SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ अणुकंप 360 - अभिवानराजेन्द्रः - भाग 1 अणुकंपादाण *अनुकम्प्य-त्रि०ा अनुकम्पनीये, बृ०६ उ०। अणुकं पण-न०(अनुकम्पन) दुःखार्तानां बालवृद्धाऽसहायानां यथादेशकालमनुकम्पाकरणे, व्य०३ उ०।। अनुकं पधम्मसवणादिया-स्त्री०(अनुकम्पाधर्मश्रवणादिका) जीवदयाधर्मशास्त्राकर्णनप्रभृतिकायाम्, / पञ्चा०१० विव०। अणुकं पय-त्रि०(अनुकम्पक) भगवतो भक्ते, अनुकम्पायाश्च भक्तिवाचित्वम्, "आयरियऽणुकंपाए, गच्छो अणुकंपिओ महाभागो' इति वचनात् / कल्प०। आत्महिते प्रवृत्ते, स्था० 4 ठा०४ उ०। अणुकंपा-स्त्री०(अनुकम्पा) अनुकम्पनमनुकम्पा। दयायाम, निन्चू०१ उ०ा अनुकम्पा, कृपा, दयेत्येकार्थाः। ओ०। अनुकम्पा कृपा। यथा-सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च, ततो नैषाभल्पाऽपि पीडा मया कार्येति। ध०२ अधिकाअनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा सम्यक्त्वलिङ्गम् / पक्षपातेन तु करुणापुत्रादौ व्याघ्रादीनामप्यस्त्येवेति न तादृश्याः कृपायास्तत्त्वम् / सा चानुकम्पा द्रव्यतो भावतश्चेति द्विधा। द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण / भावतश्चाऽऽर्द्रहृदयत्वेन। यदाह"दठूण पाणिनिवह, भीमे भवसागरम्मिदुक्खत्तं / अविसेसओऽणुकंपं, दुहा वि सामत्थओ कुणइ" ||1|| ध०२ अधि० श्रा०। प्रव०। दर्श०। संथा। अन्नादिदानरूपायाम्, ध०२ अधिक। भक्तो, आ००। (अनुकम्पया श्रुतसामायिकलाभे उदाहरणानि 'धण्णंतरि' शब्दे वक्ष्यन्ते) भक्तपानादिभिरुपष्टम्भे च, भ०८ श०८ उ०।' अनुकम्पाऽनुकम्प्ये स्यात्' अनुकम्पाऽनुकम्ये विषये, द्वा०१ द्वा०ा स्था०। अणुकं पं पडुच तओ पडिणीया पण्णत्ता / तं जहातवस्सिपडिणीए, गिलाणपडिणीए, सेहपडिणीए। अनुकम्पामुपष्टम्भं प्रतीत्याश्रित्य तपस्वी क्षपकः, ग्लानो रोगादिभिरसमर्थः, शैक्षोऽभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति, तत्करणाऽकरणाभ्यां च प्रत्यनीकतेति / अनुकम्पातो यद्दानं तदनुकम्पैवोपचाराद् / दानभेदे, उक्तं च वाचक मुख्यैरुमास्वातिपूज्यपादैः-'कृपणेऽनाथदरिद्रे, व्यसनप्राप्ते च रोगशोकहते। यद्दीयते कृपार्था-दनुकम्पात् तद्भवेद् दानम्" स्था०१० ठा। अणुकं पादाण-न०(अनुकम्पादान) अनुकम्पया कृपया दानं दीनानाथविषयमनुकम्पादानम्। स्था०१० ठा०ा रङ्कदाने, प्रतिका अनुकम्पादानं जिनैरप्रतिक्रुष्टम्अनुकम्पाऽनुकम्पे स्याद्भक्तिः पात्रे तु संगता। अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका॥२॥ (अनुकम्पेति) अनुकम्पाऽनुकम्प्ये विषये, भक्तिस्तुपात्रेसाध्वादौ संगता स्यात् समुचितफलदा स्यात् / अन्यथाधीस्तुअनुकम्प्ये सुपात्रत्वस्य, सुपात्रे चाऽनुकम्प्यत्वस्य बुद्धिस्तु दातृणामतिचारप्रसञ्जिकाऽतिचारापादिका / अत्र यद्यपि सुपात्रत्वधियोऽनुकम्प्ये संयतादौ मिथ्यारूपतयाऽतिचारापादकत्वं युज्यते / सुपात्रेऽनुकम्प्यत्वधियस्तु न कथं चित्, तत्र ग्ला-नत्वादिदशायामन्यदाऽपि च स्वेष्टोद्धारप्रतियोगिदुःखा-श्रयत्वरूपाऽनुकम्प्यत्वधियः प्रमात्वात् / तथापि स्वापेक्षया-ऽहीनत्वेसतिस्वेष्टोद्धारप्रतियोगिदुःखाश्रयत्वरूपमनुकम्प्यत्वं तत्राऽप्रामाणिकमेवेति न दोषः / अपरे त्वाहुः- तत्र प्रागुक्तं निर्विशेषणमनुकम्प्यत्वं प्रतीयमानं साहचर्यादिदोषेण यदा हीनत्वबुद्धिं जनयति, तदैवातिचारापादाकं, नान्यदा, / अन्यथाधियोहीनोत्कृष्टयोरुत्कर्षाऽपकर्षबुद्ध्याधानद्वारैव दोषत्वात् / अत एव न चाऽनुकम्पादानं साधुषु न संभवति। "आयरियऽणु-कंपाए.गच्छो अणुकं पिओ महाभागो" इति वचनादित्यष्टकवृत्त्यनुसारेणाचार्यादिष्वप्युत्कृष्टत्वधियोऽप्रतिरोधेऽनु-कम्पाऽव्याहतेति / एतन्नये च सुपात्रदानमपि ग्रहीतृदुःखो-द्धारोपायत्वेनेष्यमाणमनुकम्पादानमेव, साक्षात्स्वेष्टोपाय-त्वेनेष्यमाणं चाऽन्यथेति बोध्यम् / / 2 / / तत्राद्या दुःखिनांदुःखोद्दिधीर्षाऽल्पासुखश्रमात्। पृथिव्यादौ जिनाऽर्चादौ,यथा तदनुकम्पिनाम् / / 3 / / (तत्रेति) तत्र भक्त्यनुकम्पयोर्मध्ये आद्याऽनुकम्पादुःखिनांदुःखार्त्तानां पुंसां दुःखोद्दिधीर्षा दुःखोद्धारेच्छा अल्पानामसुखं यस्मादेतादृशो यः श्रमस्तस्मात् / इत्थं च वस्तुगत्या बल-वदनिष्टाननुबन्धी यो दुःखिदुःखोद्धारस्तद्विषयिणी स्वस्येच्छा-ऽनुकम्पेति फलितम् / उदाहरति, यथा-जिनार्चादौ कार्ये पृथिव्यादौ विषये तदनुकम्पिनामित्थंभूतभगवत्पूजाप्रदर्शनादिना प्रतिबुद्धाः सन्तः षट्कायान् रक्षन्त्यिति परिणामवतामित्यर्थः / यद्यपि जिनार्चादिक भक्त्यनुष्ठानमेव, तथापि तस्य सम्यक्त्वशुद्ध्य-र्थत्वात्तस्य चाऽनुकम्पालिङ्गकत्वात्तदर्थकत्वमप्यविरुद्धमेवेतिपञ्चलिङ्गचादावित्थं व्यवस्थितेरस्माभिरप्येवमुक्तम् // 3 // अल्पासुखश्रमादित्यस्य कृत्यमाहस्तोकानामुपकारः स्यादारम्भाद्यत्र भूयसाम्। तत्रानुकम्पान मता, यथेष्टापूर्तकर्मसु // 4 // (स्तोकानामिति) स्पष्टम्, नवरम्, इष्टापूर्तस्वरूपमे तत्"ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः। अन्तर्वे द्यां हि यद्दत्तमिष्टं तदभिधीयते / / 1 / / वापीकू पतडागानि, देवताऽऽयतनानि च / अन्नप्रदानमेतत्तु, पूर्त तत्त्वविदो विदुः" // 2 // नन्वेवं कारुणिकदानशालादिकर्मणोऽप्युच्छेदापत्तिरित्यत आहपुष्टालम्बनमाश्रित्य, दानशालादि कर्म यत्। तत्तु प्रवचनोन्नत्या, बीजाधानादिभावतः।।५।। (पुष्टालम्बनमिति) पुष्टालम्बनं सद्भावकारणमाश्रित्य यद्दा-नशालादि कर्म प्रदेशिसंप्रतिराजादीनां, तत्तु प्रवचनस्य प्रशंसा-दिनोन्नत्या बीजाऽऽधानादीनां भावतः सिद्धेर्लोकानाम् // 5 // बहूनामुपकारेण, नानुकम्पा निमित्तताम्। अतिक्रामति तेनाऽत्र, मुख्यो हेतुःशुभाशयः॥६॥ (बहूनामिति) ततो निर्वृतिसिद्धर्बहूनामुपकारेणानुकम्पा निमित्तता नातिक्रामति, तेन कारणेनाऽत्राऽनुकम्पोचितफले, मुख्यः शुभाशयो हेतुः / दानं तु गौणमेव, वेद्यसंवेद्यपदस्थ एव तादृगाशयपात्रं, तादृगाशयानुगम एव च निश्चयतोऽनुकम्पेति फलितम्।।६।। एतदेव नयप्रदर्शनपूर्वं विवेचयतिक्षेत्रादिव्यवहारेण, दृश्यते फलसाधनम्। निश्चयेन पुनर्भावः, केवलः फलभेदकृत् // 7 // व्यवहारेण पात्रादिभेदात्फलभेदो, निश्चयेन तु भाववैचित्र्या देवेति तत्त्वम् // 7 // कालाऽऽलम्बनस्य पुष्ट त्वं स्पष्टयितुमाह
SR No.016143
Book TitleAbhidhan Rajendra Kosh Part 01
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1078
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy