________________ अणुओग ३५८-अभिधानराजेन्द्रः- भाग 1 अणुओगदार प्राज्ञमप्यतिगुपिलतयाऽनुयोगस्य विस्मृतसूत्रार्थमवलोक्य वर्तमानकाललक्षणं युगं चाऽऽसाद्य प्रवचनहितायाऽनुयोगो विभक्तः, पृथक्-पृथक् व्यवस्थापितः / ततश्चतुर्धा कृ तश्चतुर्थकालिक श्रुतादिज्ञानेषु नियुक्तम् / इति नियुक्तिगाथार्थः॥२८॥ "माया य रुदसोमा" इत्यादि पूर्वं मूलावश्यकटीकास्थलेखादार्यरक्षितकथानकमयसेयमिति।(एतच'अजरक्खिय' शब्देऽत्रैव भागे 212 पृष्ठे विन्यस्तं द्रष्टव्यम्) भाष्यकारोऽपि "देविंदवंदिएहिमित्यादि" गाथाभावार्थमाहनाऊण रक्खियजो, मइमेहाधारणासमग्गं पि। किच्छेण धरेमाणं, सुयण्णवं पूसामित्तं पि॥ अइसयकयउवओगो, मइमेहाधारणाइपरिहीणो। नाऊणमेसपुरिसे, खेत्तंकालाणुरूवं च // साणुम्गहोऽणुओगे, वीसुं कासीय सुयविभागेण। सुहगहणाइनिमित्तं, नए वि सुनिगूहिय विभागो॥ स देवेन्द्रवन्दितःश्रीमानार्यरक्षितसूरिर्निजशिष्यं दुर्बलिका पुष्पमित्रमपि कृच्छ्रेण श्रुतार्णवं धारयन्तं ज्ञात्वा विनेयवर्गे सानुग्रहो वक्ष्यमाणकालिकादिश्रुतविभागेन विष्वक् पृथक् चरणकरणाद्यनुयोगानकार्षीदिति सम्बन्धः / कथंभूतं दुर्बलिकापुष्पमित्रम् ? मतिमेधाधारणासमग्रमपि / तत्र'मनु बोधने' मननं मतिरेव, बोधशक्तिः मेधा, धारणा अवधारणाशक्तिः, ताभिः समग्र युक्तमपि, तथाऽतिशयज्ञानकृतोपयोगतया एष्यान् भविष्यतः पुरुषांश्च ज्ञात्वा, कथंभूतान् ? मतिमेधाधारणादि-परिहीणान्, तथा क्षेत्रकालानुरूपं च ज्ञात्वा, न केवलमनुयोगान् पृथगकार्षीत्, तथा नयांश्च नैगमादीन्, अकार्षीदिति वर्तते / कथंभूतान् ? सुष्ठु अति शयेन निगूहितो व्याख्यानिरोधेन छन्नीकृतो विभागो व्यक्त-तापादानरूपो येषां ते निगूहितविभागास्तांस्तथाभूतान् / किमर्थ-म् ? सुखग्रहणादिनिमित्तम् / आदिशब्दाद्धारणादिपरिग्रहः / विशे०। (चरणकरणाधनुयोभेदेनानुयोगचातुर्विध्यमार्यरक्षित-सूरिभिः कृतमिति 'अज्जरक्खिय' शब्देऽत्रैव भागे 214 पृष्ठेदर्शितम्, इहाऽपि उपयुक्तो भागो दर्शितः) अनुरूपोऽनुकूलो वा योगोऽनुयोगः / सूत्रस्य स्वेनाभिधेयेन सार्द्धमनुरूपसंबन्धे तद्पे दृष्टिवादान्तर्गतेऽधिकारे, सास्था०ासच द्विधा से किं तं अणुओगे ? अणुओगे दुविहे पण्णत्ते / तं जहामूल-पढमाणुओगे, गंडियाणुओगे य॥ स च द्विधा-मूलप्रथमानुयोगः,गण्डिकानुयोगश्च / इह मूलं धर्मप्रणयनात्तीर्थकरास्तेषां प्रथम सम्यक्त्वावाप्तिलक्षणपूर्वभवादिगोचरोऽनुयोगो मूलप्रथमानुयोगः / इक्ष्वाक्वादीनां पूर्वापरपरिच्छिन्नो मध्यभागो गण्डिका, गण्डिके व गण्डिका, एकार्थाधिकारा ग्रन्थिपद्धतिरित्यर्थः / तस्यानुयोगो गण्डिकानुयोगः।