SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ अणुजाणअणुजाण 369 - अभिधानराजेन्द्रः - भाग 1 अणुजाण अथाऽनया को गुणः? इत्याह- एवमनन्तरोक्तनीत्या वसतां तद्देशे निवसतां निर्जरा कर्मक्षयः, विपुला बढ़ी, अदत्तादानव्रतस्य निरतिचारस्यानु-पालनादाज्ञाराधनाच / न चैतावदेवाऽत्र फलमित्याह-इह लोकेऽप्यत्रापि जन्मनि, आस्तां परलोके, दोषाः प्रत्यनीककृतो-पद्रवलक्षणाः, न भवन्ति, न जायन्ते / नियमादवश्यं-भावेन गुणाः पुना राजपरिग्रहाल्लोके मान्यतादयो, भवन्ति जायन्ते / यदाह-"गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः / यद्यपि न भवन्त्याः , भवन्त्यनर्थप्रतीघाताः" ||1|| इति गाथार्थः॥१४॥ ये गुणा भवन्ति, तानेवाहदिट्ठोपवयणगुरुणा राया अणुसासिओ य विहिणा उ। तं नत्थि जंण वियरइ, कित्तियमिह आमघाओ त्ति॥११॥ दृष्टोऽवलोकितः, प्रवचनगुरुणा प्रधानाचार्येण, राजा नृपतिः, अनुशासितोऽनुशिष्टश्च, विधिना तु प्रवचननीत्यैव तत्प्रकृत्यनुवर्तनादिलक्षणया / यदाह- बालादिभावमेवं, सम्य-ग्विज्ञाय देहिनां गुरुणा / सद्धर्मदेशनाऽपि हि, कर्तव्या तदनुसारेण ||1|| एवं चाऽसौ प्रमुदितमना तद्वस्तु नाऽस्ति न विद्यते यन्न वितरति, न ददाति, सर्वमेव ददातीत्यर्थः / कियत् किं परिमाणम् ? अल्पमिति कृत्वा ददात्येवेत्यर्थः / इह यात्राऽवसरे अमाघातः प्राणिघात-निवारणम्, इतिशब्द उपप्रदर्शनार्थः / इति गाथार्थः // 15 // अनुशासित इत्युक्तमतस्तदनुशासनविधिं प्रस्तावयन्नाह.. एत्थमणुसासणविही, भणिओ सामण्णगुणपसंसाए। गंभीराहरणेहिं, उत्तीहि य भावसाराहिं // 16 // अत्र राजविषये, अनुशासनविधिरनुशास्तिविधानं, भणित उक्तः, सूरिभिः / कथम् ? सामान्यगुणप्रशंसया लोके लोकोत्तराविरुद्धविनयदाक्षिण्यसौजन्यादिगुणस्तुत्या, तथा गम्भीरोदाहरणैरतुच्छज्ञातैः, महापुरुषगतैरुक्तिभिश्च भणितिभिश्च, भावसाराभिर्भावगर्भाभिन तु तद्विकलाभिरिति गाथार्थः / / 16 / / अनुशासनविधिमेवाहसामण्णे मणुजत्ते, धम्माओ णरीसरत्तणं णेयं। इय मुणिऊणं सुंदर!, जत्ता एयम्मि कायय्वो॥१७॥ सामान्ये बहूनां प्राणिनां साधारणे मनुजत्वे नरत्वे धर्माद कुशलकर्मणो नरेश्वरत्वं नृपत्वं भवतीति ज्ञेयं ज्ञातव्यम्। इति एतद् ज्ञात्वाऽवगम्य, सुन्दर ! नरप्रधान ! यत्न उद्यमोऽत्र धर्मे कर्तव्यो विधेयो भवतीति गाथार्थः / / 17 // इड्डीण मूलमेसो, सव्वासिंजणमणोहराणं ति। एसो य जाणवत्तं, णेओ संसारजलहिम्मि||१८|| ऋद्धीनां संपदां मूलमिव मूलं कारणम्, एष धर्मः / सर्वासां नराऽमरसंबन्धिनीनां जनमनोहरणां लोकचेतोहारिणीनाम्। इति शब्दो लोकप्रसिद्धस्य संपदां जनमनोहरत्वस्योपदर्शनार्थः / अनेन च सांसारिकफलसाधुत्वमस्योपदर्शितम् / अथ निर्वाणफलसाधकत्वमस्याऽऽह-एष चाऽयमेव यानपात्रं बोधिस्थ इव ज्ञेयो ज्ञातव्यः संसारजलधौ भवोदधौ तरीतव्य इति गाथार्थः / कथं पुनरेष भवतीत्याहजायइ य सुहो एसो, उचियत्थापायणेण सव्वस्स। जत्ताए वीयरागाण विसयसारत्तओ पवरो॥१६॥ जायते संपद्यते, चशब्दः पुनरर्थः, शुभः कुशलानुबन्धः, | शुभनिमित्तत्वादेष धर्मः, उचितार्थापादनेनाऽनुरूपवस्तुसंपादनेन, सर्वस्य समस्तजनस्य / इहैव विशेषमाह-'जत्ताए' इत्यादि / काक्वा चेदमवधेयम् / यात्रयोत्सवेन, पुनर्यात्रायां वा उचितार्था-पादनेनेति प्रकृतम् / के षाम्? वीतरागाणां जिनानां, विषयसारत्वतः प्रधानगोचरत्वात्। वीतरागा एव हि निखिलभुवन-जनातिशायिगुणत्वेन यात्रागोचरोऽनुपचरितो भवतीति प्रवरः प्रधानतरः शेषजनोचितार्थसंपादनोभावधर्मापेक्षया एष जायत इति प्रकृतमिति गाथार्थः / / 16 // अधिकृतराजानुशासनविधौ यो भावस्तं प्रकटयन्नाहएतीए सव्वसत्ता, सुहियाखु अहिसि तम्मि कालम्मि। एम्हि पि अमाघाएण कुणसुतं चेव एतेसिं // 20 // एतया वीतरागयात्रया एतस्या वा, सर्वसत्त्वाः समस्तदेहिनः, सुखिता एवाऽऽनन्दवन्त एव, 'खु' शब्दोऽवधारणार्थः ।(अहिसि त्ति) अभूवः, तस्मिन् काले तदा, यदा जिनानां जन्माद्यभवत् / ततश्चेदानीमप्यधुनाऽपि, यथाऽतीतकाल इत्यपिशब्दार्थः / (अमाघाएणं ति) प्राकृतत्वादमाघातेन, अमारिप्रदानेन, कुरुष्व-विधेहि, त्वं महाराज ! देव ! सुखितत्वमेव / एतेषां सर्वसत्त्वानामिति गाथार्थः / / 20 / / अथाचार्यों न भवेत्तत्र तदा को विधिरित्याहतम्मि असंते राया, दट्ठव्वा सावगेहिं वि कमेण / कारेयव्वो य तहा, दाणेण वि अमाधाओ त्ति // 21 // तस्मिन् प्रवचनगुरावसत्यविद्यमाने, उपलक्षणत्वाद राजदर्शनाद्यसमर्थे वा, राजा नरपतिद्रष्टव्यो दर्शनीयः, श्रावकैरपि श्रमणोपासकैरपि, न तु, न द्रष्टव्य इत्येतदर्थसंसूचनार्थोऽपि शब्दः / क्रमेण नीत्या तद् राजकुलप्रसिद्धया, कारयितव्यो विधापयितव्यो राज्ञा / चशब्दः समुच्चये। तथेति वाक्योपक्षेपमात्रार्थः। तथा कारयि-तव्यश्चेत्येवं चाऽस्य प्रयोगः / इति नेच्छति चेद् राजा तं कारयितुं , तदा दानेनापि द्रव्यवितरणतोऽपि, न केवलं वचनेनेत्यपिशब्दार्थः / (अमाघाओ त्ति) अमाघातः प्राणिनाममारिः, इतिशब्दः समाप्त्यर्थ इति गाथार्थः / / 21 / / किं चाऽन्यत्तेसिं पिघायगाणं, दायव्वं सामपुव्वगं दाणं। तत्तियदिणाण उचियं, कायव्वा देसणाय सुहा॥२२॥ तेषामपि न केवलममाघात एव कारयितव्य इत्यपिशब्दार्थः। घातकानां प्राणिवधोपजीविनां मत्स्यबन्धादीनां, दातव्यं देयं, सामपूर्वक प्रेमोत्पादकवचनपुरस्सरं, दानमन्नादिवितरणं, तावद्दिनानां यात्रापरिणामदिवसानामुचितं योग्यम्, कर्तव्या विधेया, देशना च धर्मदेशना च शुभाऽनवद्या / यथा-भवतामप्येवं धर्मावाप्तिर्भविष्यतीत्यादिरूपा, इत्यनेन च परोपतापपरिहारो धर्मार्थिनां श्रेयानित्युक्तमिति गाथार्थः॥२२॥ एवं क्रियमाणे को गुणः? इत्याहतित्थस्स वण्णवाओ, एवं लोगम्मि बोहिलाभो य। केसिं वि होइ परमो, अण्णेसिं बीयलाभो त्ति // 23|| तीर्थस्य जिनप्रवचनस्य, वर्णवादः श्लाघा, एवममुना प्रकारेण दानपूर्वकाऽमाघातकारणलक्षणेन, लोके जने, भवति / ततश्च किमित्याह-बोधिलाभः सम्यग्दर्शनप्राप्तिः, चशब्दः पुनरर्थो भिन्नक्रमश्च / केषांचिल्लघुकर्मणां प्राणिनां, भवति जायते, परमः प्रधानोऽक्षेपेण मोक्षसाधकत्वादन्येषां पुनरपरेषां, पुनर्बीजलाभः सम्यग्दर्शनबीजस्य जिनशासनपक्षपातरूपशुभाध्य-वसायलक्षणस्य प्राप्तिः / इतिशब्दः समाप्तौ / इति गाथार्थः / / 23 / /
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy