SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ अणुभाग 394 - अभिधानराजेन्द्रः - भाग 1 अणुभाग चतुर्द्धा भवत्यत एकस्थानिकादिरसो यैः प्रत्ययैर्यासां प्रकृतीनां भवति, तदाह-(गिरिमहिरय० इत्यादि) गिरिश्च पर्वतः, मही च पृथिवी, रजश्च / वालुका, जलंच पानीयं, गिरिमहीरजोजलानि, तेषु रेखाराजयस्ताभिः सदृशास्तुल्याः,गिरिमहीरजोरेखासदृशास्तेच ते कषायाश्च सम्परायास्तै रसो भवतीति प्रक्रमः॥६३।। कीदृगित्याहचउठाणाइ असुहसुहऽन्नहा विग्घदेसघाइआवरणा। पुभसंजलणिगदुतिचउठाणरसा सेसदुगमाई|६|| चतु:स्थानिक आदिर्यस्य रसस्य, त्रिस्थानिक द्विस्थानिकएकस्थानिकपरिग्रहः। स चतुःस्थानादिः / कासामित्याह-(असुभ त्ति) इह षष्ठ्यर्थे प्रथमा। ततः शुभानामशुभप्रकृतीनाम् / इयमत्र भावना-इह रेखाशब्दस्य प्रत्येक सम्बन्धाद् गिरि-रेखाशब्देन प्रभूतकालव्यपदेशादतितीव्रत्वं कषायाणां प्रति-पाद्यते / ततश्च गिरिरेखासदृशैः कषायैः, अनन्तानुबन्धिभिरित्यर्थः / सर्वासामशुभप्रकृतीनां चतुःस्थानिकरसबन्धो भवति। आतपशोषिततडागमहीरेखासदृशैः कषायैरप्रत्याख्यानावरणैर्मनाग्मन्दोदयैरशुभप्रकृतीनां त्रिस्थानिकरसबन्धो भवति / वालुकारेखासदृशैः कषायै : प्रत्याख्यानावरणैरशुभप्रकृतीनां द्विस्थानिकरसबन्धः / जलरे खासदृशैः कषायैरतिमन्दोदयैः संज्वलनाभिधे विघ्नपञ्च कादिवक्ष्यमाणसप्तदशाऽशुभप्रकृतीनामे वैक स्थानिक रसबन्धो भवति, न शेषाणां शुभप्रकृतीनामशुभप्रकृतीनामिति हि वक्ष्यामः / उक्तोऽशुभानां रसस्य बन्धप्रत्ययः / इदानीं शुभानां रसप्रत्ययविभागमाह-(सुहन्नह त्ति) शुभप्रकृतीनाम्-अन्यथोक्तवैपरीत्येन हेतुविपर्ययाच्चतुःस्थानिकादिरसस्य बन्धो भवति। तत्र वालुकाजलरेखासदृशैः कषायैश्चतुःस्थानिको रसबन्धो भवति। महीरेखासदृशैः कषायैस्त्रिस्थानिको रसबंधो भवति। गिरिरेखासदृशैः कषायै-द्विंस्थानिको रसबन्धः शुभप्रकृतीनां भवति। शुभप्रकृतीनां त्वेकस्थानिको रस एव नास्तीति पूर्वमेवोक्तम्। अथ यासां प्रकृतीनामेकद्वित्रिचतुःस्थानिकभेदाचतुर्विधोऽपि रसबन्धः संभवति, यासां चैकस्थानिकवर्जस्त्रिविध एवेत्येतचिन्तयन्नाह(विग्घदेसघाइआवरणा इत्यादि) विघ्नानि दानलाभभो गोपभोगवीर्यान्तरायभेदादन्तरायाणि पञ्च / देशघात्यावरणा देशघात्यावारिकाः सप्त प्रकृतयः / तद्यथा-मतिज्ञानश्रुतज्ञानावधिज्ञानमनः पर्यायज्ञानावरणाश्वतस्रः / चक्षुर्दर्शनाऽचक्षुर्दर्शनाऽवधिदर्शनावरणास्तिस्रः, इत्येताः / (पुम त्ति) पुंवेदः / संज्वलना-श्चत्वारः क्रोधमानमायालोभाः, इत्येताः सप्तदश प्रकृतयः / किमित्याह(इगदुतिचउठाणरस त्ति) स्थानशब्दस्य प्रत्येकं सम्बन्धात् एक स्थानद्विस्थानत्रिस्थानचतुस्थाना रसा यासां ता एक द्वित्रिचतुःस्थानरसाः / एताः सप्तदशाऽपि प्रकृतयः एकद्वित्रिचतुःस्थानिकरूपेण चतुर्विधेनापि रसेन संयुक्ता बध्यन्त इति तात्पर्यम् / तत्राऽनिवृत्तिबादरे गुणस्थाने संख्येयेषु भागेषु गतेष्वासां सप्तदशानामपि प्रकृतीनामेक स्थानिको रसः प्राप्यते, शेषस्थानिकास्तु, रसास्त्रयोऽप्यासा संसारस्थान् जीवानाश्रित्य प्राप्यन्त इति।शेषाः प्रकृतयस्तर्हि किंरूपा भवन्तीत्याह-(सेसदुगमाइ त्ति) शेषाः भणितसप्तदशप्रकृतिभ्य उद्भरिताः, सर्वाः शुभा अशुभाश्च प्रकृतयो बध्यन्ते / 'दुगमाइ त्ति' सूचनात्सूत्रमिति न्यायाद् द्विस्थानादिरसाः, आदिशब्दात् त्रिस्थानरसा-श्वतुःस्थानरसाश्च / शेषाः प्रकृ तयो द्विस्थानिक त्रिस्थानिक - चतुःस्थानिकरसयुक्ता भवन्ति, न त्वकस्थानिकरसयुक्ता इति भावः / अयमत्राऽऽशयःससदशप्रकृति- 1 ष्वेवैकस्थानिको रसो बध्यते, न तु शेषासु, यतोऽशुभप्रकृतीनामेकस्थानिको रसो यदि लभ्यते तदाऽनिवृत्तिबादरसंख्येयभागेभ्यः परत एव / तत्र च सप्तदश प्रकृतीवर्जयित्वा शेषाणामशुभप्रकृतीनां बन्ध एव नास्त्यतः शेषाणामशुभानामेकस्थानिको रसो न भवति। येऽपि केवलज्ञानकेवलदर्शनावरणलक्षणे द्वे अपि प्रकृती तत्र बध्येते तयोरपि सर्वघातित्वाद् द्विस्थानिकएवरसो निर्वय॑ते, नैकस्थानिक इति।शुभानां तु सर्वासामप्येकस्थानिको रसो न भवति, यत इहाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि संक्लेशस्थाननि भवन्ति / विशुद्धिस्थानान्यप्येतावन्त्येव, यथा यान्येव संक्लेशस्थानान्यारोहति, तेष्वेव विशुद्ध्यमानोऽवतरति, ततश्च यथा प्रासादमारोहतां यावन्ति सोपानस्थानान्यवतरतामपि तावन्त्येव तथाऽत्रापीति भावः। केवलं विशुद्धिस्थानानि विशेषाधिकानि। कथमिति चेदुच्यते-क्षपको येष्वध्यवसायस्थानकेषु क्षपकश्रेणिकामारोहति, न तेषु पुनरपि निर्वर्त्तते, तस्य संक्लेशाभावात्, अतस्तानि विशुद्धिस्थानान्येव भवन्ति, न संक्लेशस्थानानीति, तैरध्यवसायस्थानैर्विशुद्धिस्थानान्यधिकानि। एवं च