________________ अनुमत ४०१-अभिषानराजेन्द्रः - भाग 1 अणुमाण अनुमत-त्रि० / अभीष्ट, आ०म०द्वि० / दानमनुज्ञाते, कल्प० अनु पश्चादपि मतोऽनुमतः / ज्ञा०१ अ० विप्रियकरणस्यापि (ज्ञा० 1 अ०) वैगुण्यदर्शनस्थाऽपि (औ०) कार्यविघातस्य (ज्ञा०१ अ०) पश्चादपि मते, भ०२ श०१ उ०। अभिप्रेते, बृ०१ उ० अभिरुचिते, पथ्ये च / औ०। आनुकूल्येन सम्मते, जी०१ प्रति० / बहुमते, पञ्चा० 6 विव० अणुमहत्तर-पुं०(अनुमहत्तर) मूलमहत्तराभावे तत्कार्यकारिणि, "मूलमहत्तरे असण्णिहिते जो पुच्छणिजो धुरेठायति, सो अणु-महत्तरः / नि०चू०६ उ०। मूलमहत्तरे असन्निहिते यस्तत्र सर्वैरपि प्रच्छनीयः, धुरि च प्रथमं तिष्ठिति सोऽनुमहत्तरः। बृ०२ उ०। अणुमाण-पुं०(अणुमान) अणुश्चासौ मानः / स्तोकाहङ्कारे, सूत्र० 1 श्रु० 8 अ०॥"अणुमाणंच मायंचतंपडिण्णायपंडिए'' चक्र-वादिना सत्कारादिना पूज्यमानेनाणुरपि स्तोकोऽपि मानोऽहङ्करो न विधेयः, किमुत महान् ? / यदि वोत्तममरणोपस्थितेनोग्र-तपोनिष्टप्तदेहेन वा, अहो ! अहमित्येवंरूपः स्तोकोऽपि गर्वो न विधेयः। सूत्र०२ श्रु०८ अ०। *अनुमान-न०। अनु इति लिङ्गदर्शनसंबन्धानुस्मरणयोः पश्चात् मानं ज्ञानमनुमानम् / स्था०४ ठा०३ उ०। अविनाभावनिश्चयात् लिङ्गात् लिङ्गिज्ञाने, आ०चू०१ अ01 नं। अनु पश्चाद् लिङ्गलिगिसंबन्धग्रहणस्मरणानन्तरं मीयते परिच्छिद्यते देशकालस्वभावविप्रकृष्टोऽर्थाऽनेन ज्ञानविशेषेणेत्यनुमानम् / स्या०॥ भ०। अनु०। "साध्याविनाभूतलिङ्गात्, साध्यनिश्चायकं स्मृतम्। अनुमानं तदभ्रान्तं, प्रमाणत्वात् समक्षवत् ||1 // इति लक्षणलक्षिते प्रमाणभेदे, स्था०४ ठा०३ उ०। अनुमानस्य प्रामाण्यम्-(अनुमानं न प्रमाणमिति सिषाधयिषया प्रत्यक्षस्येवैकस्य प्रामाण्यमङ्गी-कृत्याऽऽह चार्वाक इति 'आता' शब्दे द्वितीयभागे 181 पृष्ठे द्रष्टव्यम्) साम्प्रतमक्रियावादिनां लौकायतिकानां मतं सर्वाऽधमत्वादन्ते उपन्यस्यन् तन्मतमूलस्य प्रत्यक्षप्रमाणस्याऽनुमानादिप्रमाणाऽन्तराऽनङ्गीकारे अकिञ्चित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयतिविनाऽनुमानेन पराभिसंधि__मसंविदानस्य तु नास्तिकस्य। न साम्प्रतं वक्तुमपि क्व चेष्टा, क्व दृष्टमात्रं च हहा! प्रमादः।।२०।। प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकः / तत्र संनह्यते- अनु / पश्चाल्लिङ्ग लिङ्गिसंबन्धग्रहणस्मरणानन्तरं मीयते परिच्छिद्यते देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषेणे-त्यनुमानम्। प्रस्तावात् स्वार्थानुमानम्, तेनानुमानेन लैङ्गिकप्रमाणेन विना पराभिसंधि पराभिप्रायमसंविदानस्य सम्यगजानानस्य, तु-शब्दः पूर्ववादिभ्यो भेदद्योतनार्थः। पूर्वेषां वादिनामास्तिक्तया विप्रतिपत्तिस्थानेषुक्षोदः कृतः। नास्तिकस्य तु वक्तुमपि नौचिती, कुत एव तेन सह क्षोदः ?, इतितुशब्दार्थः। नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य "नास्तिकाऽऽस्तिकदैष्टिकम्" 16466 / इति हैमसूत्रेण निपातनान्नास्तिकः / तस्य लोकायतिकस्य वक्तुमपि न साम्प्रतं, वचनमप्युच्चारयितुं नोचितम् / ततः तूष्णीभाव एवाऽस्य श्रेयान्, दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी। वचनं हि परप्रत्यायनाय प्रतिपाद्यते, परेण चाऽप्रतिपित्सितमर्थं प्रतिपादयन्नसौ सतामवधेयवचनो न भवतीत्युन्मत्तवत्। ननु कथमिव तूष्णीकतैवाऽस्य श्रेयसी?, यावता चेष्टाविशेषादिना प्रतिपाद्यस्याऽभिप्रायमनुमाय सुकरमेवानेन वचनोच्चारण-मित्याशङ्कयाह-"क्व चेष्टा क्व दृष्टमात्रं च 'इति / क्वेति बृहदन्तरे, चेष्टा इङ्गितं पराऽभिप्रायरूपस्याऽनुमेयस्य लिङ्गम्। क्व च दृष्ट-मात्रम् ? दर्शनं दृष्ट, भावे ते, दृष्टमेव दृष्टमात्रम्, प्रत्यक्षमात्रम्, तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात् / अत एव दूरमन्तरमेतयोः / न हि प्रत्यक्षेणाऽतीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं शक्याः, तस्यैन्द्रियकत्वात्। मुखप्रसादादिचेष्ट्या तुलिङ्गभूतया परा-ऽभिप्रायस्य निश्चयेऽनुमानप्रमाणमनिच्छतोऽपि तस्य बला-दापतितम् / तथाहिमद्वचनश्रवणाऽभिप्रायवानयं पुरुषः, तादृङ्मुखप्रसादादिचेष्टाऽन्यथाऽनुपपत्तेरिति। अतश्च 'हहा प्रमादः हहा इति खेदे, अहो ! तस्य प्रमादः प्रमत्तता, यदनु-भूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणाऽपहनुते। अत्र च सं-पूर्वस्य वेत्तेरकर्मकत्वे एवाऽऽत्मनेपदम्, अत्र तु कर्माऽस्ति, तत्कथमत्राऽऽनश् ? अत्रोच्यते- अत्र संवेदितुं शक्तः संविदान इति कार्यम्, 'वयःशक्ति-शीले' 15 / 2 / 24 / इति शक्तौ शान-विधानात् / ततश्चाऽयमर्थोऽनुमानेन विना पराभिसंहितं सम्यग्-वेदितुमशक्तस्येति। एवं परबुद्धिज्ञानाऽन्यथाऽनुपपत्त्याऽयमनुमान हटादङ्गीकारितः / तथा प्रकारान्तरेणाऽप्ययमङ्गी-कारयितव्यः / तथाहि- चार्वाकः काश्चिद् ज्ञानव्यक्तीः संवादित्वेनाऽव्यभिचारिणीरुपलभ्याऽन्याश्च विसंवादित्वेन व्यभिचारिणीः, पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणेतरते व्यवस्थापयेत् / न च संहितार्थबलेनोत्पद्यमानं पूर्वाऽपरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापक निमित्तमुपलक्षयितुं क्षमते / न चाऽयं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति / तस्माद् यथादृष्ट ज्ञानव्यक्तिसाधर्म्य द्वारेणेदानींतनज्ञानव्यक्तीनां प्रामाण्याऽप्रामाण्यव्यवस्थापकं परप्रतिपादकं च प्रमाणान्तरमनुमानरूपमुपासीत, परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम्,संनिहितमात्रविषयत्वात् तस्य / परलोकादिकं चाऽप्रतिषिध्य नाऽयं सुखमास्ते, प्रमाणाऽन्तरं च नेच्छतीति डिम्भहेवाकः / किञ्चप्रत्यक्षस्याऽप्यर्थाऽव्यभिचारादेव प्रामाण्यम् / कथमितरथा स्नानपानावगाहनाद्यर्थक्रियासमर्थे मरुमरीचिकानिचयचुम्बिनि जलज्ञाने न प्रामाण्यम् ? तचाऽर्थप्रतिबद्धलिङ्ग-शब्दद्वारा समुन्मज्जतोरनुमानागमयोरप्याव्यभिचारादेव किं नेष्यते ? व्यभिचारिणोरप्यनयोर्दर्शनादप्रामाण्यमिति चेत्, प्रत्यक्षस्याऽपि तिमिरादिदोषात् निशीथिनीनाथयुगलाऽव-लम्बिनोऽप्रमाणस्य दर्शनात् सर्वत्राऽप्रामाण्यप्रसङ्गः / प्रत्यक्षा-ऽऽभासं तदिति चेत्, इतरत्राऽपि तुल्यम्, एतदन्यत्र पक्षपातात् / स्था०। ये तु तथागताः प्रामाण्यमूहस्य नोहाञ्चक्रिरे तेषामशेषशून्यत्वपातकाऽऽपत्तिः / आः ! किमिदमकाण्डकूष्माण्डाऽऽडम्बरोड्डामरमभिधीयते? / कथं हि तर्कप्रामाण्या-ऽनुपगममात्रेणेदृशमसमञ्जसमापनीपद्येत ? / शृणु, श्रावयामि किल, ताऽप्रामाण्ये तावत् नाऽनुमानस्य प्राणाः, प्रतिबन्धप्रति-पत्तिउपायाऽपायात्।तदभावेन प्रत्यक्षस्यापि। प्रत्यक्षेण हि पदार्थान् प्रतिपद्य प्रमाता प्रवर्तमानः क्वचन संवादादिदं प्रमा