________________ अणुजाण 372- अभिधानराजेन्द्रः - भाग 1 अणुजाण शब्दार्थः / एतेषु च तान्येव कल्याणकरूपाणि दिवसान् प्रतीत्याश्रित्य, कर्तव्यं विधेयं भवति / कस्मादेवमित्याह-यद् यस्मात्कारणादेष एव कल्याणदिनलक्षणो विषयो गोचरः प्रधानः शोभनः / मकारस्तु प्राकृतशैलीप्रभवः / तस्या रथनिष्क्रमणादिकायाः क्रियायाः चेष्टायाः, इदं चाऽवधारणमनागमोक्तदिनव्यवच्छे दार्थमेव द्रष्टव्यम्, आगमोक्तदिनानां त्वागमप्रामाण्यादेव प्रधानत्वात् / अभिधीयते चागमे - "संवच्छरचाउम्मासएसु अट्ठाहियासुय तिहीसु / सव्वायरेण लग्गइ, जिणवरपूया तवगुणेसु" ||1|| तथा प्रतिष्ठा-ऽनन्तरमष्टाह्निकाया इहैव विधेयतयोपदिष्टत्वादिति गाथार्थः // 4 // ननु कल्याणकदिनेष्वेव यात्रायाः कथं प्राधान्यम् ? बहुफल-त्वादिति ब्रूमः, एतदेवाऽऽहविसयप्पगरिसभावे, किरियामेत्तं पि बहुफलं होई। सकिरिया विहुण तहा, इयरम्मि अवीयरागि व्व // 43 / / विषयस्य क्रियाविशेषगोचरस्य प्रकर्षभाव उत्कृष्टता-विषयप्रकर्षभावः, तत्र क्रियामात्रमपि अविशेषवत् क्रियाऽपि, आस्तां विशिष्टा, बहुफलं प्रभूतेष्टफलं भवति जायते / एतस्यैव व्यतिरेकमाह-सत्क्रिया विशिष्टचेष्टाऽपि आस्ता क्रियामात्रम् / हुशब्दोऽलड्कृतौ / न तथा, न तत्प्रकारा, न बहुफला भवति / इतरस्मिन् विषयस्य प्रकर्षाभावे, उक्तमर्थं दृष्टान्तेन समर्थयन्नाह-अवीतरागे इव पुरुषमात्रवत्। यथाऽस्य वीतरागे गुणोत्कर्षाभावेन विषयप्रकर्षाभावेन महत्यपि पूजादिका चेष्टा बहुफला न भवति, तथा कल्याणकदिनेभ्योऽन्यत्रेति गाथार्थः / / 43 / / अथ कल्याणकयात्रामेव पुरस्कुर्वन्नुपदेशमाहलघृण दुल्लहं ता, मणुयत्तं तह य पवयणं जइणं / उत्तमणिदंसणेसुं, बहुमाणो होइ कायव्वो॥४४॥ लब्ध्या प्राप्य, दुर्लभमसुलभं (ता इति) यस्मादिन्द्रादिभिः कृता बहुफला चकल्याणकयात्रा तस्मात्कारणात्मनुजत्वं नरत्वम्। तथाचेति समुच्यार्थः / प्रवचनं शासनं,जैनं सर्वज्ञरचितं, जिनमतप्राप्तियुक्तस्यैव विशिष्टोपदेशयोग्यता तत्सफलताकरणे सामर्थ्य च भवतीति कृत्वा मनुजत्वमित्याधुक्तम् / उत्तमनिदर्शनेषु प्रधानसत्त्वज्ञातेष्विन्द्रादिलक्षणेषु / तद्यथा- कल्याणकयात्रा विधेया देवप्रभुप्रभृतिप्रवर्तितेयं, यत इति बहुमानः पक्षपातो, भवति जायते, कर्त्तव्यो विधेयो, न तु मोहोपहतसत्त्वनिदर्शनेषु यथा यथाऽमुनाऽमुना वाऽस्मत्पितृपितामहादिनाऽन्येन चेदं विहितमिति विधेयमिति गाथार्थः / / 4 / / अधिकृत यात्रागतमेवोपदेशाऽन्तरमाहएसा उत्तमजत्ता, उत्तमसुयवण्णिआ सइ बुहेहिं। सेसा य उत्तमा खलु, उत्तमरिद्धीए कायव्वा।।४५|| एषाऽनन्तरोक्ता कल्याणकयात्रा उत्तमयात्रा प्रधानयात्रा, तदन्यस्याः का वार्तेत्याह-उत्तमश्रुतवर्णिता प्रधानागमाभिहिता या सा, शेषा च कल्याणकव्यतिरिक्ताऽपि, उत्तमा खलु प्रधानैव। उत्तमश्रुतवर्णिता तु, लोकरूढिकृता तु नेति / अतश्चोत्तमत्वात्सदा बुधैर्विद्वद्भिरुत्तमा प्रधानविभवेन, न यथाकथंचित्कर्तव्या विधेयेति गाथार्थः / / 45! / उक्तव्यतिरेके यदापद्यते, तदाह- . इयरा वाऽबहुमाणोऽवण्णा य इमीए