________________ अणुमाण 405 - अभिवानराजेन्द्रः-भाग 1 अणुमाण उभयाऽभिमतपुरुषवत् / इत्येतत् तदा विशेषदृष्टमनुमानमुच्यते, पुरुषविशेषविषयत्वात्। एवं कार्षापणादिष्वपि वाच्यम्।तदेव-मनुमानस्य त्रैविध्यमुपदी साम्प्रतं तस्यैवकालत्रय विषयतां दर्शयन्नाहतस्स समासओ तिविहं गहणं भवइ / तं जहा अतीयकालग्गहणं, पडुप्पण्णकालग्गहणं,अणागय कालग्गहणं / (तस्सेति) सामान्येनाऽनुवर्तमानमनुमानमात्रं संबध्यते, तस्याऽनुमानस्य त्रिविधंग्रहणं भवति। तद्यथा- अतीतकाल-विषयग्रहणं ग्राह्यस्य वस्तुनः परिच्छेदोऽतीतकालग्रहणम् / प्रत्युत्पन्नो वर्तमानः कालस्तद्विषयं ग्रहणं प्रत्युत्पन्नकालग्रहणम् / अनागतो भविष्यत्कालस्तद्विषयग्रहणमनागतकालग्रहणम् / कालत्रयवर्तिनोऽपि विषयस्यानुमानात्परिच्छेदो भवतीत्यर्थः। से किं तं अतीयकालम्गहणं? अतीयकालम्गहणं उत्तणाणि वणाणि निप्पण्णं सव्वं वा मेइणिं पुण्णाणि अ कुंडसरणइदीहिआतडागाइं पासित्ता, तेणं साहिज्जइ, जहा-सुवुट्ठी आसी, से तं अतीयकालम्गहणं। तत्र (उत्तिणाई ति) उद्गतानि तृणानि येषु वनेषु तानि तथा। अयमत्र प्रयोगः - सुवृष्टि रिहाऽऽसीद्, तृणवननिष्पन्नसस्यपृथ्वीतलजलपरिपूर्णकुण्डादिजलाशयप्रभृतितत्कार्यदर्शनाद, अभिमत-देशवत्, इत्यतीतस्य वृष्टिलक्षणविषयस्य परिच्छेदः।। से किं तं पडुप्पन्नकालम्गहणं ? पडुप्पन्नकालग्गहणं साहुं गोअरग्गगयं विच्छडियपउरमत्तपाणं पासित्ता, तेणं साहिबइ, जहा-सुभिक्खे वट्टइ। से तं पड़प्पन्नकालग्गहणं। साधुं च गोचराग्रगतं भिक्षाप्रविष्ट विशेषेण छर्दितानि गृहस्थैर्दत्तानि प्रचुरभक्तपानानि यस्य स तथा तं तादृशं दृष्ट्वा कश्चित् साधयति / सुभिक्षमिह वर्तते, साधूनां तद्धेतुकप्रचुरभक्तपानलाभदर्शनात्, पूर्वदृष्टप्रदेशवदिति। से किं तं अणागयकालग्गहणं ? अणागयकालग्गहणम्अन्भस्स निम्मलत्तं, कसिणा य गिरी सविजुआ मेहा। थणिवाउभामो, संझारत्ता पणिहाय।।१|| वारुणं वा महिंदं वा अण्णयरं वा पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ, जहा सुवुट्ठी भविस्सइ / से तं अणागयकालग्गहणं // (अब्भस्स निम्मलत्तं ति) गाथा सुगमा, नवरं स्तनितं मेघगर्जितं (वाउन्भामोत्ति)तथाविधो दृष्ट्यव्यभिचारी प्रदक्षिणं दिक्षु भ्रमन् प्रशस्तो वातः(वारुणंति)आर्द्रामूलादिनक्षत्रप्रभवं माहेन्द्ररोहिणीज्येष्ठादिनक्षत्रसम्भवम् / अन्यतरमुत्पातमुल्कापातदिग्दाहादिकं प्रशस्तं वृष्ट्यव्यभिचारिणं दृष्ट्वाऽनुमीयते / यथा- सुवृष्टिरत्र भविष्यति, तदव्यभिचारिणामभ्रनिर्मलत्वा-ऽऽदीनां समुदितानामन्यतरस्य वा दर्शनाद्, यथाऽन्यवदिति / विशिष्ट ह्यत्र निर्मलत्वादयो वृष्टिं न व्यभिचरन्त्यतः प्रतिपत्त्रैवं तत्र निपुणेन भाव्यमिति। एएसिं चेव विवज्जासे तिविहं गहणं भवइ / तं जहा-अतीयकालग्गहणं, पडुप्पण्णकालग्गहणं, अणागय- | कालग्गहणं / से किं तं अतीयकालम्गहणं? अतीयकालग्गहणं नित्तिणाई अनिप्पण्णं वा सव्वं वा मेइणी सुक्काणि अ कुंडसरनइदीहिआतडागाइं पासित्ता तेणं साहिज्जइ, जहा- कुवुट्टी आसी / से तं अतीयकालग्गहणं / से किं तं पड़प्पण्णकालग्गहणं? पडुप्पण्ण-कालग्गहणं साहुंगोयरग्गगयं मिक्खं अलभमाणं पासित्ता तेणं साइज्जइ, जहा- दुभिक्खे वट्टइ। से तं पडुप्पण्णकालग्गहणं / से किं तं अणागयकालग्गहणं ? अणागयकालग्गहणम् - धूमायंति दिसाओ, संविअमेइणी अपडिबद्धा / वाया नेरइआ खलु, कुवुट्टिमेवं निवेयंति // 1 // अग्गेयं वा वायव्वं वा अण्णयरं वा अप्पसत्थं उप्पायं पासित्ता तेणं साहिज्जइ, जहा कु वुट्ठी भविस्सइ / से तं अणागयकालग्गहणं, से तं विससेदिटुं, से तं तिट्ठसाहम्मवं, सेतमणुमाणे। (एएसिं चेव विवज्जासे० इत्यादि) एतेषामेवोत्तृणवनादीनामतीतवृष्ट्यादिसाधकत्वेनोपन्यस्तानां हेतूनां व्यत्यासे व्यत्यये साध्यस्याऽपि व्यत्ययः साधयितव्यः / यथा- कुवृष्टिरिहाऽऽसीत्, निस्तृणवनादिदर्शनादित्यादिव्यत्ययः सूत्रसिद्धः / नवरम् - अनागतकालग्रहणे माहेन्द्रवारुण परिहारेणाऽऽग्नेयवायव्योत्पाता उपन्यस्ता तेषां वृष्टिविघातकत्वात्, इतरेषां सुवृष्टिहेतुत्वादिति। "सेतं विसेसदिटुं, से तं दिट्ठसाहम्मवं" इत्येतन्निगमनद्वयं दृष्टसाधर्म्यलक्षणानुमानगतभेदत्रयस्य समर्थनानन्तरं युज्यते / यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोऽपि सभेदस्याऽनुमानमविशेषत्वात् कालत्रयविषयता योजनीयैव / अतस्तामप्यभिधाय ततो निगमनद्वयमिदमकारीति प्रतिपत्तव्यम् / तदेतदनुमानमिति / अनु०। तच क्वचित्पञ्चाऽवयवेन वाक्येन, क्वचिद्दशाऽवयवेन वाक्येन परं प्रति दर्श्यते- तत्र पञ्चाऽवयवाः - प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि। अत्र च-"धम्मो मंगलमुक्किटुं, अहिंसा संजमो तवो। देवा वि तं णमंसति, जस्स धम्मे सया मणो" ||1 // इति लक्ष्यमधिकृत्य निदर्श्यतेकत्थइपंचावयवं,दसहा वा सव्वहान पडिसिद्ध / न य पुण सव्वं भन्नइ, हंदी सवियारमक्खायं // 51 / / श्रोतारमेवाऽङ्गीकृत्य क्वचित् पञ्चाऽवयवं, दशधा वेतिक्वचिद् दशाऽवयवम् / सर्वथा गुरुश्रोत्रपेक्षया, न प्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः / यद्यपि च न प्रतिषिद्धं तथाऽप्यविशेषेणैव च, न पुनः सर्वं भण्यते उदाहरणादि। किमित्यत आह-(हंदी सवियारमक्खायं ति) हंदीत्युपप्रदर्शने। किमुपदर्शयति? यस्मादिहाऽन्यत्र शास्त्राऽन्तरे सविचारं सप्रतिपक्षमाख्यातम्, साकल्यत उदाहरणाद्यभिधानमिति गम्यते / पञ्चाऽवयवाश्च प्रतिज्ञादयः / यथोक्तम्-"प्रतिज्ञाहेतूदाहरणजेपनयनि-गमनान्यवयवाः"। दश पुनः प्रतिज्ञाविभक्तत्यादयः / वक्ष्यति च-"ते उ पइण्णविभत्ती हेतुविभत्ती" इत्यादि प्रयोगांश्चैतेषां लाघवार्थमिहैव स्वस्थाने दर्शयिष्याम इति गाथार्थः / दश०१ अ० दशाऽवयवाः पुनरित्थम्प्रतिज्ञा 1, विभक्तिः२, हेतुः३, विभक्तिः४, विपक्षः५, प्रतिषेधः६, दृष्टान्तः७, आशङ्का 8, तत्प्रतिषेधः६, निगमनम् 10 / इह च दशाऽवयवाः प्रतिज्ञादिशुद्धिसहिता भवन्ति / अवयवत्वं च