________________ अणुजाण 373 - अभिधानराजेन्द्रः - भाग 1 अणुजाण समाप्तम्। पञ्चा०६ विव० (अथाऽनुयाने यथा साधवोऽकल्पंपरिहरन्ति, तथा 'एसणा' शब्दे तृतीयभागे 70 पृष्ठे दर्शयिष्यते) अथाऽनुयानविषयो विधिरुच्यतेआणाइणो य दोसा, विराहणा होइ संजमप्पाए। एवं ता वच्चंते, दोसा पत्ते अणेगविहा॥ निष्कारणेऽनुयानं गच्छत आज्ञादयश्च दोषाः, विराधना च संयमात्मनो भवति। एवं तावद्व्रजतो मार्गे दोषाः, तत्र प्राप्तानांपुनरनेकविधा दोषाः / तत्र संयमाऽऽत्मविराधनां भावयतिमहिमा उस्सुयभूए, इरियादी न य विसोहए तत्थ। अप्पा वा कायावा, न सुत्तं नेव पडिलेहणा।। महिमा नाम भगवतः प्रतिमायाः पुष्पारोपणादिपूजात्मकः सातिशय उत्सवः, तस्य दर्शनार्थमुत्सुकभूत ईर्यादिसमितिर्न विशोधयति / आदिशब्दादेषणादिपरिग्रहः / तत्र चेर्यादीनामशोधने आत्मा च कायाश्च विराध्यन्ते। आत्मविराधना कण्टकस्थाण्वाधुपघातेन, संयमविराधना षण्णां कायानामुपमर्दादिना, तथा त्वरमाणत्वादेव न सूत्रं गुणयति, उपलक्षणत्वादर्थ च नाऽनुप्रेक्षते, नैव प्रतिलेखनां वस्त्रपात्रादेः करोति, अथवा अकालेऽविधिना स करोति / एवमेव मार्गे गच्छतां दोषा अभिहिताः। अथ तत्र प्राप्तानां ये दोषास्तानभिधित्सुरिगाथामाहचेइय आहाकम्म, उग्गमदोसाय सेह इत्थीओ। नाडगसंफासणतंतुखुडु निद्धम्मकजा य / / चैत्यानां स्वरूपं प्रथमतो वक्तव्यं, तत आधाकर्म, तत उद्गमदोषाः, ततः शैक्षाणां पार्श्वस्थेषु गमनं, ततः स्त्रीदर्शनसमुत्था दोषाः, ततो नाटकावलोकनप्रभवः, ततः संस्पर्शनसमुत्थाः, तदनन्तरं तन्तवः कोलिकजालं तद्विषयाः, तदनु (खुड्ड त्ति) पार्श्वस्थादिक्षुल्लकदर्शनसमुत्थाः, ततो निर्धर्मणां लिङ्गि नां यानि कार्याणि तदुत्थिताश्च दोषा वक्तव्याः / इति द्वारगाथासमासार्थः / बृ०१ उ०। (चैत्यव्याख्या 'चेइय' शब्दे द्रष्टव्या) (वसतिविषयमाधाकर्म 'आधाकम्म' शब्दे द्वि० भागे 230 पृष्ठ द्रष्टव्यम्) अथोद्गमदोषशैक्षद्वारद्वयमाहठविए संछोभादी, दुसोहया होंति उम्गमे दोसा। वंदिजंते दढुं. इयरे सेहा तहिं गच्छे / बहवः संयताः समायाता इति कृत्वा धर्मश्रद्धावान् लोकः संयतार्थं स्थापितं भक्तपानादेः स्थापनांकुर्यात्। गृहमागता-नामक्षेपेणैव दास्याम इति कृत्वा (संछोभ त्ति) यानि गृहाणि साधुभिरनेषणीयदाने अशङ्कनीयानि, तेषु शाल्योदनतण्डुल-धावनादिकं भक्तपानं, मोदकशोकवर्तिप्रभृतीनि वा खाद्यक-विधानानि निक्षिपेयुः, साधूनामागतानां दातव्यानीति / आदिशब्दात् क्रीतकृतप्राभृतिकादिपरिग्रहः / एते उद्गमदोषाः, तत्र दुःशोध्या दुष्परिहार्या भवन्ति, तथा इतरान् पार्श्वस्थादीन् बहुजनेन वन्द्यमानान् पूज्यमानांश्च दृष्ट्वा शैक्षास्तत्र पार्श्वस्थादिषु गच्छेयुः। सीनाटकद्वारद्वयमाहइत्थी विउव्विया वि हु, भुत्ताणं दठ्ठ दोसाओ। एमेव नाडईया, सविब्भमा नचियगीयाए। ___ स्वीः विकुर्विता वस्त्रविलेपनादिभिरलकृताः दृष्ट्वा भुक्तानां दोषाः