________________ अणुभाग 395 - अभिधानराजेन्द्रः - भाग 1 अणुभाग द्वयप्रमाणः पृथग्भाजने क्वथितोऽद्धावर्तितो मधुरतरो द्विस्था-निकः, स एव भागत्रयप्रमाणः पृथक्स्थाल्यां क्वथितस्त्रिभागान्तो मधुरतमस्तिस्थानिकः, स एव भागचतुष्कप्रमाणो विभिन्नस्थाने क्वथितश्चतुर्थभागान्तोऽतिमधुरतमश्चतुःस्थानिकः / एवमशुभानां प्रकृतीनां तादृशतादृशकषायनिष्पाद्यः कटुकः कटु कतरः कटु कतमोऽतिकटु कतमश्च / शुभप्रकृतीनां मधुरो मधुरतरो मधुरतमोऽतिमधुरतमश्च रसो यथासंख्यमेकद्वित्रि चतुःस्थानिको भवति / एवं च रसोऽशुभप्रकृतीनामशुभः, शुभप्रकृतीनां शुभ इति / तुशब्दो विशेषणे। स चैवं विशिनष्टि-यथा सप्तदशाऽशुभप्रकृतीनामेक'स्थानिक रसस्पर्द्धकान्यसंख्ये यव्यक्ति व्यक्तत्वादसंख्ये यानि भवन्ति।तत्रच सर्वजधन्यस्पर्द्धकरसस्येयं निम्बाधुपमा।तदनुचाऽनन्तेषु रसपलिच्छे देष्वतिक्रान्तेषु तदुत्तरं द्वितीयस्पर्द्धकं भवति / एवमुत्तरोत्तरक्रमेण प्रवृद्धवृद्धतररसोपेतानि शेषस्पर्द्धकान्यपि भवन्ति / एवं शेषाः शुभप्रकृतीनामपि द्वित्रिचतुः स्थानिकरसस्पर्द्धकान्यसंख्येयव्यक्तिव्यक्तानि प्रत्येकमसंख्येयानि भवन्ति / तान्यपि यथोत्तरमनन्तरसपलिच्छेदनिष्पन्नत्वात् परस्परमनन्तगुणरसानि / अत उत्तरोत्तरस्पर्द्धकान्यप्यनन्तगुणरसानि, कि पुनरशुभानां द्वित्रिचतुःस्थानिका रसा इति / तथाहि- अशुभानां निम्बोपमवीयर्यो य एकस्थानिको रसस्तस्मादनन्तगुणवीर्यो द्विस्थानिकस्ततोऽप्यनन्तगुणवीर्यस्त्रिस्थानिकस्तस्मादप्यनन्तगुणवीर्यश्चतुःस्थानिक इति परस्परं सुप्रतीतमेवानन्तगुणरसत्वमिति / शुभप्रकृतीनां पुनरेकस्थानिको रस एव नास्ति / यश्च शुभानामिथुपमो रसोऽभिहितः, स द्विस्थानिकरसस्य सर्वजघन्यस्पर्द्धक एव दृश्यः। तदुत्तरस्पर्द्धकेषु चाऽनन्तगुणा रसा भवन्ति। एतत्सर्वं पञ्चसंग्रहाभिप्रायतो व्याख्यातम्। किञ्च-केवलज्ञानावरणादिरूपाणां सर्वधातिनीनां विंशति-संख्यानां प्रकृतीनां सर्वाण्यपि रसस्पर्द्धकानि सर्वधातीन्येव / देशघातिनीनां पुनर्मतिज्ञानावरणप्रभृतिपञ्चविंशतिप्रकृतीनां रसस्पर्द्धकानि कानिचित्सर्वघातीनि कानिचिद्देशघातीनि / तत्र यानि चतुःस्थानिकरसानि त्रिस्थानिकरसानि वा रसस्पर्द्धकानि, तानि नियमतः सर्वघातीनि, द्विस्थानिकरसानि पुनः कानिचिद्देशघातीनि कानिचित्सर्वघातीनि, एकस्थानिकानि तु सर्वाण्यपि देशघातीन्येव / उक्तं च-रसस्र्पकानि सकलमपि स्वधात्यं ज्ञानादिगुणं घ्नन्ति / तानि च स्वरूपेण तामूभाजनवनिश्छिद्राणि घृतमिवातिशयेन स्निग्धानि, द्राक्षावत् तनुप्रदेशोपचितानि, स्फटिकाऽभ्रगृहवचाऽतीध निर्मलानि। उक्तं च- जो घाएइ नियगुणं, सयलं सो होइ सव्वघाइरसो। सो निच्छिद्दो निद्धो, तणुओ फलिहब्भहरविमलो / / 1 / / यानि च देशघातीनि रसस्पर्द्धकानि, तानिस्वधात्यं ज्ञानादिगुणं देशतोघ्नन्ति, तदुदयेऽवश्यं क्षायोपशम-संभवात् / तानि च स्वरूपेणानेकविधविवरसंकुलानि / तथाहि- कानिचित्कट इवातिस्थूरछिद्रशतसंकुलानि, कानिचित्कम्बल इव मध्यमविवरशतसंकुलानि, कानिचित्पुनरतिसूक्ष्मविवरनिकर-संकुलानि,यथा वासांसि / तथा तानि देशघातीनि रसस्पर्द्धकानि