________________ अणुभव 393 - अभिधानराजेन्द्रः - भाग 1 अणुभाग कालेनैतावता प्राज्ञैः, कृतः स्यात्तेषु निश्चयः // 4 // केषां न कल्पनादी, शास्त्रक्षीराऽन्नगाहिनी। . विरलास्तद्रसास्वादविदोऽनुभवजिया॥५॥ पश्यन्तु ब्रह्म निर्द्वन्द्वं, निर्द्वन्द्वाऽनुभवं विना। कथं लिपिमयी दृष्टिाङ्मयी वा मनोमयी / / 6 / / नसुषुप्तिरमोहत्वात्, नाऽपि च स्वापजागरौ। कल्पनाशिल्पविश्रान्तेस्तुर्यो वाऽनुभवो दृशा / / 7 / / अधिगत्याऽखिलं शब्दब्रह्म शास्त्रदृशा मुनिः। स्वसंवेद्यं परं ब्रह्माऽनुभवेनाऽधिगच्छति // 8 // अष्ट०२६ अष्ट स्वेन स्वेन रूपेण प्रकृतीनां विपाकतो वेदने, विशे०। अणुभवण-न०(अनुभवन) कर्मविपाकवेदनेऽनुभाये, आव० 4 अग अणुभविउं-अव्य०(अणुभवितुम्) भोक्तमित्यर्थे, "वेयणा अणुभविउं जे संसारम्मि अणतए"। उत्त०१८ अ० अणुभवित्ता-अव्य०(अनुभूय) अनुभवं कृत्वेत्यर्थे, प्रश्न 1 आश्र० द्वारा अणुभाग(व)-पुं०(अनुभाग)(व) वैक्रियकरणादिकायाम-चिन्त्यशक्ती, स्था०२ ठा०३ उ०। ज्ञा० आव०। चं०प्र०। माहात्म्ये, सूत्र०१ श्रु०५ अ०१ उ० वर्णगन्धादिगुणे, विशे० शापाद्यनुग्रहविषये सामर्थ्य, प्रज्ञा०२ पद / अनु पश्चाद् बन्धोत्तरकालं भजनं सेवनमनुभजनम्, अनुभागः। कर्म०६ कर्म०। कर्मणां विपाके, सूत्र०१ श्रु०५ अ०१ उ० उदये, रसे च ।स्था०७ ठा०ा दर्शा तीव्रादिभेदे रसे, स०।"अनुभागो रसः प्रोक्तः, प्रदेशो दलसंचयः" कर्म०५ कर्म०। अनुभागः, रसः, अनुभाव इति पर्यायाः। अनुभागस्य किञ्चित् तावत् स्वरूपमुच्यतेइह गम्भीरापारसंसारसरित्पतिमध्यविपरिवर्ती, रागादिसचिवो जन्तुः पृथक् सिद्धानामनन्तभागवर्तिभिरभव्येभ्योऽनन्तगुण : परमाणुभिर्निष्पन्नान् कर्मस्कन्धान प्रतिसमयं गृह्णाति / तत्र च प्रतिपरमाणुकषायविशेषान् सर्वजीवानन्तगुणान् अनुभागस्याविभागपलि(रि)च्छेदान् करोति / केवलिप्रज्ञया विद्यमानो यः परमनिकृष्टोऽनुभागांशोऽतिसूक्ष्मतयाऽर्द्ध न ददाति सोऽविभाग-पलिच्छेद उच्यते / उक्तं च-"वुड्डीइ छिज्जमाणो, अणुभागं सो न देइ जो अद्धं / अविभागपलिच्छेओ, सो इह अणुभागबंधम्मि' / तत्र चैवैककर्मस्कधे यः सर्वजघन्यरसः परमाणुः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति, अन्यस्तु परमाणुः तानविभागपलिच्छेदानेकाधिकान् प्रयच्छति, अपरस्तु तानपि द्वयधिकान, अन्यस्तु तानपि चतुरधिक-मित्यादिवृद्ध्या तावन्नेयं यावदन्य उत्कृष्टरसः पर-माणुर्मालराशेरनन्तगुणानपि रसभागान् प्रयच्छति। अत्रच जघन्यरसाये केचन परमाणवस्तेषु सर्वजीवाऽनन्तगुणरसभाग-युक्तेष्वप्यसत्कल्पनया शतरसांशानां परिकल्प्यते। एतेषां च समुदायः समानजातीयत्वादेका वर्गणेत्यभिधीयते / अन्येषां त्वेकोत्तरशतरसभागयुक्तानामणूनां समुदायो द्वितीया वर्गणा / अपरेषां तु व्युत्तरशतरसांशयुक्तानामणूनां समुदायस्तृतीया वर्गणा / अन्येषां तु ऋयुत्तरशतरसभागयुक्तानामणूनां समुदायश्चतुर्थी वर्गणा / एवमनया दिशा | एकै करसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणावाच्याः। एतासांचैतावतीनांवर्गणानां समुदायः स्पर्द्धकमित्यभिधीयते। स्पर्धन्त