________________ अणुजाण 375 - अभिधानराजेन्द्रः - भाग 1 अणुजाण गमिष्यति, तत्र तानि क्षेमादीनि भविष्यन्ति ? न वेति साधर्मिकादीन / पृच्छति।कार्योड्डाह द्वारद्वयमाहकुलमाई कजाई,साहिस्सं लिंगिणो य सासिस्सं। जे लोगविरुद्धाइं, करिति लोगुत्तराई च / / कुलादीनि कुलगणसंघसत्काणि, कार्याणि तत्र गतः शाध-यिष्यामि, लिङ्गिनश्च तत्र गतः शासिष्यामि, हितोपदेशदानादिना शिक्षयिष्यामि। ये लिङ्गिनो लोकविरुद्धानि लोकोत्तरविरुद्धानि च प्रवचनोड्डाहकराणि कार्याणि कुर्वन्तीति / आह- यद्येतानि कारणानि भवन्ति, ततः किं कर्तव्यमित्याहएएहि कारणेहिं, पुव्वं पडिलेहिऊण अइगमणं। अद्धाणनिग्गयादी, लग्गा सुद्धा जहा खवओ॥ एतैश्चैत्यपूजादिभिः कारणैरनुयानं प्रवेष्टव्यमिति निश्चित्य पूर्वं प्रत्युपेक्ष्य ततोऽतिगमनं कार्यम्। अथाऽध्वनिर्गतास्ते अध्वान-मतिलङ्ग्य सहसैव तत्र प्राप्ताः। आदिशब्दादपूर्वोत्स-वादिवक्ष्यमाणकारणपरिग्रहः / एवंविधैः कारणैः प्रत्युपेक्षितेऽपि क्षेत्रे गताः सन्तो यथोक्तां यतनां कुर्वाणा अपि यदि लग्ना अशुद्धभक्तादिग्रहणदोषमापन्नास्तथापि शुद्धाः, यथा क्षपकः पिण्डनियुक्तौ प्रतिपादितचरितः शुद्धं गवेषयन्नपि निगूढबाह्याकारया तथाविधश्राद्धिकया छलितः सन्नाधाकर्मण्यपि गृहीते शुद्धोऽशठपरिणामत्वादिति नियुक्तिगाथासमासार्थः / अथैतदेव भाव्यतेनाऊण य अइगमणं, गीए पेसिंति पेहिउं कजे। उवसय मिक्खाचरिया, बाहिं उभामरादीया।। सब्भाविक इयरे वि य, जाणंती मंडवाइणो गीया। सेहादीण य थेरा, वंदणजुत्तिं बहिं कहए। चैत्यपूजादिके कार्ये समुत्पन्ने अनुयानक्षेत्रं प्रत्युपेक्षितुं गीतार्थान प्रेषयति, ततो ज्ञात्वा सम्यग् क्षेत्रस्वरुपमतिगमनं कर्त्तव्यम्। किं पुनस्तत्र प्रत्यपेक्ष्यमित्याह- मौलग्रामे उपाश्रयो बहिर्बाह्यग्रामेषु च उद्भ्रामकाक्षा भिक्षाचर्या / आदिशब्दात्तस्यां गच्छतामपान्तराले विश्रामस्थानं, मौलग्रामे च भिक्षाविचारभूमिप्रभृतिकं प्रत्युपेक्ष्यम्, तथा सद्भाविका नितरांश्च मण्डपादीन गीतार्था जानन्ति / यथा अमी सद्भावतः स्वार्थ मण्डपाः कृताः, अमी तु संयतार्थं परं कैतवप्रयोगेणा स्मानित्थं प्रत्याययन्ति, आदिग्रहणात् पीठिकादिपरिग्रहः / इत्थं तैः प्रत्युपेक्षिते सूरयः सबाल-वृद्धगच्छसहिता अनुयानक्षेत्रं प्रविशन्ति / स्थविराश्व बहिरेव वर्तमानाः शैक्षादीनां वन्दनयुक्ति पार्थस्थादिवन्दनविधि कथयन्ति, मा भूदन्यथा तद्वन्दने तेषां विपरिणाम इति। अथ चैत्यवन्दनाविधिमाहनिस्सकडमनिस्सकडे, वि चेइए सव्वेहि थुई तिन्नि। वेलं व चेइयाणि य, नाउं इक्किक्किया वा वि।। निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृतेच तद् विपरीते, चैत्ये सर्वत्र तिस्रः स्तुतयो दीयन्ते। अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतितिव्येति। ____ अथ समवसरणविषयं विधिमाहनिस्स कडे चेइए गुरु, कइवयसहिए य इयरावसहिं। जत्थ पुण अनिस्सकडं, पूरिंति तहिं समोसरणं / / निश्राकृते चैत्ये गुरुराचार्यः कतिपयैः परिणतसाधुभिः सहितैश्चैत्यमहिमावलोकनाय तिष्ठति / इतरे शैक्षादयस्ते मा पार्श्वस्थादीन् भूयसा लोकेन पूज्यमानान् दृष्ट्वा तत्र गमनं कार्युरिति कृत्वा गुरुभिरनुज्ञाता वसतिं व्रजेयुः / यत्र पुनः क्षेत्रे अनिश्राकृतं चैत्यं तत्राऽऽचार्यः समवसरणं पूरयन्ति, सभामापूर्य धर्मकथा कुर्वन्तीत्यर्थः। आह-किं संविग्रैस्तत्र धर्मकथा, आहो श्विदसंविग्नैरपि? उच्यतेसंविग्गेहिँ य कहणा, इयरेहिं अपचओ न ओवसमो। पव्वजाभिमुहा विय, तेसु वए सेहमादीया।। संविगैरुद्यतविहारिभिः कथना धर्मस्य कर्तव्या / कुत इत्याह- इतरे असंविनास्तैर्धर्मकथायां क्रियमाणायां श्रोतृणामप्रत्ययो भवति, नैते यथा वादिनस्तथा कारिण इति / न च तेषामुपशमः सम्यग् - दर्शनादिप्रतिपत्तिर्भवति / अपि च / प्रव्रज्याभिमुखाः शैक्षादयो वा अद्याप्यपरिणतजिनवचनाः, तेऽपि तेषु व्रजेयुः, शोभनंखल्वेतेऽपिधर्म कथयन्तीति। आह-निश्राकृतचैत्ये यदि तदानीमसंविना न भवन्ति,ततः को विधिरित्याहपूरिति समोसरणं, अन्नासइनिस्सचेइएसुंपि। इहरा लोगविरुद्धं, सद्धाभंगो य सङ्घाणं / / अन्येषामसंविनानामसति निश्राकृतेष्वपि चैत्येषु समवसरणं पूरयन्ति, इतरथा लोकविरुद्धं लोकापवादो भवति- अहो ! अमी मत्सरिणो यदेवमन्यदीयं चैत्यमिति कृत्वा नाऽत्रोपविश्य धर्मकथां कुर्वन्ति, श्रद्धाभङ्गश्च श्राद्धानां भवति, तेषामन्यार्थमभ्यर्थ-यमानानामपि तत्र धर्मकथाया अकरणात्। अथ भिक्षाचर्यायां यतनामाहपुष्वपविट्ठहिँ समं, हिंडंती तत्थ ते पमाणं तु। साभाविकभिक्खाओ, विदंतऽपुव्वा य ठवियादी॥ पूर्वप्रविष्टानामपूर्व ये क्षेत्रप्रत्युपेक्षणार्थ प्रहितास्तैः समं भिक्षां हिण्डन्ते, तत्र च भिक्षामटतां त एव प्रमाणं गन्तुं, कैस्तत्र शुद्धा-ऽशुद्धगवेषणा कर्तव्या, ते च पूर्वप्रविष्टा इदं विदन्तियदेताः स्वाभाविकभिक्षाः स्वार्थनिष्पादिताः, एतास्तु अपूर्वाः संयतार्थ स्थापिता निक्षिप्तादयः / स्त्री संकुलनाटकशीतयोर्यतनामाहवंदे ण इंति तंति य, जुवमज्झे थेर इत्थिओ तेणं / चिट्ठति न नामएसुं, अह तंति न पेह रागादी। स्त्रीसंकुलवृन्दे नाऽऽयान्ति निर्गच्छन्ति च,येच युवानस्तेमध्ये क्रियन्ते, यतः स्त्रियस्तेन पार्थेन स्थविरा वृद्धा भवन्ति, मा भूवन् भुक्ताऽभुक्तसमुत्था दोषा इति / यत्र नाटकानि निरीक्ष्यन्ते, तत्र न तिष्ठन्ति / अथ कारणतस्तिष्ठन्ति, ततो (नपेह त्ति) नर्तक्या-दिरूपाणि न प्रेक्षन्ते, सहसा दृष्टिगोचरागतेषु रागादीन् न कुर्वन्ति, तेभ्यश्च प्राग दृष्टि निवर्तयन्ति / तन्तुजालादिषु विधिमाहसीलेह मंखफलए, इयरे चोयंति तंतुमादीसु। अभिजोजयंति तिसु य, अणिच्छि फेहंतऽदीसंता।। इतरे असं विगा देवकु लिका इत्यर्थः, तान्