________________ अणुओगदार 359 - अभिधानराजेन्द्रः - भाग 1 अणुकंप पमाणं च' इत्याद्यनुयोगद्वाराणामन्यतरदेकमनुयोगद्वारमुच्यते। कर्म०१ कर्म०। तत्स्वरूपप्रतिपादकाध्ययनविशेषोऽभेदोपचारादनुयोगद्वाराणीत्युच्यते। पा० उत्कालिकश्रुतविशेषे, नं० अस्यादावेतट्टीकाकृतसम्यक्सुरेन्द्रकृत संस्तुतिपादपद्ममुद्दामकामकरिराजकठोरसिंहम् / सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधिं सुधीरम् / / 1 / / वसन्ततिलका अनुयोगभृतां पादान, वन्दे श्रीगौतमादिसूरीणाम्। निष्कारणबन्धूनां, विशेषतो धर्मदातृणाम् // 2 // यस्याः प्रसादमतुलं,संप्राप्य भवन्ति भव्यजननिवहाः। अनुयोगवेदिनस्तां, प्रयतः श्रुतदेवतां वन्दे / / 3 / / इहातिगम्भीरमहानीरधिमध्यनिपतितानय॑रत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपिलब्ध्वा त्रिभुवनैकहितश्रीमज्जिन-प्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणामं प्रतिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्परमार्थ विज्ञाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभाविनीं चाऽवाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यम्, तस्यैव सकल-मनोऽभिलषितार्थसार्थसंसाधकत्वेनयथोक्तसमग्र- . सामग्रीफलत्वात् / स चाऽनुयोगो यद्यप्यनेकग्रन्थ विषयः संभवति, तथाऽपि प्रतिशास्त्र प्रत्यध्ययनं प्रत्युद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारि-त्वात्प्रथममनुयोगद्वाराणामसौ विधेयः / जिनवचने ह्याचारादिश्रुतं प्रायः सर्वमप्युपक्रमनिक्षेपानुगमनयद्वारैर्विचार्यते / प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः। स च यद्यपि चूर्णिटीकाद्वारेण वृद्धैरपि विहितस्तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौत्सुक्यभावतो-ऽविचारितस्वशक्ति त्वादल्पधियामनुग्रहार्थत्वाच कर्तुमारभ्यते। अनु०॥ सोलससयाणि चतुरुत्तराणि होति उ इमम्मि गाहाणं। दुसहस्समणुठुभछंद वित्तप्पमाणओ भणिओ॥१॥ णगरमहादाराई,चउवक्कमाणुओगवरदारा। अक्खरबिंदूमत्ता, लिहिआ दुक्खक्खयट्ठाए।।२।। गाहा 1604, अनुष्टुप्छन्दसा ग्रन्थसंख्या 2005 | ग्रन्थान्तेचटीकाकृत्प्रायोऽन्यशास्त्रदृष्टः, सर्वोऽप्यर्थो मयाऽत्र संकलितः। न पुनः स्वमनीषिकया, तथापि यत्किञ्चिदिह वितथम्॥१॥ सूत्रमतिलध्य लिखितं, तच्छोध्यं मय्यनुग्रहं कृत्वा। परकीयदोषगुणयोस्त्यागोपादानविधिकुशलैः / / 2 / / छदास्थस्य हि बुद्धिः, स्खलति न कस्येह कर्मवशगस्य ? | सदबुद्धिविरहितानां, विशेषतो मद्विधाऽसुमताम्॥३॥ कृत्वा यद् वृत्तिमिमां, पुण्यं समुपार्जितं मया तेन। मुक्तिमचिरेण लभतां, क्षपितरजाः सर्वभव्यजनः // 4 // श्रीप्रश्नवाहनकुलाऽम्युनिधिप्रसूतः, क्षोणीतलप्रथितकीर्तिरुदीर्णशाखः / विश्वप्रसाधितविकल्पितवस्तुरुचैः, श्छायाशतप्रचुरनिर्वृतभव्यजन्तुः / / 5 / / वसन्ततिलका। ज्ञानादिकुसुमनिचितः, फलितः श्रीमन्मुनीन्द्रफलवृन्दैः। कल्पद्रुम इव गच्छः, श्रीहर्षपुरीयनामाऽस्ति // 6 // एतस्मिन् गुणरत्नरोहणगिरिगाम्भीर्यपाथोनिधिः, तुङ्गत्वानुकृतक्षमाधरपतिः सौम्यत्वतारापतिः। सम्यग्ज्ञानविशुद्धसंयमतपः स्वाचारचर्यानिधिः, शान्तः श्रीजयसिंहसूरिरभवन्निःसङ्गचूडामणिः // 7 / / रत्नाकरादिवैतस्माच्छिष्यरत्नं बभूव तत्। स वागीशोऽपि नामाऽन्यो, यद्गुणग्रहणे प्रभुः // 8 // श्रीवीरदेवविबुधैः, सन्मन्त्राद्यतिशयप्रवरतोयैः। द्रुम इव यः संसिक्तः, कस्तद्गुणवर्णने विबुधः?|| तथाहि-आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वाऽपि मुदं व्रजन्ति परमां प्रायोऽपि दुष्टा अपि। यद्-वक्प्राऽम्बुधिनियंदुज्ज्वलवचःपीयूषपानोद्यतैः, गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः // 10 // कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभोः, तीर्थ सर्वविदः प्रभावितमिदं, तैस्तैः स्वकीयैर्गुणैः। शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहैः, यस्याऽऽशास्वनिवारितं विचरते श्वेताशुगौरं यशः।।११।। यमुनाप्रवाहविमल-श्रीमन्मुनिचन्द्रसूरिसंपत्।ि अमरसरितेव सकलं, पवित्रितं येन भुवनतलम्॥१२॥ विस्फूर्जत्कलिकालदुस्तरतमःसंतानलुप्तस्थितिः, सूर्येणेव विवेकिभूधरशिरस्यासाद्य येनोदयम्। सम्यग्ज्ञानकरैश्विरन्तनमुनिक्षुण्णः समुयोतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि।।१३।। तच्छिष्यलवप्रायैरवगीतार्थाऽपि शिष्यजनतुष्ट्यै। श्रीहेमचन्द्रसूरिभिरियमनुरचिता प्रकृतवृत्तिः / / 14 / / अनु० अणुओगदारसमास-पुं०(अनुयोगद्वारसमास) अनुयोगद्वाराणां व्यादिसमुदाये, कर्म०१ कर्म। अणुओगधर-पुं०(अनुयोगधर) अनुयोगिके, व्य०३ उ०। "अणुओंगधरो अप्पणो गारवाणि रिहरणत्थं सो ताराण य लज्जाणि रिहरणत्थं" आह अनुयोगकथाम्। नि०चू०२० उ०। अणुओगपर-त्रि०(अनुयोगपर) सिद्धान्तव्याख्याननिष्ठे, जी० 1 प्रतिका अणुओगाणुण्णा-स्त्री०(अनुयोगानुज्ञा) आचार्यपदस्थापनायाम्, पं०व०४ द्वा०('अणुयोग' शब्देऽत्रैवभागे 347 पृष्ठे चैतद्रूपंव्याख्यातम्) अणुओगि(ण)-पुं०(अनुयोगिन) अनुयोगो व्याख्यानं प्ररू-पणेति यावत्, सयत्राऽस्तिा व्याख्यानार्थ क्रियमाणे प्रश्नभेदे, यथा-"चउहिं समएहिं लोगो" इत्यादिप्ररूपणाय 'कइहिं समएहिं' इत्यादि। स्था०६ ठा०। आचार्य, "अणुओगी लोगाणं, किल संसयणासओ दढं होइ"। पं०व०४ द्वा०। अणुओगिय-त्रि०(अनुयोगिक) प्रव्रजिते, नं० "अणु-ओगियवरवसभे, नाइलकुलवंसनंदिकरे'' नं० अणुंधरी-स्त्री०(अणुन्धरी) द्वारवतीवास्तव्यस्याऽर्हन्मित्रस्यभार्यायाम, यस्याः पुत्रस्य जिनदेवस्य आत्मदोषोपसंहारे कथा / आव०४ अ० आ०चून अणुकंप-त्रि०(अनुकम्प) अनुशब्दोऽनुरूपार्थे, ततश्चाऽनुरूपं कम्पते चेष्टत इत्यनुकम्पः। अनुरूपक्रियाप्रवृत्तौ, उत्त०१२ अ० / ग्रन्या