इवोत्तरोत्तररसवृद्ध्या परमाणुवर्गणाः / अत्रेति कृत्वा एताश्चा-ऽनन्तरोक्ताऽनन्तकप्रमाणाः। अथ असत्कल्पनया षट् स्थाप्यन्ते, यथा-१००, 101, 102, 103, 104, 105 इत्यादि... सिद्धाऽनन्तभागं यावत्। इदमेक स्पर्द्धकम् / इत ऊर्ध्वमेकोत्तरया निरन्तररस वृद्ध्या, वृद्धो रसो न लभ्यते, किं तर्हि? सर्वजीवाऽनन्तगुणैरेव रसभागै-वृद्धो लभ्यते / इति तेनैव क्रमेणाऽऽरभ्यते। ततस्तेनैव क्रमेण तृतीयमित्यादि यावदनन्तानि रसस्पर्द्धकानि उत्तिष्ठन्ते। तीव्रमन्दतया द्विविधोऽनुभागःअयं चाऽनुभागः शुभाऽशुभभेदेन द्विविधानामपि प्रकृतीनां तीव्रमन्दरूपतया द्विविधो भवति। अतोऽशुभशुभप्रकृतीनां येन प्रत्ययेनाऽसौ तीव्रो बध्यते, येन च मन्दः, तन्निरूपणार्थमाहतिव्वो असुहसुहाणं, संकेसविसोहिओ विवजयओ। मंदरसो गिरिमहिरय-जलरेहासरिकसाएहिं॥६३|| तत्र प्रथमं तावत्तीव्रमन्दस्वरूपमुच्यते, पश्चादक्षरार्थः / इह घोषातकीपिचुमन्दाद्यशुभवनस्पतीनां सम्बन्धी सहजोऽविर्ता द्विभागावतॊ भागत्रयावर्त्तश्च यथाक्रम कटुकः कटुकतरः कटुकतमोऽतिशयकटुकतमश्च, तथेक्षुक्षीरादिद्रव्याणां सम्बन्धी सहजोऽर्द्धावा विभागावतो भागत्रयावर्त्तश्च यथासंख्यं मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च रसो जलाद्यसम्बन्धाद् यथा तीव्रो भवति तथैतेषामेव पिचुमन्दादीनां क्षीरादीनां च द्रव्याणां सम्बन्धी सहजो रसो जललवबिन्द्वर्द्धचुलुकचुलुकप्रसृत्यञ्जलिकरक-कुम्भद्रोणादिसम्बन्धाद् यथा बहुभेदं मन्दतरादित्वं प्रतिपद्यते तथा अविर्तादयोऽपि रसाः / यथा जललवादिसम्बन्धात् मन्दमन्द-तरमन्दतमादित्वं प्रतिपद्यन्ते, तथैवाऽशुभप्रकृतीनां शुभप्रकृतीनां च रसास्तादृशतादृशकषायवशात्तीव्रत्वं मन्दत्वं चाऽनुविदधतीति। अक्षरार्थोऽधुना विव्रियते-तीव्रोरसोभवति। कासामित्याह-(असुहसुहाणं ति) अशुभाश्च शुभाश्चाऽशुभशुभाः, तासा-मशुभशुभानाम्, अशुभप्रकृतीना शुभप्रकृतीनांचेत्यर्थः। कथ-मित्याह ?-(संकेसविसोहिओति) संक्लेशश्च विशुद्धिश्च संक्लेशविशुद्धी, ताभ्यां संक्लेशविशुद्धितः, आद्यादेराकृतिगणत्वात्तस्प्रत्ययः। यथासंख्यमशुभप्रकृतीनांसंक्लेशेनशुभप्रकृतीना विशुद्धयेत्यर्थः / इदमत्रहृदयम्-अशुभप्रकृतीनांद्व्यशीतिसंख्यानांसंक्लेशेन तीव्रकषायोदयेन तीव्र उत्कटो रसो भवति / सर्वाशुभप्रकृतीनां तद्वन्धविधायिनांजन्तूनां मध्येयोय उत्कृष्टसंक्लेशोजन्तुः, स स तीव्ररसं बध्नातीत्यर्थः / शुभप्रकृतीनां विशुद्धया कषायविशुद्ध्या नतीव्रोऽनुभागो भवति / शुभप्रकृति-बन्धकानां मध्ये यो यो विशुद्ध्यमानपरिणामः, स स तासां तीव्र-मनुभागं बध्नातीत्यर्थः। उक्तस्तीव्ररसस्य बन्धप्रत्ययः। संप्रति सएवमन्दरसस्याऽभिधीयते-(क्विजयओ।मंदरसोत्ति) विपर्ययेणं विपर्ययत उक्तवपरीत्येनमन्दोऽनुत्कटोरसो भवति।अयमर्थः- सर्वप्रकृतीनामशुभाना विशुद्ध्या मन्दो रसो जायते, शुभानां तु मन्दः संक्लेशेनेति / उक्तः संक्लेशविशुद्धिवशा-दशुभशुभप्रकृतीनां तीव्रो मन्दश्वाऽनुभागः। (एकस्थानिका-दिकश्चतुर्विधोऽनुभावः) अयं चैकद्वित्रिचतुःस्थानिकभेदात्