SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ अणमाण ४०४-अभिधानराजेन्द्रः-भाग 1 अणुमाण नैवं प्रायाः पयोमुचः" ||1|| इति। एवं चन्द्रोदयाजल-धेर्वृद्धिरनुमीयते, कुमुद विकासश्च / मित्रोदयाजलरुह प्रबोधः घूकमदमोक्षश्च / तथाविधवर्षणात् सस्यनिष्पत्तिः, कृषीवल-मनःप्रमोदश्चेत्यादि / तदेवं कारणमेवेहाऽनुमापकं साध्यस्य, नाऽकारणम्।तत्र कार्यकारणभाव एव केषांचिद् विप्रतिपत्तिं पश्यस्तमेव तावन्नियतंदर्शयन्नाह-तन्तवः पटस्य कारणम्, न तु पटस्तन्तुनां कारणम् / पूर्वमनुपलब्धस्य तस्यैव तद्भावे उप-लम्भात् / इतरेषां तु पटाभावेऽप्युपलम्भात् / अत्राह- ननु यदा कश्चिन्निपुणः पटभावेन संयुक्तानपि तन्तून् क्रमेण वियोजयति, तदा पटोऽपि तन्तूनां कारणं भवत्येव / नैवम् / सत्त्वेनोपयोगा-ऽभावात् / यदेव हि लब्धसत्ताकं सत् स्वस्थितिभावेन कार्यमुप-कुरुते तदेव तस्य कारणत्वेनोपदिश्यते / यथा मृत्पिण्डो घटस्य / ये तु तन्तुवियोगतोऽभावीभवता पटेन तन्तवः समुत्पद्यन्ते, तेषां कथं पटः कारणं निर्दिश्यते, न हि ज्वराऽभावेन भवत आरोगिता सुखस्य ज्वरः कारणमिति शक्यते वक्तुम् / यद्येवं पटेऽप्युत्पद्यमाने तन्तवोऽभावीभवन्तीति तेऽपि तत् कारणं न स्युरिति चेत् / नैवम् / तन्तुपरिणामरूप एव हि पटः, यदिच तन्तवः सर्वथाऽभावीभवेयुः,तथा मृद्भावे घटस्येवपटस्य सर्वथैवोपलब्धिर्न स्यात्, तस्मात् पटकालेऽपि तन्तवः सन्तीति सत्त्वेनोपयोगात् ते पटस्य कारण-मुच्यन्ते / पटवियोजनकाले त्वे कैकतन्त्ववस्थायां पटो नोपलभ्यते / अतस्तत्र सत्त्वेनोपयोगाभावात् नाऽसौ तेषां कारणम् / एवं वीरणकटादिष्वपि भावना कार्या। तदेवं यद्यस्य कार्यस्य कारणत्वेन निश्चितं तत्तस्य यथासम्भवं गमकत्वेन वक्तव्यमिति। से किं तं गुणेणं ? गुणेणं- सुवण्णं निकसेणं, पुप्फ गंधेणं, लवणं रसेणं, मइरं आसायएणं, वत्थं फासेणं, से तं गुणेणं / (से किं तं गुणेणमित्यादि) निकषः कषपट्टगता कषितसुवरिखा, तेन सुवर्ण मनुमीयते / यथा पञ्चदशादिवर्णकोपेतमिदं सुवर्ण, तथाविधनिकषोपलम्भात्, पूर्वोपलब्धोभयसंमतसुवर्णवत् / एवं शतपत्रिकादिपुष्पमत्र, तथाविधगन्धोपलम्भात्, पूर्वोपलब्ध-वस्तुवत् / एवंलक्षणं मदिरावस्त्रादयोऽनेकभेदसंभवतोऽनियतस्वरूपा अपि प्रतिनियततथाविधरसवादस्पर्शादिगुणोपलब्धेः, इति नियतस्वरूपाः साधयितव्याः से किं तं अवयवेणं ? अवयवेणंमहिसं सिंगेणं, कुकुडं सिहाएणं,हत्थि विसाणेणं, वाराहं दाढाए, मोरं पिच्छेणं, आसं खुरेणं, वग्घंनहेणं, चवरिं बालग्गेणं, दुपयं मणुस्सादि, चउप्पयं गवमादि, बहुपयं गोमिआमादि, सीह केसरेणं, वसहं कुक्कुहेणं, महिला वलयबाहाए / परिअरबंधेण भडं, जाणिज्जा महिलिअं निवसणेणं / सित्थेण दोण पागं, कविं च एक्काए गाहाए ||1|| से तं अवयदेणं। (से किं तं अवयवेणमित्यादि) अवयवदर्शनेनाऽवयवी अनुमीयते / यथा महिषोऽत्र, तदविनाभूतशृङ्गोपलब्धेः, पूर्वोपलब्धो भयसंमतप्रदेशवत् / अयं च प्रयोगो वृत्तिवरण्डकाऽऽद्यन्तरितत्वादप्रत्यक्ष एवावयविनि द्रष्टव्यः, तत्प्रत्यक्ष-तायामध्यक्षत एव तत्सिद्धेः, अनुमानवैयर्थ्यप्रसङ्गादिति ! एवं शेषोदाहरणान्यपि भावनीयानि, नवरं द्विपदं मनुष्यादीत्यादि / मनुष्योऽयम् / तदविनाभूतपदद्वयोपलम्भात्, पूर्वदृष्टमनुष्यवत्। एवं चतुष्पदबहुपदेष्वपि गोम्ही, कर्णशृगाली। 