णिउणबुद्धीए। एयं विचिंतियव्वं, गुणदोसविहावणं परमं / / 46|| इतरथाऽन्यथा उत्तमद्ध्या तदकरणे / अथवोत्तमयात्राया अकरणे तत्र | यात्राविशेषाभिधायके उत्तमश्रुते उत्तमनिदर्शनेषु वा बहुमानः प्रीतिः, तबहुमानस्तत्प्रतिषेधोऽतबहुमानः स भवति / तदुक्तयात्राविशेषस्याऽकरणात् तथाऽवज्ञा आवधीरणा च कृता भवति / अस्यामुत्तमयात्रायामिति निपुणबुद्ध्या सूक्ष्मधिया / एतदनन्तरोक्तमनर्थद्वयं विचिन्तयितव्यं परिभावनयिम्, यतो गुणदोषविभावनमर्थानालोचनं सर्वस्यानुष्ठानस्य परमं प्रधानम्, ततः प्रवृत्तिनिवृत्तिभावादिति गाथार्थः // 46 // उत्तमश्रुतोक्तयात्रा-ऽवज्ञानेन लोकरूढ़ेर्यात्राकरणमयुक्तमितिदर्शयन्नाहजेट्टम्मि विज्जमाणे, उचिय अणुजेट्ठपूयणमजुत्तं / लोगाहरणं च तहा, पयडे भगवंतवयणम्मि / / 47|| ज्येष्ठे वृद्धतरे पुत्राद्यपेक्षया पित्रादौ विद्यमाने सति उचिते निर्दोषत्वेन पूजायोग्ये, अनुज्येष्ठस्य लघोः पुत्रादेः, पूजनं सत्कारोऽयुक्तमसंगतम्, यथेति शेष इति दृष्टान्तः / दार्शन्तिकमाह - (लोगाहरणं च) लोकोदाहरणमपि पित्राधुद्देशेनाऽमुष्मिन् वा मासादौ अमुना च क्रियते यात्राऽतस्तथैव सा नो विधेयेत्येवं लक्षणं, तथा तद्वदयुक्तमेवानुज्येष्ठपूजनवत्, प्रकटे स्पष्टे भगवद्वचने जिनागमे सकलजगजनज्येष्ठे सतीति गाथार्थः // 47 // अयुक्तत्वमेव लोकोदाहरणस्य भावयन्नाहलोगो गुरुतरुगो खलु, एवं सति भगवतो वि इट्ठो त्ति। मिच्छत्तमो य एयं, एसा आसायणा परमा॥४८|| लोक एव सामान्यजन एव, गुरुतरको गरीयान् / खलु- अवधारणे, तस्य च दर्शित एव प्रयोगः / एवमुक्तनीत्या ,भगवद्वचनसद्भावेऽपि लोक प्रमाणीकरणलक्षणे वस्तुनि सति,भगवतोऽपि सकलजगज्जयेष्ठजिनादपि सकाशादिष्टोऽभि-मतः / इतिः समाप्तौ / ततः किमित्याह-मिथ्यात्वं मिथ्यादृष्टित्वम् / ओकारो निपातः पूरणार्थः / चशब्दः पुनरर्थकः / एतद्भगवदपेक्षया लोकस्य गुरुतरत्वाभिगमनं विपरीतबोधत्वात्, तथा एषा लोकस्य गुरुतरत्वाभिगमनलक्षणा, आशातना सर्वज्ञावमानना, परमा प्रकृष्टा, अनन्तसंसाराऽऽवहेत्यर्थः / सर्वज्ञवचनमेव प्रमाणतयाऽङ्गीकर्त्तव्यम्।लोकस्तु तद्विरुद्धानुष्ठान एवेति गाथार्थः / / 4 / / अथ सर्वज्ञमुपदेशमाहइय अण्णत्थ वि सम्म,णाउं गुरुलाघवं विसेसेण। इढे पयट्टियव्वं, एसा खलु भगवतो आणा ||46ll इत्येवं कल्याणकयात्रावत्, अन्यत्रापि यात्राव्यतिरिक्त दानादावपि, सम्यगवैपरीत्येन, ज्ञात्वा विज्ञाय, गुरुलाघवं सारेतरत्वं, विशेषेण परस्परापेक्षयाऽऽधिक्येन, इष्टेऽभिमते वैयावृत्त्यादौ, प्रवर्तितव्यं यतितव्यं, यत एषाखलु इयमेवाऽनन्तरोक्तभगवतो जिनस्याऽऽज्ञा आदेश इति गाथार्थः // 46 // अथोपसंहरन्नाहजत्ताविहाणमेयं, णाऊणं गुरुमुहाउ धीरेहिं / एवं विय कायव्वं, अविरहियं भत्तिमंतेहिं / / 5 / / यात्राविधानं जिनोत्सवविधिः, एतदनन्तरोक्तं ज्ञात्वा विज्ञाय, गुरुमुखात् सूरिवदनाद्, धीरैर्धीमद्भिः , (एवं वि यत्ति) एव मेवोतविधिनैव,कर्तव्यं विधेयम्,अविरहितं सन्ततं भक्तिमभिर्बहुमानवद्भिरिति गाथार्थः / / 50 / / इति यात्राविधिप्रकरणं विवरणतः