स्तोकस्नेहानि भवन्ति, वैमल्यरहितानि च / उक्तं च-"देस-विघाइत्तणओ, इयरो कडकंबलंसुसंकासो। विविहबहुछिडभरिओ, अप्पसिणेहो अ विमलो य" ||1|| इति प्ररूपितः सप्रपञ्चमनुभागबन्ध इति / कर्म०५ कर्म०। (अघातिरसस्वरूपमत्रैव भागे 180 पृष्ठे 'अघाइरस' शब्देऽभिहितम्) इदानीं तु अनुभागः कस्य कर्मणः कतिविधः? इत्यभि धित्सुराह-तत्राऽऽदौ ज्ञानावरणीयस्यनाणावरणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्धफासपुट्ठस्स संचियस्स चियस्स उवचियस्स आवागपत्तस्स विवागपत्तस्स फलपत्तस्स उदयपत्तस्स जीवेणं कयस्स जीवेणं निव्वत्तियस्स जीवेणं परिणामियस्स सयं वा उदिन्नस्स परेण वा उदीरियस्स तदुभएण वा उदीरिजमाणस्स गतिं पप्प ठिइं पप्प भवं पप्प पोग्गलपरिणामं पप्प कतिविहे अणुभावे पण्णते? गोयमा ! नाणावरणिज्जस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणाम पप्प दसविहे अणुभावे पण्णत्ते / तं जहासोतावरणे सोयविनाणावरणे, नेत्तावरणे नेत्तविन्नाणावरणे, घाणावरणे घाणविन्नाणावरणे, रसावरणे रसविन्नणावरणे, फासावरणे फासविन्नाणावरणे, जं वेदेति पोग्गलं वा पोम्गले वा, पोग्गलपरिणाम वा वीससा पोग्गलाणं परिणाम, तेसिं वा उदएणं जाणियव्यं न जाणइ,जाणिउकामे न जाणइ, जाणित्ता वि न जाणइ, उच्छन्ननाणी यावि भवति नाणावरणिज्जस्स कम्मस्स उदएणं / एसणं गोयमा ! नाणावरणिज्जे कम्मे, एसणं गोयमा ! नाणावरणिज्जस्स कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविहे अणुभावे पण्णत्ते। ज्ञानावरणीयस्य / णमिति वाक्यालङ्कारे / भदन्त ! जीवन बद्धस्य रागद्वेषपरिणामवशतः कर्मरूपतया परिणमितस्य स्पष्टस्या-ऽऽत्मप्रदेशः सह संक्लेशमुपगतस्य (बद्धफासपुट्ठस्से ति) पुनरपि गाढतरं बद्धस्याऽतीव स्पर्शन स्पृष्टस्य च / किमुक्तं भवति? आवेष्टनपरिवेष्टनरूपतयाऽतीव सोपचयगाढतरं च बद्धस्येति संचितस्य आबाधाकालातिक्रमेणोत्तरकालवेदनयोग्यतया निषिक्तस्य चितस्य उत्तरोत्तरस्थितिषु प्रदेशहान्या रसवृद्ध्या-ऽवस्थापितस्य उपचितस्य सभानजातीयप्रकृत्यन्तरदलिक-कर्मणोपचयं नीतस्य आपाकप्राप्तस्य ईषत्पाकाभिमुखीभूतस्य विपाकप्राप्तस्य विशिष्टपाकमुपगतस्य,अत एव फलप्राप्तस्य फलं दातुमभिमुखीभूतस्य / ततः सामग्रीवशादुदयप्राप्तत्वादयः कर्मधर्माः, यथा आमूफलस्य। तथाहि- आम्फलं प्रथमत ईषत्पाकाभिमुखं भवति, ततो विशिष्ट पाकमुपागतं, तदनन्तरं तृप्तिप्रमोदादि फलं दातुमुचितम् , ततः सामग्रीवशादुपयोगप्राप्तं भवति / एवं कर्माऽपीति। ततः पुनर्जी वेन कथं बद्धमित्यत-आह-(जीवेण कयरस) जीवेन कर्मबन्धनबद्धेनेति गम्यते / कृतस्य निष्पादितस्य जीवो छुपयोगस्वभावस्ततोऽसौ रागादिपरिणतो भवति, न शेषः। रागादिपरिणतश्च सन् कर्म करोति / सा च रागादिपरिणतिः कर्मबन्धनबद्धस्य भवति, न तद्वियोगे, अन्यथा मुक्तानामध्यवीतरागत्वप्रसक्तेः। ततः कर्मबन्धनबद्धन सता जीवेन कृतस्येति द्रष्टव्यम् / उक्तं च - जीवस्तु कमबन्धनबद्धो वीरस्य भगवतः कर्ता / संतत्याऽनाद्य च,तदिष्टकर्माऽऽत्मनः कर्तुः // 1 // तथा जीवेन निर्वर्तितस्य, इह बन्धसमये जीवः प्रथमतो विशिष्टान् कर्मवर्गणाऽन्तः पातिनः