'परियरबंधेण भडं" इत्यादिगाथा पूर्व व्याख्यातैव / तदनुसारेण भावार्थोऽप्यूह्य इति। से किं तं आसएणं ? आसएणं- अग्गिं धूमेणं, सलिलं बलागेणं, वुद्धिं अब्मविकारेणं, कुलपुत्तं सीलमायारेणं / से तं आसएणं। से तं सेसवं। (से किं तं आसएणमित्यादि) आश्रयतीत्याश्रयो धूम-बलाकादिस्तत्र धूमादग्न्यनुमानं प्रतीतमेव / आकारेगिता-दिभिश्चाप्यनुमानं भवति / तथा चोक्तम्- आकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च / नेत्रवक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः / / 1 / / अत्राह- ननु धूमस्याग्निकार्यत्वात्पूर्वोक्तकार्यानुमान एव गतत्वात् किमिहोपन्यासः ? सत्यम्। किन्त्वग्न्याश्रयत्वेनापिलोके तस्य रूढत्वादत्राप्युपन्यासः कृत इत्यदोषः। तदेतद्दृष्टवदनुमानम्। से किं तं दिवसाहम्मवं? दिवसाहम्मवं दुविहं पण्णत्तं / तं जहा-सामन्नदिटुं च विसेसदिहुंच। (से किंतं दिवसाहम्मवमित्यादि) द्रष्टेन पूर्वोपलब्धनार्थेन सह साधर्म्य दृष्टसाधर्म्यम्, तद्गमकत्वेन विद्यते यत्रतदृष्टसाधर्म्य-वत् ।पूर्वदृष्टश्चाऽर्थः कश्चित्सामान्यतः, कश्चित्तु विशेषतो दृष्टः स्यादतस्तद्भेदादिदं द्विविधम्सामान्यतो दृष्टार्थयोगात् सामान्यदृष्टम्, विशेषतो दृष्टार्थयोगाद् विशेषदृष्टम्। से किं तं सामण्णदिटुं? सामन्नदिटुं-जहा एगो पुरिसो तहा बहवे पुरिसा, जहा बहवे पुरिसा तहा एगो पुरिसो, जहा एगो करिसावणो तहा बहवे करिसावणा, जहा बहवे करिसावणा तहा एगो करिसावणो, से तं सामण्णदिह्र / / / (से कितंसामन्नदिट्टमित्यादि) तत्र सामान्यदृष्टं यथा- एकः पुरुषस्तथा बहवः पुरुषा इत्यादि। इदमुक्तं भवति- नालिकेर-द्वीपादायातः कश्चित् तत्प्रथमतया सामान्यत एकं कञ्चन पुरुषं दृष्ट्वाऽनुमानं करोति। यथाअयमेकः परिदृश्यमानः पुरुष एतदाकारविशिष्ट स्तथा बहवोऽत्राऽपरिदृश्यमाना अपि पुरुषा एतदाकारसम्पन्ना एव, पुरुषत्वाऽविशेषात्, अन्याकारत्वेपुरुषत्वहानिप्रसङ्गाद्, गवादिवत्। बहुषु तुपुरुषेषु तत्प्रथमतो वीक्षितेष्वेवमनुमिनोति- यथाऽमी परिदृश्यमानाः पुरुषा एत-दाकारवन्तस्तथाऽपरोऽप्येकः कश्चित्पुरुषः एतदाकारवानेव, पुरुषत्वाद, अपराकारत्वे तद्धानिप्रसङ्गाद् , अश्वादिवत् / इत्येवं कार्षापणादिष्वपि वाच्यम् / विशेषतो दृष्टमाह से किं तं विसेसदिटुं? विसेसदिट्ठ- से जहाणाम केइ पुरुसे, बहूणं पुरिसाणं मज्झे पुवदिटुं पचमि-जाणेज्जा- अयं से पुरिसे / बहूणं करिसावणाणं मज्झे पुटवदिटुं करिसावणं पञ्चभिजाणिजा-अयं से करिसावणे। (से जहा नाम० इत्यादि) अत्र पुरुषाः सामान्येन प्रतीता एव केवलं यदा कश्चित् क्वचित् कञ्चित् पुरुषविशेषं दृष्ट्वा तद् - दर्शनाऽऽहितसंस्कारोऽसञ्जाततत्प्रमेयः समयान्तरे बहुपुरुषसमाजमध्ये तमेव पुरुषविशेषमासीनमुपलभ्यानुमानयति- यः पूर्वं मयोपलब्धः, स एवाऽयं पुरुषः, तथैव प्रत्यभिज्ञायमानत्वात्,
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy