजिणवयणपदुढे वि हु, ससुराईए अधम्मरुइणो वि। मंगलबुद्धीइ जणो, पणमइ आइदुयविवक्खो // 145|| इह विपक्षः पञ्चम इत्युक्तम् / स चाऽयम्- प्रतिज्ञा-विभक्त्योरिति / जिनास्तीर्थकरास्तेषां वचनमागमलक्षणं तस्मिन् प्रद्विष्टा अप्रीता इति समासः, तान् / अपिशब्दा-दप्रद्विष्टानपि / हु इत्ययं निपातोऽवधारणार्थः / अस्थान-प्रयुक्तश्च स्थानं च दर्शयिष्यामः। श्वशुरादीन् / श्वशुरो लोकप्रसिद्धः, आदिशब्दात् पिपत्रादिपरिग्रहः / न विद्यते धर्मरुचिर्येषां ते अधर्मरुचयस्तान् / अपि शब्दाद् धर्मरुचीनपि। किम् ? मङ्गलबुद्ध्या मङ्गलप्रधानया धिया। मङ्गलबुद्ध्यैव नाऽमंगलबुद्धयेत्येवकारोऽवधारणार्थः। किम् ? जनो लोकः / प्रकर्षण नमति प्रणमति। आद्यद्वयविपक्ष इति / अत्राऽऽद्यद्वयं प्रतिज्ञा तच्छुद्धिश्च / तस्य विपक्षः साध्यादेविपर्ययः / इत्याद्यद्वयविपक्षः / तत्राऽधर्मरुचीनपि मङ्गलबुद्धया जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह- तेषा मधर्माव्यतिरेकाद्, जिनवचनप्रद्विष्टानपीत्यनेन तु तच्छुद्धेः, तत्राऽपि हेतुप्रयोगप्रवृत्त्या धर्मसिद्धेरिति गाथार्थः / / 145 // बिइयदुयस्स विवक्खो, सुरेहि पुजंति जण्णजाई वि। बुद्धाई वि सुरनया, वुचंते णायपडिवक्खो // 146|| द्वयोः पूरणं द्वितीयम्, द्वितीयं च तद् द्ववयं च द्वितीयद्वयम्हेतुस्तच्छुद्धिः, इदं च प्रागुक्तद्वयापेक्षया द्वितीयमुच्यते / तस्याऽयं विपक्षः / इह सुरैः पूज्यन्ते यज्ञयाजिनोऽपि / इयमत्र भावनायज्ञयाजिनो हि मङ्गलरूपा न भवन्ति, अथ च सुरैः पूज्यन्ते, ततश्च सुरपूजितत्वमकारणमित्येष हेतुविपक्षः / तथा- अजितेन्द्रियाः सोपधयश्च यतस्ते वर्तन्ते, अतोऽनेनैव ग्रन्थेन धर्मस्थाने स्थिताः परम इत्यादिकाया हेतुविभक्तेरपि विपक्ष उक्तो वेदितव्य इति / उदाहरणे विपक्ष-मधिकृत्याह- बुद्धादयो-ऽप्यादिशब्दात् कापिलादिपरिग्रहः / ते किम् ? सुरनता देवपूजिता उच्यन्ते भण्यन्ते, तच्छासनप्रतिपन्नैरिति ज्ञातप्रतिपक्ष इति गाथार्थः / / आह- ननु दृष्टान्तमुपरिष्टावक्ष्यत्येवं ततश्च तत्स्वरूपे उक्ते च तत्रैव विपक्षस्तत्प्रतिषेधश्च वक्तुं युक्तः, तत् किमर्थमिह विपक्षस्तत्प्रतिषेधश्चाभिधीयते ? / उच्यते- विपक्षसाम्यादधिकृत एव विपक्षद्वारे लाघवार्थमभिधीयते, अन्यथेदमपि पृथग्द्वारं स्यात् / तथैव तत्प्रतिषेधोऽपि द्वारान्तरं प्राप्नो ति, तथा च सति ग्रन्थगौरवं जायते / तस्माल्लाघवाऽर्थमत्र-वोच्यत इत्यदोषः / आह-'दिटुंतो आसंका, तप्पडिसेहो' त्ति वचनात् उत्तरत्र दृष्टान्तमभिधाय पुनराशङ्कां तत्प्रतिषेधं च वक्षयत्येव / तदाशङ्का च तद्विपक्ष एव / तत्किमथ'मिह पुनर्विपक्षप्रतिषेधावभिधीयेते ? उच्यते- अनन्तरपरम्पराभेदेन