________________ अणुजाण 374 - अभियानराजेन्द्रः - भाग 1 अणुजाण प्रवेष्टव्यमनुयानमिति स्थितम्, कारणेषु च समुत्पन्नेषु प्रवेष्टव्यं, यदि न प्रविशति, तदा चत्वारो लघवः। कानि पुनस्तानीत्युच्यते'चेइयपूया राया-निमंतणं सन्नि वाइ धम्मकहा। संकिय पत्त पभावण, पवित्ति कजाइ उड्डाहो॥ अनुयानं गच्छता चैत्यपूजा स्थिरीकृता भवति, राजा वा कश्चिदनुयानमहोत्सवकारकः संप्रतिनरेन्द्रादिवत् तस्य निमन्त्रणं भवति, संज्ञी श्रावकः, स जिनप्रतिष्ठायाः प्रतिष्ठापनां चिकीर्षति, तथा वादी क्षपको, धर्मकथा च तत्र प्रभावनाऽर्थं गच्छति, शङ्कितयोश्च सूत्रार्थयोस्तत्र निर्णयं करोति, पात्रं वा तत्राऽव्यवच्छित्तिकारकं प्राप्नोति, प्रभावना वा राजप्रव्रजितादिभिस्तत्रगतैर्भवति, प्रवृत्तिश्चाऽऽचार्यादीनां कुशलवार्तारूपा तत्र प्राप्यते, कार्याणि च कुलादिविषयाणि साधयिष्यन्ते। उड्डाहश्च तत्र गतैर्निवारयिष्यते। इत्येतैः करणैर्गन्तव्यमिति द्वारगाथासमासार्थः / अथ विस्तरार्थे बिभणिषुश्चैत्यपूजाराजनिमन्त्रणद्वारे विवृणोतिसड्ढावुड्डी रण्णो, पूयाए थिरतणं पभावणयं। पडिघातो य अणत्थे, अत्था य करावई तित्थे॥ कोऽपि राजा रथयात्रामहोत्सवं कारयितुमनास्तन्निमन्त्रणे गच्छद्भिः तस्य राज्ञः श्रद्धावृद्धिः कृता भवति, चैत्यपूजायां स्थिरत्वं, प्रभावना च तीर्थस्य संपादिता भवति, ये च जैनप्रवचनप्रत्यनीकाः शासनावर्णवादमहिमोपघातादिकमनर्थं कुर्वन्ति, तस्य प्रतिघातः कृतो भवति, तीर्थे च आस्था स्वपरपक्षयोरादरबुद्धिरुत्पादिता भवतीति / अथ संज्ञिद्वारं चाहएमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्ठवणे / मा परवाई विग्धं, करिज वाई अओ विसई॥ संज्ञिनः श्रावकाः केचित् जिनानां प्रतिमासु प्रथमतः (पट्ठवण त्ति) प्रतिष्ठापनं कर्तुकामाः, तेषामप्येवमेव, राज्ञ इव श्रद्धावृद्ध्यादिकं कृतं भवति, तथा मा परवादी प्रस्तुतोत्सवस्य विघ्नं कार्षीदतो वादी प्रविशति। परवादिनिग्रहे च क्रियमाणे गुणानुपदर्शयतिनवधम्माण थिरत्तं, पभावणा सासणे य बहुमाणो। अभिगच्छंतिय विदुसा, अविग्धपूयाय सेयाए। नवधर्मिणामभिनवश्रावकाणां स्थिरत्वं स्थिरीकरणं, शासनस्य च प्रभावना भवति / यथा आह - "प्रतिपत्तिपारमेश्वरं प्रवचनं यत्रेदशा वादलब्धिसंपन्ना'' इति / बहुमानश्चान्येषामपि शासने भवति, तथा च वादिनमभिगच्छन्ति अभ्यायान्ति विद्वांसः सहृदयाः तद्वादिनः कौतुकाकृष्टचित्ताः, तेषां च सर्वविरत्यादिप्रतिपत्त्या महान्लाभो भवति, / परवादिना च निगृहीतेन अविघ्नं निष्प्रत्यूहं पूजा कृता सती स्वपक्षपरपक्षयोरिह पत्र च श्रेयसे भवति / अथ क्षपकद्वारमाहआयाति तवस्सी, ओभावना गया परपवाईण। जइ एरिसा वि महिम, उविंति कारिंति सड्डा य॥ तत्र तपस्विनः षष्ठाऽष्टमादिक्षपका आतापयन्ति, ततश्वाऽ पभावना लाघवं परप्रवादिनां परतीथिकानां भवति, तेषां मध्ये ईदृशानां तपस्विनामभावात् / श्राद्धाश्चिन्तयन्ति-यदि तावदीदृशा अपि | भगवन्तोऽस्माभिः क्रियमाणां महिमा चैत्यपूजां द्रष्टुमायान्ति, तत इत ऊर्ध्व विशेषत एतस्यां यत्नं विधास्याम इति प्रवर्द्धमानश्रद्धाका महिमा कुर्वन्ति कारयन्ति च। अथ काथिकद्वारमाहआयापरसमुत्तारो, तित्थविवड्डी य होइ कहयंते। अन्नान्नाभिगमणे य, पूयाथिरया य बहुमाणो // क्षीराश्रवादिलब्धसंपन्न आक्षेपणीविक्षेपणीसंवेगजननी निवेदनीभेदाचतुर्विधां धर्मकथां कथयन्धर्मकथेत्युच्यते। तस्मिन् धर्म कथयति आत्मनः परस्य च संसारसागरात् समुत्तारो निस्तरणं भवति, तीर्थविवृद्धिश्च भवति, प्रभूते लोकस्य प्रव्रज्याप्रतिपत्तेः / तथा देशनाद्वारेण पूजाफलमुपवण्यान्यान्याभिगमने अन्या-न्यश्रावकबोधने च पूजायां स्थिरता, बहुमानश्च कृतो भवति। अथ शङ्कितपात्रद्वारे व्याख्यातिनिस्संकियं च काहिइ, उभए जं संकियं सुयहरे वि। अह वोच्छित्तिकरं वा, लभित्ति पत्तं दुपक्खाओ॥ उभये सूत्रे अर्थे च, यत्तस्य शङ्कितं, तत्तत्र श्रुतधरेभ्यः पार्थात् निःशङ्कितं करिष्यति / अथ व्यवच्छित्तिकरं वा पात्रं द्विपक्षात् लप्स्यते / द्वौ पक्षी समादृतौ द्विपक्षम्, गृहस्थपक्षः संयतपक्षश्चेत्यर्थः। अथ प्रभावनाद्वारमाहजाइकुलरूवधणबल-संपन्ना इद्धिमंत निक्खंता। जयणाजुत्तो य जई, समेच तित्थं पभाविंति।। जातिर्मातृकपक्षः, कुलं पैतृकपक्षः, रूपमाकृतिः, धनं गणिमधरिममेयपारिच्छेद्यभेदाचतुर्द्धा भवति। प्रभूतं गृहस्था-वस्थायामासीत्, बलं सहस्र यो धिप्रभृतीनामिव सातिशयं शारीरवीर्यम्, एतैर्जात्यादिभिर्गुणैः संपन्नाः, ये च ऋद्धिमन्तः निष्क्रान्ता राजप्रबजितादयो, ये च यतनायुक्ता यथोक्तसंयम-योगकलिता यतयः, ते समेत्य तत्राऽऽगत्य तीर्थं प्रभावयन्ति। अपिचजो जेण गुणेण हिओ, जेण विणा वा न सिज्झए जंतु। सो तेण तंम्मि कजे, सव्वत्थाणं न हावेइ॥ य आचार्यादिर्येन प्रावचनिकत्वादिना गुणेनाधिकः सातिशयः, येन वा विद्यासिद्धयादिना विना यत्प्रवचनं प्रत्यनीकशिक्ष-णादिकार्यं न सिद्ध्यति, स तेन गुणेन तस्मिन् कार्ये सर्वस्थानं सकलमपि वीर्य न हापयति, किंतु सर्वया शक्त्या तत्र गत्वा प्रवचनं प्रभावयतीति भावः / उक्तं च .. "प्रावचनी धर्मकथा, वादी नैमित्तिकस्तपस्वी च। जिनवचनज्ञश्च कविः, प्रवचन-मुद्भावयन्त्येते' / / 1 / / अथ प्रवृत्तिद्वारमाहसाहम्मिवायगाणं,खेमसिवाणंच लडिभइ पवित्तिं। गच्छिहिति जहिं तीइं, होहिंति न वा वि पुच्छति सो।। तत्राऽन्येषां साधर्मिकाणां चिरदेशान्तरगतानां वाचकानां वा आचार्याणां तत्र प्राप्तः प्रवृत्तिं लप्स्यते, तथा क्षेमं परचक्राधुपप्लवाभावः, शिवं व्यन्तरकृतोपद्रवाभावः, तयोरुपलक्षणत्वात् सुभिक्षदुर्भिक्षादीनां चाऽऽगामिसंवत्सरभाविनां प्रवृत्तिं तत्र नैमित्तिक साधूनां सकाशाल्लप्स्यते / यदि वा यत्र देशे स्वयं