________________ अणुमाण 402 - अभिषानराजेन्द्रः - भाग 1 अणुमाण णमिति, अन्यत्र तु विसंवादादिदमप्रमाणमिति व्यवस्थाग्रन्थिमाबध्नीयात् / न खलुत्पत्तिमात्रेणैव प्रमाणाऽप्रमाण - विवेकः कर्तुं शक्यः, तद्दशायामुभयोः सौसदृश्यात् / संवादविसंवादापेक्षायां च तन्निश्चये निश्चित एवानुमानोपनिपातः, न चेदं प्रतिबन्धप्रतिपत्तौ तर्क स्वरूपोपायापाये अनुमानाऽध्यक्षप्रमाणाभावे च प्रामाणिकमानिनस्ते कौतुस्कुती प्रमेयव्यवस्थाऽपीत्यायाता त्वदीयहृदयस्येव सर्वस्य शून्यता। साऽपिवान प्राप्नोति, प्रमाणमन्तरेण तस्या अपि प्रतिपत्तुमशक्यत्वादिति / अहो ! महति प्रकटकष्टसंकटे प्रविष्टोऽयं तपस्वी किं नाम कुर्यात् ? / अथ "धूमाऽधीर्वह्निविज्ञानं, धूमज्ञानमधीस्तयोः / प्रत्यक्षाऽनुपलम्भाभ्यामिति पञ्चभिरन्वयः / / 1 / / " निर्णेष्यते, अनुपलम्भोऽपि, प्रत्यक्षविशेष एवेति प्रत्यक्षमेव व्याप्ति-तात्पर्यपर्यालोचनचातुर्यवयं किं तर्कोपक्रमेणेति चेत् ? न तु प्रत्यक्षं तावन्नियतधूमाऽग्निगोचरतया प्राक् प्रावृतत्, तद् यदि व्याप्तिरपितावन्मात्रैव स्यात्, तदाऽनुमानमपि तत्रैव प्रवर्ततेति कुतस्त्यं धूमात् महीधरकन्धराधिकरणाऽऽशुशुक्षणिलक्षणं, तबला बभूवान् विकल्पः। सार्वत्रिकी व्याप्ति पर्याभोति निर्णेतुमिति चेत्, कोनामैवं नामस्त? तर्कविकल्पस्योपलम्भा-ऽनुपलम्भसम्भवत्वेन स्वीकारात्। किन्तु व्याप्तिप्रतिपत्तावयमेव प्रमाणं कक्षीकरणीयः। अथ तथा प्रवर्तमानोऽयं प्राक् प्रवृत्तप्रत्यक्षव्यापारमेवाऽभिमुखयतीति तदेव तत्र प्रमाणमिति चेत् / तर्वानुमानमपि लिङ्ग ग्राहिप्रत्यक्षस्यैव व्यापारमामुखयतीति तदेव वैश्वानरवेदने प्रमाण, नानुमानमिति किं न स्यात् ? अथ कथमेवं वक्तुं शक्यम् ? लिङ्गप्रत्यक्षं हि लिङ्गगोचरमेव, अनुमानं तु साध्यगोचरमिति कथं तत्तद्व्यापारमामुखयेत् ? तर्हि प्रत्यक्ष पुरोवर्तिस्वलक्षणे क्षणक्षुण्णमेव / तर्क विकल्पस्तु साध्यसाधनसामान्यावमर्शमनीषीति कथं सोऽपि तद्व्यापारमुद्दीपयेत् ? अथ सामान्यममान्यमेव, असत्त्वादिति कथं तत्र प्रवर्तमानस्तर्कः प्रमाणं स्यादिति चेदनुमानमपि कथं स्यात् ? तस्याऽपि सामान्यगोचरत्वाऽव्यभिचारात् / “अन्यत्सामान्य-लक्षणं सोऽनुमानस्य विषयः" इति धर्मकीर्तिना कीर्तनात् / तत्त्वतोऽप्रमाणमेवैतद्, व्यवहारेणैवाऽस्य