________________ अणुप्पिय 389 - अभिधानराजेन्द्रः - भाग 1 अणुप्पेहा अणु प्पिय-त्रि०(अनुप्रिय) प्रियानुकूले , "अन्नस्स पाणस्सिहलोइयस्स, अणुप्पियं भासति सेवमाणे' अनुप्रियं भाषते यद् यस्य प्रियं तत्तस्य वदनोऽनु पश्चाद् भाषते अनुभाषते। सूत्र०१ श्रु०७ अ०! अणुप्पेहा-स्त्री०(अनुप्रेक्षा) अनुपेक्षणमनुप्रेक्षा। चिन्तनिकायाम, स्था० 5 ठा०३ उ०। अर्थचिन्तने, ध०३ अधिo ग्रन्थार्थानुचिन्तने, ग०२ अधि०। सूत्रानुचिन्तनिकायाम्' / उत्त० 2 अ० दश०। अनुप्रेक्षा स्वाध्यायविशेषः / स तु मनसस्तत्रैव नियोजनाद् भवति / उत्त० 26 अ० प्रव०। अवधाने, प्रति०। तविधिरसौ-"जिणवरपवयणपायडणयउण गुरुवयणओ सुणियपुव्वे / एगग्गमणो धणियं, चित्ते चिंतेइ सुयवियारे" ||1|| ध०२०। एतस्याः फलम् - अणुप्पेहाएणं भंते ! जीवे किं जणयइ ? अणुप्पेहाएणं आउयवजाओ सत्त कम्मप्पयडीओ धणियबंधणबद्धाओ सिढिलंबंधणबद्धाओ पकरेइ, दीहकालट्ठिइयाओ हस्सकालट्ठिइयाओ पकरेइ, तिव्वाणुभावाओ मंदाणुभावाओ पकरेइ, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउयं च णं कम्मं सिय बंधइ, सिय नो बंधइ, असायावेयणिज्जं च णं कम्म नो मुजो भुजो उवचिणाइ, अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंत-संसारकंतारं खिप्पामेव वीईवयइ। हे भदन्त ! स्वामिन् ! अनुप्रेक्षया सूत्रार्थचिन्तनिकया, जीवः किं जनयति ? गुरुराह - हे शिष्य ! अनुप्रेक्षया कृत्वा जीवः सप्त कर्मप्रकृतीझानावरणदर्शनावरणवेदनीयमोहनीयनामगोत्रान्तरायरूपाणां सप्तानां कर्मणां प्रकृतयः एकशतचतुःपञ्चाशत्प्रमाणाः सप्तकर्मप्रकृतयस्ताः सप्तकर्मप्रकृतीर्धणियबन्धनबद्धाः गाढबन्धनबद्धाः, निकाचितबद्धाः, शिथिलबन्धनबद्धाः प्रकरोति / यतो हि अनुप्रेक्षा स्वाध्यायविशेषः, स तु मनसस्तत्रैव नियोजनाद्भवति, स चानुप्रेक्षा / स्वाध्यायो हि आभ्यन्तरं तपः, तपस्तु निकाचितकर्मापि शिथिलीकर्तुं समर्थं भवत्येवा कथंभूताः सप्त कर्मप्रकृतीः ? आयुर्वर्जाः, प्रकृष्टभावहेतुत्वेन आयुर्वर्जयन्ती-त्यायुर्वर्जाः। पुनर्हे शिष्य! अनुप्रेक्षया कृत्वा, जीवस्ता एव कर्मप्रकृतीर्दीर्घकालस्थितिकाः शुभाध्यवसाययोगात् स्थिति-खण्डांनामपहारेण ह्रस्वकालस्थितिकाः प्रकरोति / प्रचुरकाल-भोग्यानि कर्माणि स्वल्पकालभोग्यानि करोतीत्यर्थः / पुनस्तीवानुभावाः कर्मप्रकृतीर्मन्दानुभावाःप्रकरोति, तीव्रः उत्कटोऽनुभावो रसो यासां तास्तीव्रानुभावाः ईदृशीः कर्मप्रकृतीर्मन्दो निर्बलोऽनुभावो यासां ता मन्दानुभावाः प्रकरोति, तादृशीः प्रकर्षण विदधाति, पुनर्बहुप्रदेशाग्रा अल्पप्रदेशाग्राः प्रकरोति / बहुप्रदेशाग्रं कर्मपुद्गलिकप्रमाणं यासां ताः बहुप्रदेशाग्राः, एतादृशीः कर्मप्रकृतीरल्पप्रदेशाग्राः प्रकरोति / इत्यनेन अनुप्रेक्षयाऽशुभश्चतुर्विधोऽपि बन्धः प्रकृतिबन्धः स्थितिबन्धोऽनुभागबन्धः प्रदेशबन्धः, शुभत्वेन परिणमतीत्यर्थः। अत्र च आयुर्वर्जमित्युक्तम्।