________________ अणुमाण ४०३-अभिधानराजेन्द्रः - भाग 1 अणुमाण प्रतिपाद्यापेक्षयाऽत्रोक्तमतिव्युत्पन्नम् / अतिप्रतिपाद्याऽपेक्षया तु धूमोऽत्र दृश्यते इत्यादि हेतुवचनमात्रात्मकमपि तद् भवति। बाहुल्येन तत्प्रयोगाभावात् तु नैतत्साक्षात् सूत्रे सूत्रितम्, उप-लक्षितं तुद्रष्टव्यम्, मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादि-वचनाऽऽत्मकमपि तद् भवति। यद् वक्ष्यन्ति-'मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि'' इति / पक्ष-हेतुवचनस्य च जडरूपतया मुख्यतः प्रामाण्यायोगे सत्युप-चारादित्युक्तम्, कारणे कार्योपचारादित्यर्थः / प्रतिपाद्यगतं हि यत् ज्ञानं तस्य कारणं पक्षादिवचनम्, कार्ये कारणोपचाराद्वा / प्रतिपादकगतं हि यत्स्वार्थानुमानं तस्य कार्य तद्वचनमिति // 23 // संप्रति व्याप्तिपुरस्सरं पक्षधर्मतोपसंहारं तत्पूर्विकां वा व्याप्तिमाचक्षाणान् भिक्षून पक्षप्रयोगमङ्गीकारयितुमाहुः - साध्यस्यप्रतिनियतधर्मिसंबन्धिताप्रसिद्धये हेतोरुपसंहारवचनवत् पक्षप्रयोगोऽप्यवश्यमाश्रयितव्यः॥२४|| यथा यत्र धूमस्तत्र धूमध्वज इति हेतोः सामान्येनाऽऽधारप्रतिपत्तावपि, पर्वतादिविशिष्टधर्मिधर्मताऽधिगतये धूमश्चाऽत्रेत्येवंरूपभुपसंहारवचनमवश्यमाश्रीयते सौगतैः / तथा साध्य-धर्मस्य नियतधर्मिधर्मतासिद्धये पक्षप्रयोगोऽप्यवश्यमाश्रयितव्य इति // 24 // अमुमेवाऽर्थं सोपालम्भंसमर्थयन्तेत्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमङ्गीकुरुते ?||25|| त्रिविध कार्य स्वभावाऽनुपलम्भभेदात् / तस्य साधनस्य समर्थनमसिद्धतादिव्युदासेन स्वसाध्यसाधनसामोपदर्शनम् / न ह्यसमर्थितो हेतुः साध्यसिद्ध्यङ्गम्, अतिप्रसङ्गात् / ततः पक्षप्रयोगमनङ्गीकुर्वता तत्समर्थनरूपं हेतुमनभिधायैव तत्समर्थनं विधेयम्"हन्त ! हेतुरिह जल्प्यते, न चेदस्तु कुत्रस समर्थनाविधिः? तर्हि पक्ष इह जल्प्यते, न चेदस्तु कुत्र स समर्थनाविधिः ?||1|| प्राप्यते ननु विवादतः स्फुट, पक्ष एष किमतस्तदाख्यया / तर्हि हेतुरपि लभ्यते ततोऽनुक्त एव तदसौ समर्थ्यताम् / / 2 / / मन्दमतिप्रतिपत्तिनिमित्तं, सौगत ! हेतुमथाभिदधीथाः / मन्दमतिप्रतिपत्तिनिमित्तं, तर्हि न किं परिजल्पसि पक्षम् ? // 3 // " ||25|| रत्ना०३ परि०। तचाऽनुमानं त्रिविधम्- पूर्ववत्, शेषवत्,अदृष्टसाधर्म्यवचेति से किं तं पुव्ववं ? पुव्ववं- मायापुत्तं जहा नहुँ, जुवाणं पुणरागयं / काई पचाभिजाणेज्जा, पुवलिंगेण केणइ ||1|| तं जहा- खत्तेण वा वणेण वा लंछणेण वा मसेण वा तिलएण वा, से तं पुव्वव। विशिष्ट पूर्वोपलब्धं चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यास्ति तत्पूर्ववत्, तद्द्वारेण गमकमनुमानं पूर्ववदिति भावः ! तथा चाह'मायापुत्त' इत्यादिश्लोकः / यथा माता स्वकीयं पुत्रं बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सर्वा, पूर्वदृष्टेन लिङ्गेन केनचित् क्षतादिना प्रत्यभिजानीयाद् मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः। के न पुनर्लिङ्गे नेत्याह(खत्तेण वेत्यादि) स्वदेहोद्भवमेव क्षतम्, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणः लाञ्छनमषतिलकास्तु प्रतीताः / तदयमत्र प्रयोगः / - मत्पुत्रोऽयम, अनन्यसाधारणक्षता-दिलक्षणविशिष्टलिङ्गोपलब्धेः, इति साधर्म्यवैधय॑दृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्। नैवम्। हेतोः परमार्थेनैकलक्षण-त्वात् तबलेनैव गमकत्वोपलब्धः। उक्तं च न्यायवादिनापुरुष-चन्द्रेण-अन्यथाऽनुपपन्नत्वमात्र हेतोः स्वलक्षणम्, सत्त्वाऽसत्त्वे हि तद्धर्मी / दृष्टान्तद्वयलक्षणे / न च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मर्व्यभिचारात् / ततो दृष्टान्तयोः सत्त्वाऽसत्त्वधर्मो यद्यपि क्वचिद् हेतौ न दृश्यते, तथापि धर्मिस्वरूपमन्यथाऽनुपपन्नं भविष्यतीति, न कश्चिद् विरोध इति भावः / यत्राऽपि धूमादौ दृष्टान्तयोः सत्त्वाऽसत्त्वं हेतोदृश्यते, तत्राऽपि साध्यान्यथाऽनुपपन्नत्वस्यैव प्राधान्यात्, तस्यैवैकस्य हेतुलक्षणताऽवसेया। तथा चाह- धूमादेर्यद्यपि स्यातां, सत्त्वाऽसत्त्वे च लक्षणे / अन्यथाऽनुपपन्नत्वप्राधान्याल्लक्षणैकता / / 1 / / किंच- यदि दृष्टान्ते सत्त्वाऽसत्त्वदर्शनाद्धेतुर्गमक इष्यते, तदा लोहलेख्यं वज्र, पार्थिवत्वात् काष्ठादिवदित्यादेरपि गमकत्वं स्यात्। अभ्यधायि च"दृष्टान्ते सदसत्त्वाभ्यां, हेतुः सम्यग् यदीष्यते।लोहलेख्यं भवेद्वजं, पार्थिवत्वाद् द्रुमादिवत्" // 1 // इति। यदि पक्षधर्मत्वसपक्षसत्त्वविपक्षाऽसत्त्वलक्षणं हेतोस्रूप्यमभ्युपगम्यापि यथोक्तदोषभयात् साध्येन सहाऽन्यथाऽनुपपन्नत्वमन्वेषणीयं, तर्हि तदेवैकं लक्षणतया वक्तुमुचितम्, किं रूपत्रयेणेति। आह च-अन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? नाऽन्यथाऽनुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? // 1 // इत्यादि अत्र बहु वक्तव्यं, तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात्, अन्यत्र यत्नेनोक्तत्वाचेति / आह- प्रत्यक्षविषयत्वादेवाऽत्राऽनुमान प्रवृत्तिरयुक्ता / नैवम्। पुरुषपिण्डमात्रप्रत्यक्षतायामपि मत्पुत्त्रोनवेति ? संदेहाद्युक्त एवाऽनुमानो पन्यास इति कृतं प्रसङ्गेन। से किं तं सेसवं? सेसवं पंचविहं पण्णत्तं / तं जहा- कजेणं कारणेणं गुणेणं अवयवेणं आसएणं / / 'से किं तं सेसवमित्यादि' पुरुषार्थोपयोगितः परिजिज्ञासितात् तुरगादेरादन्यो हेषितादिरर्थः शेष इहोच्यते / स गमकत्वेन यस्याऽस्ति तच्छेषवदनुमानम्। तच पञ्चविधम्, तद्यथा से किं तं कजेणं ? कजेणं- संखे सद्देणं, भेरिं ताडिएणं, क्सभंदक्किएणं, मोरं किंकाइएणं, हयं हेसिएणं, गयं गुग्गुलाएणं, रहं घणघणाइएणं / से तं कजेणं। (कर्लोणत्यादि) तत्र कार्येणाऽनुमानम् / यथा हयमश्वं हेषितेन, अनुमिनुते इत्यध्याहारः। हेषितस्य तत्कार्यत्वात्, तदाऽऽकर्ण्य हयोऽत्रेति या प्रतीतिरुत्पद्यतेतदिह कार्येण कार्यद्वारेणोत्पन्नं शेषवदनुमानमुच्यते इति भावः / क्वचित्तु प्रथमतः शङ्कशब्देन इत्यादि दृश्यते, तत्रोक्ताऽनुसारतः सर्वोदाहरणेषु भावना कार्या। से किं तं कारणेणं? कारणेणं तंतवो पडस्स कारणं,ण पडो तंतुकारणं, वीरणा कडस्स कारणं, ण कडो वीरणाकारणं, मिप्पिंडो घडस्स कारणं, ण घडो मिप्पिडकारणं, सेत्तं कारणेणं। (से किं तं कारणेणमित्यादि) इह कारणेन कार्यमनुमीयते / यथा विशिष्ट मेघोन्नतिदर्शनात् कश्चित् वृष्टयनुमानं करोति / यदाह-रोलम्बगवलव्यालतमालमलिनत्विषः / वृष्टिंव्यभिचरन्तीह