प्रमाण्यात्, सर्व एवाऽयमनुमानाऽनुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेनेति वचनादिति चेत्, तर्कोऽपि तथाऽस्तु / अथ नाऽयं व्यवहारेणाऽपि प्रमाणम्, सर्वथा वस्तुसंस्पर्शपराङ्मुखत्वादिति चेत्, अनुमानमपि तथाऽस्तु / अवस्तुनिर्भासमपि परम्परया पदार्थ प्रतिबन्धात्प्रमाणमनुमानमिति चेत्, किंनतर्कोऽपि। अवस्तुत्वं च सामान्यस्याद्याऽपि केशरिकिशोर वक्रक्रोडदंष्ट्राऽकुराऽऽकर्षणायमानमस्ति / सदृशपरिणामरूपस्याऽस्य प्रत्यक्षादिपरिच्छेद्यत्वादिति तत्त्वत एवाऽनुमानम्, तर्कश्च प्रमाणं प्रत्यक्षवदिति पाषाणरेखा // 7 / / अत्रोदाहरन्ति यथा यावान् कश्चिद् धूमः, स सर्वो वह्नौ सत्येव भवतीति तस्मिन्नसत्यसौ न भवत्येव ||8|| अत्राऽऽद्यमुदाहरणमन्वयव्याप्तौ, द्वितीयं तु व्यतिरेकव्याप्ताविति / / 8 / रत्ना०३ परि०। सम्म०। (प्रामाण्यमनुमानतो न ग्रहीतुं शक्यम्, तस्य प्रमाणत्वाऽसंभवादिति 'प्रमाण' शब्दे वक्ष्यते परलोक सिद्धावप्यनुमानप्रामाण्यखण्डनम् , अनुमानप्रमाण्यव्यवस्थितिः, शावरमतानुमाननिरासश्च सम्मतिप्रकरणग्रन्थतोऽवसे यः) अथाऽनुमानस्य लक्षणार्थं तावत्प्रकारौ (स्वार्थपराऽर्थाऽनुमाने) प्रकाशयन्ति अनुमानं द्विप्रकारं, स्वार्थ परार्थं च / नन्वनुमानस्याध्यक्षस्येव सामान्यलक्षणमनाख्यायैव कथमादित एव प्रकारकीर्तनमिति चेत् / उच्यते- परमार्थतः स्वार्थस्यैवाऽनुमानस्य भावात्, स्वार्थमेव ह्यनुमानं कारणे कार्योप-चारात् परार्थं कथ्यते / यद् वक्ष्यन्ति तत्रभवन्तः - पक्षहेतु-वचनात्मकं परार्थमनुमानमुपचारात इति। न हि गोरुपचरित-गोत्वस्य च बाहीकस्यैकं लक्षणमस्ति, यत्पुनः स्वार्थेन तुल्य-कक्षतयाऽस्योपादानम्, तद्वादे शास्त्रे चाऽनेनैव व्यवहारात् लौके-ऽपि च प्रायेणाऽस्योपयोगात् तद्वत् प्राधान्यख्यापनार्थम्। तत्र अनु हेतुग्रहणसंबन्धस्मरणयोः पश्चात् मीयते परिच्छिद्यतेऽर्थोऽनेनेत्यनुमानम् / स्वस्मै प्रमातुरात्मने इदं, स्वस्य वाऽर्थोऽनेनेति स्वार्थम्, स्वावबोधनिबन्धनमित्यर्थः / एवं परार्थमपि। अत्र चार्वाकश्चर्चयति-नाऽनुमानं प्रमाणम्, गौणत्वात्। गौण ह्यनु-मानम्, उपचरितपक्षादिलक्षणत्वात् / तथाहि-"ज्ञातव्ये पक्ष-धर्मत्वे, पक्षो धर्म्यभिधीयते। व्याप्तिकाले भवेद्धर्मः, साध्य-सिद्धौ पुनर्द्वयम् // 1 // इति। अगौणं हि प्रमाण प्रसिद्धम्, प्रत्यक्षवदिति। तत्राऽयं वराकश्चावकिः स्वारूढां शाखां खण्डयन् नियतं भौतमनुकरोति / गौणत्वादिति हि साधनमभिदधानो धुवं स्वीकृतवानेवाऽयमनुमानं प्रमाणमिति कथमेतदेव दलयेत् ? नचपक्षधर्मत्वं हेतुलक्षणमाचक्ष्महे, येन तत्सिद्धये साध्यधर्मविशिष्टे धार्मिणि प्रसिद्धमपि पक्षत्वं धर्मिण्युपचरेम, अन्यथाऽनुपपत्त्येकलक्षणत्वाद् हेतोः। नाऽपिव्याप्तिं पक्षेणैव ब्रूमहे, येन तत्सिद्धये धर्मे तदारोपयेमहि, साध्यधर्मेणैव तदभिधानात् / नन्वानुमानिक प्रतीतौ धर्मविशिष्टो धर्मी, व्याप्तौ तु धर्मः साध्यमित्यभिधास्यत इत्येकत्र गौणमेव साध्यत्वमिति चेत् / मैवम्। उभयत्र मुख्यतल्लक्षणभावेन साध्यत्वस्य मुख्यत्वाद्। तत्कि-मिह द्वयं साघनीयम् ? सत्यम् / न हि व्याप्तिरपि परस्य प्रतीता ततस्तत्प्रतिपादनेन धर्मविशिष्ट धर्मिणमयं प्रत्यायनीय इत्यसिद्ध गौणत्वम् / अथ नोपादीयत एव तत्सिद्धौ कोऽपि हेतुः, तर्हि कथमप्रमाणिकाप्रामाणिकस्येष्टसिद्धिः स्यादिति नाऽनुमानप्रामाण्यप्रतिषेधः साधीयस्तां दधाति / "नाऽनुमानं प्रमेत्यत्र हेतुः स चेत्, क्वाऽनुमामानताबाधनं स्यात्, तदा नाऽनुमानं प्रमेत्यत्र-हेतुर्नचेत्, क्वाऽनु मामानताबाधनं स्यात् तया // 1 // " इति संग्रहश्लोकः / कथं वा प्रत्यक्षस्य प्रामाण्यनिर्णयः? यदि पुन-रर्थक्रियासंवादात् , तत्र तन्निर्णयस्तर्हि कथं नाऽनुमानप्रामाण्यम् ? प्रत्यपीपदाम च"प्रत्यक्षेऽपिपरोक्षलक्षणमतेर्येन प्रमारूपता / प्रत्यक्षेऽपि कथं भविष्यति मते, तस्य प्रमारूपता / / 1 / / " इति // 6 // तत्र स्वार्थ व्यवस्थापयन्ति तत्र हेतुग्रहणसंबन्धस्मरणकारकं साध्यविज्ञानं स्वार्थमिति॥१०॥ हिनोत्यन्तर्भावितणिजर्थत्वाद् गमयति परोक्षमर्थमिति हेतुः, अनन्तरमेव निर्देक्ष्यमाणलक्षणस्तस्य ग्रहणं च प्रमाणेन निर्णयः। संबन्धस्मरणंच यथैव संबन्धो व्याप्तिनामा प्राक् तर्केणाऽतर्कि, तथैव परामर्शस्ते कारणं यस्य, तत्तथा। साध्यस्याऽऽख्यास्यमानस्य विशिष्ट संशयादिशून्यत्वेन ज्ञानं स्वार्थमनुमानं मन्तव्यम्।।१०॥रत्ना०३ परि०॥ अधुना परार्थाऽनुमान प्ररूपयन्तिपक्षहेतुवचनात्मकं परार्थाऽनुमानमुपचारात्।।२३।। पक्षहे तुवचनाऽऽत्मक त्वं च परार्थाऽनुमानस्य व्युत्पन्नमति