नं०स०(प्रथमानुयोगगण्डिकानुयोगयोाख्या स्व-स्वस्थाने द्रष्टव्या) णुओगगअ-पुं०(अनुयोगगत) अनुयोगः प्रथमानुयोगः, तीर्थकरादि पूर्वभवादिव्याख्यानग्रन्थः, गण्डिकाऽनुयोगश्च भरतनरपतिवंशजाताना निर्वाणगमनानुत्तरविमानगमनवक्त-व्यताव्याख्यानग्रन्थ इति द्विरूपेऽनुयोगे गतोऽनुयोगगतः / दृष्टि-वादांशभेदे दृष्टिवादान्तर्गतेऽधिकारे, अवयवे समुदायोपचाराद्दृष्टिवादेच। स्था०१०ठा० अणुओगगणाणुण्णा-स्त्री०(अनुयोगगणानुज्ञा) अनुयोगोऽर्थ व्याख्यानम्, गणो गच्छः, तयोरनुज्ञाऽनुमतिः। ध०३ अधिक। अनुयोगगणयोः प्रवचनोक्तेन विधिना स्वतन्त्रानुज्ञाने, पं०व०१ द्वा० / अणुओगतत्तिल्ल-त्रि०(अनुयोगतृप्त) अनुयोगग्रहणैकनिष्ठे, बृ० 1 उ० अणुओगत्थ-पुं०(अनुयोगार्थ) व्याख्यानभूतेऽर्थे, आचा०१ श्रु० १अ०१ उ०। अणुओ गदायय-पुं०-स्त्री०(अनुयोगदायक) सुधर्मस्वामिप्रभृतावनुयोगदायिनि, "वंदित्तु सव्वसिद्धे, जिणे य अणु-ओगदायए सव्वे / आयारस्स भगवओ, नितिं कि राइस्सामि" ||1|| आचा०१श्रु०१ अ०१ उ० अणु ओगदार-न०(अनुयोगद्वार) ब०व०! अध्ययनार्थकथनविधिरनुयोगः / द्वाराणीव द्वाराणि, महापुरस्येव सामायिकस्याऽनुयोगार्थं व्याख्यानार्थ द्वाराण्यनुयोगद्वाराणि / उपक्रमादिषु व्याख्यानप्रकारेषु, अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः / अनु०। उत्त०। यथा हि अकृतद्वारं नगरं नगरमेव न भवति, कृतैकद्वारमपि हस्त्यश्वरथजनसंकुलत्वाद् दुःखसंचार कार्यातिपत्तये च जायते, कृतचतुर्मूलप्रतोलीद्वारं तु सप्रतिद्वारं मुखनिर्गमप्रवेश कार्या-नतिपत्तये च। सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्य-मशक्याधिगमं भवति , कृतैकानुयोगद्वारमपि कृच्छ्रेण द्राधीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं सुखा-धिगममल्पीयसा च कालेनाऽधिगम्यते, ततः फलवान्-नुयोगद्वारोपन्यासः। उक्तंचअणुओगद्दाराई, महापुरस्सेव तस्स चत्तारि। अणुओगो ति तदत्थो, दाराई तस्स उ मुहाई।।१।। अकयद्दारमनगरं, कयेगदारं पि दुक्खसंचारं। चउमूलद्दारं पुण, सप्पडिदारं सुहाहिगमं // 2 // सामाइयपुरमेवं, अकयद्दारं तहेगदारं वा / / दुरहिगमं चउदारं, सप्पडिदारं सुहाहिगमं // 3 // आ०म०प्र०ा विशे० स्था०ा आचा (चत्वारि अनुयोगद्वाराणि अणुओग' शब्दे 355 पृष्ठे ऽनुपदमेवोक्तानि) नन्वादौ उपक्रमः, तदनन्तरं निक्षेपः, तदनन्तरं चानुगमः, ततोऽप्यनन्तरं नय इत्यमीषामनुयोगद्वाराणामित्थं क्रमोपन्यासे किं प्रयोजनमित्याशक्य 'कमप्पओअणाइं च वच्छा' इत्यष्टमं क्रमप्रयोजनद्वारमभिधित्सुराहदारक्कमोऽयमेव उ, निक्खिप्पइ जेण नासमीवत्थं / अणुगम्मइ नाणत्थं, नाणुगमो नयमयविहूणो / संबंधोवकमओ, समीवमाणीय नत्थनिक्खेवं। सत्थं तओऽणुगम्मइ, नएहि नाणाविहाणेहिं॥ एषामनुयोगद्वाराणामयमेवोपन्यासक्रमः, येन नाऽसमीपस्थमनुपक्रान्तं निक्षिप्यते, न च नामादिभिरनिक्षिप्तमर्थ-तोऽनुगम्यते, नाऽपि नयमतविकलोऽनुगमनियतश्च / संबन्धरूप उपक्रमः संबन्धोपक्रमस्तेन संबन्धका उपक्रमेण समीपमानीय न्यासयोग्य विधाय न्यस्तनिक्षेप विहितनामस्थापनादिनिक्षेपं सच्छास्त्रं, ततोऽर्थतोऽनुगम्यते व्याख्यायते नानाविधानै नामे-दैनयस्तस्मादयमेवानुयोगद्वारुमइति क्रमप्रयोजनद्वार समाप्त-मिति ।ओ० नंगाबृतानि चूकाव्याआ०म०द्विणस्या०। कर्म०| सत्पदप्ररूपणतादिषु, विशे० 'संतपयपरूवणया दव्व