________________ अणुजाणअणुजाण 370 - अभिधानराजेन्द्रः - भाग 1 अणुजाण कथं तीर्थवर्णवाद एव बोधिबीजं भवत्यत आहजधिय गुणपडिवत्ती, सव्वण्णुमयम्मि होइ पडिसुद्धा। सा विय जायति बोहीए तेण णाएण चोराणं // 24 // चियशब्द एवकारार्थः, स चापिशब्दार्थः / ततश्च याऽपि काचिदल्पाऽपीत्यर्थः / गुणप्रतिपत्तिर्गुणाभ्युपगतिः, सर्वज्ञमते जिनशासनविषये, भवति जायते, परिशुद्धा भावगर्भा, साऽपि गुणप्रतिपत्तिः, जायते संपद्यते, बीजहेतुबोधये, सम्यग्दर्शनप्रतिपत्तेः, तेन ज्ञातेन, चौरोदाहरणेन, तच प्रागुक्तमिति गाथार्थः // 24 // यदि श्रावका अपि राजदर्शनासमस्तिदा को विधिरित्याहइय सामत्थाभावे, दोहि वि वग्गेहि पुव्वपुरिसाणं। इयसामत्थजुआणं, बहुमाणो होति कायव्यो / / 25 / / इत्युक्तरूपे राजदर्शनद्वारेणाऽमाघातकारणे यत्सामर्थ्य बलं, तस्य योऽभावः स तथा तस्मिन्, द्वाभ्यामपि, आस्तामेकेन, वर्गाभ्यां समुदायाभ्यां, प्रवचनगुरुश्रावकलक्षणाभ्यां पूर्वपुरुषाणामतीतमानवानाम्, इति सामर्थ्ययुतानाममाघातकारणबलयुक्तानां, बहुमानः प्रीतिविशेषो, भवति वर्तते, कर्तव्यो विधेय इति गाथार्थः // 25 // बहुमानमेव स्वरूपत आहते धण्णा संप्पुरिसा,जे एयं एवमेव णीसेसं / पुट्विं करिसु किचं, जिणजत्ताए विहाणेणं // 26|| ते पूर्वपुरुषाः, धन्याः श्लाध्याः, सत्पुरुषा महापुरुषाः, वर्त्तन्ते ये, एतदनन्तरोक्तं कृत्यमिति योगः / एवमेवोक्तन्यायेनैव, निःशेषं सर्व, पूर्वकाले (करिसुत्ति) अकार्षुः, कृत्यं करणीयं, दान-पूर्वामाघातलक्षणं, जिनयात्रायां जिनोत्सवे, विधानेन विधिनेति गाथार्थः // 26 // अम्हेउ तह अधण्णा, धण्णा उण एतिएण जंतेसिं। बहु मण्णामो चरियं, सुहावहं धम्मपुरिसाणं ||27|| वयं तु, वयं पुनस्तथा तेन प्रकारेण जिनयात्रादिसमयविधानसंपादनसामर्थ्याभावलक्षणेनाऽधन्या अश्लाघ्याः, धन्याः पुनः श्लाघ्याः, पुनरियता एतावता, यत्तेषां पूर्वपुरुषाणां, बहु मन्यामहे पक्षपातविषयीकुर्मः, चरितं चेष्टितं सुखावहं सुखकारणं शुभावहं वा, धर्मपुरुषाणां धर्मप्रधाननराणाम् / वीरपुरुषाणामिति च पाठान्तरमिति गाथार्थः // 27 // एतद्बहुमानस्य फलमाहइय बहुमाणा तेसिं, गुणाणमणुमोयणा णिओगेण। तत्तो तत्तुल्लं विय, होइफलं आसयविसेसा // 28 // इत्यादिबहुमानादनन्तरोक्तपक्षपाताखेतोस्तेषां पूर्वपुरुषाणां सत्कानां गुणानां धर्मचरणादीनामनुमोदनाऽनुमतिर्नियोगेना-वश्यतया भवति ।(तत्तो त्ति) ततश्च गुणानुमोदनातः, तत्तुल्य मेवपूर्वपुरुषानुष्ठानफलसममेव भवति, जायते। फलं कर्मक्षयादिको गुणः / यदाह-अप्पहियमायरंतो, अणुमोयंतो य सग्गई लहइ / रहकारदाणअणुमोयगो मिगो जह य बलदेवो // 1 // अथ कथं कलानुष्ठानवतां सकलानुष्ठानवदिभस्तुल्यं फलं भवतीत्याहआशयविशेषादध्यवसायभेदात् / अध्यवसाय एव हि परं कारणं शुभाशुभकर्मबन्धादिं प्रति / यदाह-परम-रहस्समिसीणं, सम्मतगणिपिडगभरियसाराणं / परिणामियं पभाणं, निच्छयमवलंबमाणाणं / / 1 / / इति गाथार्थः॥२८॥ 'आरंभेचिय दाणं' इत्यादियदुक्तं, तदुपसंहरन्नाह कयमेत्थ पसंगणं, तवोवहाणादिया विणियसमए। अणुरूवं कायव्वा, जिणाण कल्लाणदियहेसुं / / 26 / / कृतमलमत्र दानामाघातप्रसङ्गेन, प्रसक्त्या तप उपधानादिका अपि तपःकर्मशरीरसत्कारप्रभृतिका अपि भावाः, न केवलं दानमित्यपिशब्दार्थः / निजसमये स्वकीयावसरे रूढिगम्ये अनुरूपम् औचित्येन कर्त्तव्या विधेया। कदेत्याह-जिनानामर्हतां कल्याण-दिवसेषु पञ्चमहाकल्याणी प्रतिबद्धदिनेष्विति गाथार्थः // 26 // कल्याणान्येव स्वरूपतः फलतश्चाऽऽहपंचं महाकल्लाणा, सव्वेसिं जिणाण होंति णियमेण। भुवणच्छेरय भूया, कल्लाणफला य जीवाणं / / 30 / / गन्मे जम्मे य तहा, णिक्खमणे चेव णाणणिव्वाणे। भुवणगुरूण जिणाणं, कल्लाणा होति णायव्वा / / 31 / / पञ्चेति पञ्चैव महाकल्याणानि परमश्रेयांसि सर्वेषां सकल-काल निखिलनरलोकभाविनां जिनानामहतां भवन्ति नियमे-नाऽवश्यंभावेन, तथा वस्तुस्वभावत्यात् / भुवनाश्चर्यभूतानि -निखिल भुवनाद्भुतभूतानि, त्रिभुवनजनानन्दहेतुत्वात् / तथा कल्याण-फलानि च निःश्रेयससाधनानि / चः समुच्चये। जीवानां प्राणिनामिति / गर्भ गर्भाधाने, जन्मन्युत्पत्तौ / चशब्दः समुच्चये / तथेति वाक्योपक्षेपे / निष्क्रमणे अगारवासान्निर्गमे, चैवेति समुच्चयावधारणार्थावित्युत्तरत्र संभत्स्येते। ज्ञाननिर्वाण समा-हारद्वन्द्वत्वात्केवलज्ञाननिवृत्योरेव च। केषां गर्भादिष्वित्याह- भुवनगुरूणां जगज्ज्येष्ठानां जिनानामर्हताम् / किमित्याह-कल्याणानि श्वःश्रेयसानि, भवन्ति वर्तन्ते, ज्ञातव्यानि ज्ञेयानीति गाथाद्वयार्थः // 30-31 / / ततश्च - तेसु य दिणेसु धण्णा, देविंदाई करिति भत्तिणया। जिणजत्तादि विहाणा, कल्लाणं अप्पणो चेव॥३२॥ (तेसु यत्ति) तेषु च दिनेषु दिवसेषु, येषु गर्भादयो बभूवुर्धन्या धर्मधनं लब्धारः, पुण्यभाज इत्यर्थः / देवेन्द्रादयः सुरेन्द्रप्रभृतयः, कुर्वन्ति विदधति, भक्तिनता बहुमाननमाः / किमित्याह ?-जिनयात्राऽऽदि, अर्हदुत्सवपूजास्नात्रप्रभृतिम् / कुत इत्याह-विधानाद्विधिना / अथवा जिनयात्रादिविधानानि / किंभूतं जिनयात्रादीत्याह- कल्याणं श्वःश्रेयसम्। कस्येत्याह-आत्मनः स्वस्य, चैवशब्दस्य समुच्यार्थत्वेन परेषां वेति गाथार्थः // 32 // यत एवम्इय ते दिणा पसत्था, ता सेसेहिं पि तेसु कायव्वं / जिणजत्तादि सहरिसं, ते य इमे वद्धमाणस्स // 33|| इत्यतो हेतोः पूर्वोक्तजीवानां कल्याणफलत्वादिलक्षणात्ते इति, येषु जिनगर्भाधानादयो भवन्ति, दिना दिवसाः, दिनशब्दः पुंल्लिङ्गोऽप्यस्ति / प्रशस्ताः श्रेयांसः। ततः किमित्याह-(ता इति) यस्मादेवं तस्मात् शेषैरपि देवेन्द्रादिव्यतिरिक्तै मनुष्यैरपि, न केवलमिन्द्रादिभिरेवेत्यपिशब्दार्थः। तेषु गर्भादिकल्याणदिनेषु, कर्तव्यं विधेयं, जिनयात्रादि वीतरागोत्सवपूजाप्रभृतिकं वस्तु, सहर्ष सप्रमोदं यथाभवति / कानि च तानि दिनानीत्यस्यां जिज्ञासायां सर्वजिनसंबन्धिना, तेषां च वक्तुमशक्यत्वाद्वर्तमान-तीर्थाधिपतित्वेन प्रत्यासन्नत्वादेकस्यैव महावीरस्य, तानि विव-क्षुराह-(ते यत्ति) तानि पुनर्ग दिदिनानि इमानि वक्ष्यमाणानि वर्द्धमानस्य महावीरजिनस्य भवन्तीति गाथार्थः // 33 //