स्मृतिकौतुकप्रभवाः भवन्ति। एवमेव नाटकीयानाठ्ययोषितः, सविभ्रमाः सविलासाः, नर्त्तितगीतयोः प्रवृत्ता विलोक्य, श्रुत्वा च भुक्ताऽभुक्तसमुत्था दोषा विज्ञेयाः। संस्पर्शनद्वारमाहइत्थिपुरिसाण फासे, गुरुगा लहुगा सई य संघट्टे / अप्पासंजमदोसाऽणुभावणं पच्छकम्मादी। समवसरणेपुष्पारोपणादिकौतुकेन भूयांसः स्वीपुरुषाःसंमायान्ति, तेषां संमर्दैन स्पर्शा भवति, ततः स्त्रीणां स्पर्श चत्वारो गुरवः, पुरुषाणां स्पर्श चत्वारो लघवः, स्मृतिश्चसंघट्टे भुक्तभोगिनां भवति, चशब्दादभुक्तभोगिनां कौतुकम्।आत्मसंयमविराधना-दोषाश्च भवन्ति। आत्मविराधना संमर्दै सति हस्तपादाद्युपधातः / संयमविराधना संमर्दे पृथिव्यां प्रतिष्ठिता षट्काया नाऽवलोक्यन्ते, न च परिहत्तुं शक्यन्ते (अनुभावणपच्छकम्मादी त्ति) साधुना कोऽपि शौचवादी पुरुषः स्पृष्टः संस्नायात्, संस्नानं निरीक्ष्याऽपरः पृच्छति-किमर्थं स्नासीति ? स प्राह-संयतेन स्पृष्ट इति। एवं परम्परया साधूनां जुगुप्सोपजायते- यथा 'अहो ! मलिना एते' एवमनुभावना, पश्चात् कर्म च भवति / आदिशब्दादसंखडादयो दोषाः। अथ तन्तुद्वारमाहलूयाकोलिगजालग-कोत्थलकारीए उवरि गेहे य। सांडिंतमसांडिंते, लहुगा गुरुगा अभत्तीए॥ असंमाय॑माणे चैत्ये भगवत्प्रतिमाया उपरिष्टादेता नाम भवेयुः, लूता नाम कोलिकपुटकानि / कोलिकजालकानि तु जालकाकाराः कोलिकानां लालातन्तुसंतानाः, कोत्थलकारी भ्रमरी, तस्याः संबन्धि गृहोपरि भवेत्। यद्येतानि लूतादीनि शाटयति, तदा चत्वारो लघवः / अथ न शाटयति ततो भगवतां भक्तिः कृतान भवति, तस्यां चाऽभक्तयां चत्वारो गुरुकाः। अथ क्षुल्लकद्वारं, निर्धर्मकायद्वारं च व्याख्यानयतिघट्ठाइ इयरखुडे, दट्टुं ओगुंठिया तहिं गच्छे। उक्कुट्ठघरधणाई, ववहारा चेव ति लिंगीणं / / छिंदंतस्स अणुमई, अमिलंत अछिंद उक्खिवणा। छिद्दाणि य पेहंती, नेव य कज्जेसु साहिजं / / इतरे पार्श्वस्थास्तेषां ये क्षुल्लका घृष्टा, आदिग्रहणाद् ‘मट्ठामुप्पेट्ठा पंडुरपडवाउरण' इत्यादि, तानित्थंभूतान् दृष्ट्वा संविनक्षुल्लका अवगुण्ठितामलदिग्धदेहाः परिभग्नाः सन्तः, तत्र तेषां लिङ्गि-नामन्तिके गच्छेयुः, तेषां च तत्र मिलितानां परस्परमुत्कृष्ट-गृहधनादिविषया व्यवहारा विवादा उपढौकन्ते, ते च व्यवहार-च्छेदनाय तत्र संविग्नान् आकारयन्ति, ततो यदि तेषां व्यवहार-श्छिद्यते, तदा भवति स्फुटस्तेषां गृहधनादिकं ददतः साधोरनु-मतिदोषः। उपलक्षणमिदम, तेन येषां यद् गृहधनादिकं न दीयते , तेषामप्रीतिकप्रद्वेषगमनादयो दोषाः / अथ लिङ्गिनामेतद्दोषभयात् प्रथमत एव न मिलन्ति, न वा व्यवहारपरिच्छेदं कुर्वन्ति, तत उत्क्षेपणा उद्घाटना साधूनां भवति, संघाटाद्बहिष्करणमित्यर्थः / छिद्राणि च दूषणानि, ते आकारिताः सन्तः साधूनां प्रेक्षन्ते, नैव च ते कार्येषु राजद्विष्टग्लानत्वादिषु साहाय्यं तन्निस्तरणक्षममुपष्टम्भं कुर्वते, यत एते दोषाः, अतो निष्कारणे न