तत्तुएकस्मिन् भवे सकृदेव अन्तर्मुहूर्त-काले एव आयुर्जीवो बध्नाति / च पुनः आयुःकर्माऽपि स्याद् बध्नाति, स्यात् न बध्नाति, संसारमध्ये तिष्ठति चेत्तर्हि अशुभमायुर्न बध्नाति / जीवेन तृतीयभागादिशेषायुष्केन आयुःकर्म बध्यते, अन्यथा न बध्यते। तेन आयुः कर्मबन्धे निश्चयो नोक्तः, इत्यनेन मुक्तिं व्रजति तदा आयुर्न | बध्नातीत्युक्तम्। पुनरनुप्रेक्षया कृत्वा जीवोऽसातावेदनीय कर्म शारीरादिदुःखहेतु चकर्म / चशब्दादन्याश्चाऽशुभप्रकृती! भूयो भूय उपचिनोति / अत्र भूयो भूयोग्रहणेन एवं ज्ञेयम्-कश्चिद् यतिः प्रमादस्थानके प्रमादं भजेत् तदा बध्नात्यपि इति हार्दम् / पुनरनुप्रेक्षया कृत्वा जीवश्वातुरन्तसंसारकान्तारं क्षिप्रमेव (वीईवयइ इति) व्यतिव्रजति / चत्वारश्वतुर्गतिलक्षणा अन्ता अवयवा यस्य तत् चातुरन्तं, तदेव संसारकान्तारं संसारारण्यं, तत् शीघ्रमुल्ल यति / कीदृशं संसारारण्यम् ? अनादिकम् - आदेरभावाद् आदिरहितम्। पुनः कीदृशं संसारकान्तारम् ? अनवदग्रमनागच्छत् अग्रं परिमाणं यस्य तद् अनवदग्रम्, अनन्तमित्यर्थः / प्रवाहापेक्षया अनाद्यनन्तम् / पुनः कीदृशम् ? दीर्घाध्वं दीर्घकालं, 'दीहमद्धम्' इत्यत्र मकारोलाक्षणिकः, प्राकृतत्वात् / / उत्तु० 26 अ०। तत्रानुप्रेक्षा चिन्तनिका, तथा प्रकृष्टशुभभावोत्पत्तिनिबन्धनतया आयुष्कवर्जाः सप्त कर्मप्रकृतीः, (घणियं ति) बाढं बन्धनं श्लेषणं, तेन बद्धाः, निकाचिता इत्यर्थः / शिथिलबन्धनबद्धाः किञ्चिन्मुक्ताः। कोऽर्थः ? अपवर्तनादिकरणयोग्याः प्रकरोति, तपोरूपत्वादस्याः / तपसश्च निकाचितकर्मक्षपणेऽपि क्षमत्वात् / उक्तं हि - "तवसा उनिकाइयाणवत्ति" दीर्घकालस्थितिका ह स्वकालस्थितिकाः प्रकरोति, शुभाध्यवसायवशात् / स्थितिखण्डकापहारेणेति भावः। एतच्चैवं, सर्वकर्मणामपि स्थिते-रशुभत्वात्। यत उक्तम् - "सव्वासिं पि ठितीओ, सुभासुभाणं पिहोति असुभाओ। माणुसतेरिच्छदेवा उयं च मोत्तूण सेसाओ" ||1|| तीव्रानुभावाश्चतु:स्थानिकरसत्वेन, मन्दानुभावा-स्त्रिस्थानिकरसत्वाद्यापादनेन प्रकरोति / इह चाशुभप्रकृतय एव गृह्यन्ते / शुभभावस्य शुभासु तीव्रानुभावहेतु-त्वात्। उक्तं हि- "सुभपयडीण विसोहि तिव्यमसुभाण संकिलेसं ति" / अत्र हि - "विसोहिए त्ति' शुभभावेन तीव्रमित्यनुभाग बध्नातीति प्रक्रमः। क्वचिदिदमपि दृश्यते - 'बहुप्पएसगाओ पकरेति' ननु केनाभिप्रायेणायुष्कवर्जाः सप्तेत्यभिधानम्, शुभायुष्क एव संयतस्य संभवात्तस्यैव चानुपेक्षा तात्त्विकी ! न च शुभभावेन शुभप्रकृतीनां शिथिलतादिकरणं, संक्लेशहेतुकत्वात् तस्य / आह - शुभायुर्बन्धोऽप्यस्याः किं न फलमुक्तम्। उच्यते-आयुष्कं च कर्म स्याद् बध्नाति, स्यान्न बध्नाति / तस्य त्रिभागादिशेषा-युष्कतायामेव बन्धसंभवात् / उक्तं हि "सिय तिभागतिभागे'' इत्यादि / ततस्तस्य कादाचित्कत्वेन विवक्षितत्वात् / तद्वतश्च कस्यचिद् मुक्तिप्राप्तेः तद्वन्धानभिधानमिति भावः / अपरं चाशातवेदनीयं शरीरादिदुःखहेतुं कर्म। चशब्दादन्याश्चा-ऽशुभप्रकृती! नैव भूयोभूय उपचिनोति / भूयोभूयोग्रहणं त्वन्यतमप्रमादतः, प्रमत्तसंयतगुणस्थानवर्तितायां तद्वन्धस्याऽपि संभवात्। अन्ये त्वेवं पठन्ति - "सायावेयणिज्जं च णं कम्मं भुजो भुजो उवचिणोति'' इह च शुभप्रकृतिसमुचयार्थश्वशब्दः, शेषं स्पष्टम् / अनादिकदिरसंभवात् / चः समुच्चयार्थो योक्ष्यते / (अणवदग्ग त्ति) अनवगच्छदगं परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्वेन सोऽयमनवदग्रोऽनन्त इत्यर्थः, तम् / प्रवाहापेक्षं चैतत् / अत एव (दीहमद्धं ति) मकारो लाक्षणिकः / दीर्घाध्वं दीर्घ कालं, दीर्घा वाऽऽध्वा तत्परिभ्रमणहेतुकर्मरूपो मार्गो यस्मिंस्तत्तथा / चत्वारः चतुर्गतिलक्षणा अन्ता अवयवा यस्मिंस्तचतुरन्तम्, संसारकान्तारं क्षिप्रमेव (वीईवयइ त्ति) व्यतिव्रजति,