________________ अणुगम 363 - अभिधानराजेन्द्रः - भाग 1 अणुग्घाश्य वा अनुगमो व्याख्यानं निर्युक्त्यनुगमः / अनु०। (सूत्रानुगमनियुक्त्यनुगमयोयाख्या स्वस्वस्थाने द्रष्टव्या) व्याख्याने, संगृहीते, सर्वव्यक्तिषु अनुगतस्य सामान्यस्य प्रतिपादने च। विशे० यत्र साधनं, तत्र साध्यमित्येवंलक्षणे साध्यस्य साधनेन सहाऽन्वये, विशे०। पश्चाद्गमने, सहायीभवने च। वाचा अणुगम्म-अव्य०(अनुगम्य) बुद्ध्वा इत्यर्थे, सूत्र०१ श्रु०१४ अ० / अणुगय-त्रि०(अनुगत) पूर्वमवगते, विशे० अव्यवच्छिन्नतया-ऽनुवृत्ते, प्रश्न०३ आश्रद्वा०ा 'मतिसहितं ति वा मतिअणुगतं ति वा एगट्ठा' / आ०चू०१ अ०। पितृविभूत्याऽनुयाते पितृसमे पुत्रे, पुं० स्था०८ ठा०३ उ०। आनुकूल्ये, न० स० अणुगवेसेमाण-त्रि०(अनुगवेषयत्) सामायिकपरिसमाप्त्यनन्तरं गवेषयति, "तंभंडं अणुगवेसेमाणे किं सयं भंडं अणुगवेसइ?"भ०८ श०५ उ० अणुगा(ग्गा)म-पुं०(अनुग्राम) अनुकूलो ग्रामोऽनुग्रामः / व्य०२ उ०। विवक्षितग्राममार्गानुकूले ग्रामे लघुग्रामे, एकस्माद्ग्रामादन्यस्मिन् ग्रामे, उत्त०३ अ०। एकग्रामाल्लघुपश्चाद्भावाभ्यां स्थिते ग्रामे, स्था०५ ठा०२ उ०। विवक्षितग्रामादनन्तरे ग्रामे, “गामाणुगा(गा) मं दूइज्जमाणे" / औ०1 ध०। अणुगामि(ण)-त्रि०(अनुगामिन्) साध्यमसाध्यमग्न्यादिकमनुगच्छति, साध्याऽभावे न भवति, योधूमादिहेतुः, सोऽनुगामी / अदुष्टहेतौ, स्था०३ ठा०३ उ०ा अनुयातरि, आव०५ अ० मोक्षायाऽनुगच्छति, व्य०१० उ०। अणुगामिय-त्रि०(अनुगामिक) उपकारिसत्कालान्तरमनुयाति तदनुगामिकम् / स्था०५ ठा१ उ०। अनुगमनशीले भवपरम्परानुबन्धिसुखजनके, पा०। स्था०। अनुगमनशीलेऽवधिज्ञाने, सूत्र० 2 श्रु०२ अ०२ उ०। गच्छन्तमनुगच्छतीति अनुगामिकः / अनुचरे, सूत्र०२ श्रु०२ अ०२ उ०। अकर्तव्यहेतुभूतेषु चतुर्दशस्वसदनुष्ठानेषु, सूत्र०२ श्रु०२ अ०२ उ० अणुगामियत्त-न०(अनुगामिकत्व) भवपरम्परासुसानुबन्धसुखे, औ०। अणुगिद्ध-त्रि०(अनुगृद्ध) प्रत्याशक्ते, सूत्र०१ श्रु०३ अ०३ उ०। अणुगिद्धि-स्त्री०(अनुगृद्धि) अभिकाङ्खायाम, उत्त०३ अ०। अणुगिलइत्ता-अव्य०(अनुगीर्य) भक्षयित्वेत्यर्थे, ज्ञा०७ अ० अणुगीय-त्रि०(अनुगीत) मूलाचार्यात्पाश्चात्यशिष्यैः कृते ग्रन्थे, महत्थरूवा वयणप्पभूया, गाहाणुगीया नरसंघमज्झे' अन्विति तीर्थकृद्गणधरादिभ्यः पश्चाद् गीता अनुगीता। कोऽर्थः ? तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता, स्थविरैरिति शेषः। अनुलोमं वा गीताऽनेन श्रोत्रानुकूलैव देशना क्रियते इति ख्यापितं भवति। उत्त०१३ अ०। अणुगुरु-त्रि०(अनुगुरु) यद्यथा-पूर्वगुरुभिराचरितं तत्तथैव पाश्चात्यैरपि आचरणीयमिति गुरुपारम्पर्ये व्यवस्थया व्यवहरणीये, बृ०१ उ०। अणुग्गह-पुं०(अनुग्रह) उपकारे, औ०। ज्ञानाद्युपकारे, स्था० तिविहे अणुग्गहे पण्णत्ते / तं जहा-आयाणुग्गहे, पराणुग्गहे, तदुभयाणुग्गहे य। तत्र आत्मानुग्रहोऽध्ययनादिप्रवृत्तस्य, परानुग्रहो वाचना-दिप्रवृत्तस्य, तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहादि-प्रवृत्तस्येति। स्था०३ ठा०३ उ०। पञ्चा०ा "सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुग्रहम् / करोति दुःखतप्तानां, स प्राप्नोत्य-चिराच्छिवम्" आ०म०प्र०। प्रज्ञा०। यो०बि०। अनुपघाते, उज्ज्वालने, नि०चू० 1 उ०। देहस्य स्रक्चन्दनाऽङ्गनावसना-दिभिर्भो गैरुपष्टम्भे, ध०१ अधिका अणुग्गहट्ट-पुं०(अनुग्रहार्थ) अनुग्रह उपकारस्तल्लक्षणो योऽर्थः पदार्थः प्रयोजनं वा / अनुग्रहप्रयोजने, "सपरेसिमणुग्गहढाए'' स्वपरयोरात्मतदन्ययोरनुग्रह उपकारस्तल्लक्षणो योऽर्थः पदार्थः प्रयोजनं वा सोऽनुग्रहार्थः, तस्मै अनुग्रहार्थाय। तत्र स्वानुग्रहः प्रावचनिकार्थानुवादे निर्मलबोधभावात् परोपकारद्वारा यौन-कर्मक्षयायाप्तेश्च / परानुग्रहस्तु परेषां निर्मलबोधतत्पूर्वक -क्रि यासंपादनात् परम्परया निर्वाणसंपादनात्। पञ्चा०६ विव०॥ अणुग्गहता-स्त्री०(अनुग्रहता) अनुगृह्यत इति, अनुग्रहः। कर्मणि अनट् / तस्य भावोऽनुग्रहता। अनुग्रहणे, व्य०१ उ० अणुग्गहतापरिहार-पुं०(अनुग्रहतापरिहार) अनुग्रहतया परिहारोऽनुग्रहतापरिहारः / खोटादिभङ्गरूपे परिहारभेदे, व्य०१ उ०। अणुग्धाइम-न०(अनुद्घातिम) उद्घातो भागपातस्तेन निवृत्तमुद्धातिमलघ्वित्यर्थः। यत उक्तम्-"अद्धेण छिन्नसेसं पुव्वदेणं तुसंजुयं काओ / दिजाइ लहुयदाणं, गुरुदाणं तत्तियं चेव" / / 1 / / इति / ('उग्घाइअ' शब्देऽस्या व्याख्या द्वि०भा०७३० पृष्ठे द्रष्टव्या) एतन्निषेधादनुद्घातिमम्।तपोगुरुणि प्रायश्चित्ते, तद्योगात् तदर्हेषु साधुषु च। स्था०३ ठा०४ उ०। अणुग्घाइय-पुं०(अनुद्घातिक) न विद्यते उद्घातोलधुकरणलक्षणोयस्य तपो विशेषस्य तदनुद्घातम्, यथाश्रुतदानमित्यर्थः, तद्येषां प्रतिसेवाविशेषतोऽस्ति तेऽनुद्घातिकाः / स्था०५ ठा०३ उ०। उद्घातो नामः भागपातः, साऽन्तरहानं वा, स विद्यते येषु ते उद्घातिकाः, तद्विपरीता अनुद्घातिकाः / तपोगुरुप्रायश्चित्ताऽहेषु, बृ०४ उ०। त्रयोऽनुद्घातिकाःतओ अणुग्घाइया(मा)पण्णत्ता। तं जहा- हत्थकम्मं करेमाणे, मेहुणं सेवमाणे, राइभोयणं भुंजमाणे / स्था०३ ठा०४ उ०। त्रयस्त्रिसंख्याका अनुद्घातिकाः। उद्घातो नाम-'अद्धेण च्छिन्नसेसं' इत्यादिविधिना भागपातः, सान्तरहानंवा, स विद्यते येषु ते उद्घातिकाः, तद्विपरीता अनुद्घातिकाः, प्रज्ञप्ता-स्तीर्थकरादिभिः प्ररूपिताः, तद्यथोपदर्शनार्थः / हन्ति हसति वा मुखमावृत्याऽनेनेति हस्तः, शरीरैकदेशो निक्षेपाऽऽदानादिसमर्थः, तेन यत्कर्म क्रियते तद् हस्तकर्म, तत् कुर्वन् / तथा स्त्रीपुंसयुग्मं मिथुनमुच्यते,तस्य भावः कर्म वा मैथुनं, तत्प्रतिसेवमानः। तथा रात्रौ भोजनमशनादिकं भुञ्जानः। एष सूत्रार्थः / बृ०४ उ०। निक्षेपपुरस्सरं विशेषव्याख्यानम्। अथानुद्घातिपदं व्याख्यातुमाह