स्थिते-ऽत्यन्तविशुद्धौ वर्तमानःशुभप्रकृतीनां चतुःस्थानिक रसमभिनिवर्तयति / अत्यन्तसंक्लेशेऽनुवर्त्तमानस्य शुभप्रकृतयो बन्ध एव नागच्छन्ति / या अपि वैक्रियतैजसकार्मणाद्याः शुभा नरक-प्रायोग्याः संक्लिष्टोऽपि बध्नाति, तासामपि स्वभावात् सर्वसंक्लिष्टोऽपि द्विस्थानिकमेव रसं विदधाति / येषु तु मध्यमाध्यवसायस्थानेषु शुभप्रकृतयो बध्यन्ते तेषु तासां द्विस्था-निकपर्यन्त एव रसो बध्यते नै कस्थानिकः, मध्यमपरिणाम-त्वादेवेति न क्वापि शुभप्रकृतीनामेकस्थानिकरससंभव इति कृता चतुर्विधस्यापि रसस्य प्रत्ययरूपणा // 64|| सम्प्रति शुभा-ऽशुभरसस्यैव विशेषतः किञ्चित् स्वरूपमाहनिंबुच्छरसो सहजो, दुतिचउभागकड्डिइक्कभागंतो। इगठाणाई असुहो, असुहाणं सुहो सुहाणं तु // 65 / / इहैवमक्षरघटना-अशुभानामशुभप्रकृतीनां रसोऽशुभः, अशुभाध्यवसायनिष्पन्नत्वात् / क इवेत्याह-निम्बवत् पिचुमन्दवत्। वत्शब्दस्य लुप्तस्येह प्रयोगो द्रष्टव्यः। तथा शुभानां शुभप्रकृ-तीनां रसाः शुभाः, शुभाध्यवसायनिष्पन्नत्वात्। क इवेत्याह-इक्षुवत् इक्षुयष्टिवत्। तथा डमरुकमणिन्यायात निम्बेक्षुरसशब्द एवमप्यावय॑ते, यथा निम्बरस एव इक्षुरस एव सहजः स्वभावस्थ एकस्थानिकरस उच्यते, स एवैकस्थानिकरसो द्वित्रिचतुर्भागाश्च ते पृथग्विभिन्ने ष्वाश्रयेषु क्वथितैकभागान्तो द्विस्थानिकादिर्भवति / कोऽर्थः?-द्वौ च त्रयश्च चत्वारश्च द्वित्रिचत्वारस्ते च ते भागाश्च द्वित्रिचतुर्भागाः, द्वित्रिचतुर्भागाश्च ते पृथग्विभिन्नेष्वाश्रयेषु क्वथिताश्च द्वित्रिचतुर्भागक्वथितास्तेषामेक एकसंख्यो भागोऽन्तेऽवसाने यस्य सहजरसस्य स द्वित्रिचतुर्भागक्वथितैकभागान्तः / स किमित्याह-एकस्थानिकादिः / आदिशब्दाद् द्विकस्थानिकत्रिस्थानिक-चतुःस्थानिकरसपरिग्रहः / इत्यक्षरार्थः। भावार्थस्त्वयम्-इह यथा निम्बघोषातकीप्रभृतीनां कटुकद्रव्याणां सहजोऽक्वथितः कटुको रस एकस्थानिक उच्यते, स एव भागद्वयप्रमाणः स्थाल्यां क्वथितोऽविर्तितः कटुकतरो द्विस्थानिकः, स एव भागत्रयप्रमाणः स्थाल्यां क्वथितस्विभागान्तः कटुकतमस्तिस्थानिकः, स एव भागचतुष्टयप्रमाणो विभिन्नस्थाने क्वथितश्चतुर्थभागान्तोऽतिकटुकतमश्चतुःस्थानिकः / तथा इक्षुक्षीरादीनां सहजो मधुररस एकस्थानिक उच्यते, स एव सहजो भाग
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy