________________ अणुओग 357 - अभिधानराजेन्द्रः - भाग 1 अणुओग परिकरभूत इति (दविय त्ति) द्रव्ये द्रव्यानुयोगे किं भवतीत्यत आह(दसणसुद्धि त्ति) दर्शनं सम्यग्दर्शनमभिधीयते, तस्य शुद्धिर्निर्मलता | दर्शनशुद्धिः / एतदुक्तं भवति-द्रव्यानुयोगे सति दर्शनशुद्धिर्भवति, युक्तिभिर्यथावस्थितार्थपरिच्छेदात् / तदत्र चरणमपि युक्त्यनुगतमेव ग्रहीतव्यं, न पुनरागमादेव केवला-दित्याह-दर्शनशुद्ध्यैव / किं तदाह ? दर्शनशुद्धस्यदर्शनं शुद्धं यस्याऽसौ दर्शनशुद्धस्तस्य, चरणं चारित्रं भवतीत्यर्थः / तुशब्दो विशेषणे / चारित्रशुद्धस्य दर्शनमिति / अथवा- प्रकारान्तरेण चरणकरणानुयोगस्यैव प्राधान्यं प्रतिपद्यते / आदिभूतस्याऽपीति / तच दृष्टान्तबलेनाऽचलं भवति, नाऽन्यथेत्यतो दृष्टान्तद्वारेणाऽऽहजह रन्नो विसएसुं, वइरकणगरययलोहे य। चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिन्ना / / 10 / / यथेत्युदाहरणोपन्यासे, राज्ञो विषयेषु जनपदेषु(वइर त्ति) वज्राकरो भवति, वजाणि रत्नानि तेषामाकरः खनिर्वजाकरः / 'चिंतालोहागरिए' इत्यतः सिंहावलोकितन्यायेनाऽऽकरग्रहणं संबध्यते / एतेन कारणेन होइ हुति' स्याद् भवति क्रिया सर्वत्र मीलनीयेति। कनकं सुवर्णं तस्याऽऽकरो भवति तथा द्वितीयः / रजतं रूप्यं तद्विषयश्च तृतीय आकरो भवति / चशब्दः समुचये / अनेकभेदभिन्नरूपानाकरान् समुचिनोति (लोहे य ति) लोहम्-अयः, तस्मिन् लोहे, लोहविषयश्चतुर्थ आकरो भवति / चशब्दो मृदुकठिनमध्यलोहसमुच्चायकः 'चत्तारि' इति संख्या / आक्रियन्त एतेष्वित्याकराः, तथा च मर्यादया अभिविधिना वा क्रियन्ते वजादीनि येष्विति / खलुशब्दो विशेषणे। किं विशिनष्टि ? सविषयाः सहस्रादयश्चाऽतः पुत्रेभ्यो ददतश्चतुर्णा पुत्राणां सुतानांत इत्याकराः, दत्ता विभक्ता इत्यर्थः // 10 // अधुना प्रधानोत्तरकालं यत्तेषां, तदुच्यतेचिंता लोहागरिए, पडिसेहं कुणइ सो उ लोहस्स। वइरादीहि य गहणं, करेंति लोहस्स ते इतरे / / 11 / / लोहाऽऽकरोऽस्याऽस्तीति लोहाकरिकः तस्मिन् लोहाकरिके चिन्ता भवति-'राज्ञा परिभूतोऽहं येन ममाऽप्रधान आकरो दत्त, एवं चिन्तायां सत्यां सुबुद्धयभिधानेन मन्त्रिणाऽभिहितः-देव!मा चिन्तां कुरु, भवदीय एव प्रधान आकरो, न शेषा आकरा इति / कुत एतदवसीयते? यदि भवत्संबन्धिलोहाकरो न भवति, तदानीं शेषाऽऽकराऽप्रवृत्तिःलोहोपकरणाभावान्न प्रवृत्तिरिति / ततो निहिं भवान् कारयतु कतिचिहिनानि, यावदुपक्षयं प्रतिपद्यते तेषूपकरणजातं, पुनः सुमहार्घमपि ते लोहं ग्रहीष्यन्ते इत्यत आह-(पडिसेहमित्यादि) प्रतिषेधोदाहरणात्तं प्रतिषेधं करोत्यसौ,लोहंप्रतीतमेव,तस्य लोहस्य। तुशब्दो विशेषणेन केवलमनिहिं करोति अपूर्वोत्पादनिरोधं च / ततश्चैवंकृते शेषाकरेषूपस्करः क्षयं प्रतिप्रन्नः, ततस्तेऽवज्ञादिभिः ग्रहणं कुर्वन्ति। कस्येत्यत आह-लोहस्य / के कुर्वन्ति? इतरे वज्राकरिकादयः चशब्दात् केवलं वज्रादिभिर्हस्त्यादिभिश्च / अत्र कथानकं स्पष्टत्वान्न लिखितम्। अयं दृष्टान्तः / सांप्रतं दान्तिकयोजना क्रियते- यथाऽसौ लोहाकर आधारभूतः शेषाकराणाम्,तत्प्रवृत्तौ शेषाणामपि प्रवृत्तेः / एवमन्यत्राऽपि, चरणकरणानुयोगे सति शेषानुयोगसद्भावः / तथाहिचरणव्यवस्थितः शेषानुयोगग्रहणे समर्थो भवति, नान्यथेत्य-स्याऽर्थस्य प्रतिपादनार्थं गाथामाहएवं चरणम्मि ठिओ, करेइ गहणं विहिय इयरेसिं। एएण कारणेणं, चरणाणुओगो महड्डीओ।।१२।। एवमित्युपनयग्रन्थः (चरणम्मि ति) चर्यत इति चरणं, तस्मिन्, व्यवस्थितः करोति विधिना ग्रहणमितरेषामिति द्रव्यानुयोगादीनां, तदनेन कारणेन भवति चरणं महर्द्धिकम्, तुशब्दादन्येषां च गुणानां समर्थो भवतीति। ओ० दशा (23) कियन्तं कालं यावत्पुनरिदमपृथक्त्वमासीत्, कुतो वापुरुषविशेषादारभ्य पृथक्त्वमभूदित्याहजावंति अज्जवइरा, अपुहत्तं कालियाणुओगस्स। तेणारेण पुहत्तं, कालियसुयदिट्ठिवाए य॥२७७।। यावदार्यवैरा गुरुवो महामतयस्तावत्कालिक श्रुतानुयोगस्याऽपृथक्त्वमासीत्, तदा व्याख्यातॄणां श्रोतॄणां च तीक्ष्णप्रज्ञ-त्वात्। कालिक ग्रहणं च प्राधान्यख्यापनार्थम्, अन्यथोत्कालि-केऽपि सर्वत्र प्रतिसूत्रं चत्वारोऽपि अनुयोगास्तदानीमासन् न वेति तदाऽऽरतस्त्वार्यरक्षितेभ्यः समारभ्य कालिकश्रुते दृष्टिवादे वाऽनुयोगानां पृथक्त्वमभूदिति नियुक्तिगाथार्थः // 277|| भाष्यम्अपुहत्तथमासि वइरा, जावंतिपुहत्तमारओऽभिहिए। के ते आसि कया वा, पसंगओ तेसिमुप्पत्ती / / 278|| आर्यवैराद्यावदपृथक्त्वमासीत्, तदाऽऽरतस्तु पृथक्त्वमुक्तम् / एतस्मिंश्चाभिहिते- क एते आर्यवैराः ? कदा च ते आसन्निति विनेयपृच्छायां प्रसङ्गत आर्यवैराणामुत्पत्तिरुच्यते / इति गाथार्थः // 278 / / (एतच्चरितं तु अज्जवइर' शब्देऽत्रैव भागे 216 पृष्ठे द्रष्टव्यम्) सविशेषमाहअपुहत्ते अणुओगो, चत्तारि दुवार भासई एगो। पुहत्तऽणुओगकरणे, ते य तओ वावि वोच्छिन्ना // 27 // आर्यवैराद्यावदपृथक्त्वे सति सूत्रव्याख्यारूप एकोऽप्यनुयोगः क्रियमाणः प्रतिसूत्रं चत्वारि द्वाराणि भाषते, चरणकरणादींश्चतुरोऽप्यर्थान् प्रतिपादयतीत्यर्थः / पृथक्त्वानुयोगकरणे तु ते चरणकरणादयोऽर्थाः ततोऽपि पृथक्त्वानुयोगकरणादेव, व्यव-च्छिन्नाः, तत्प्रभृत्येक एव चरणकरणादीनामन्यतरोऽर्थः प्रतिसूत्रं व्याख्यायते, न तु चत्वारोऽपीत्यर्थः / इति नियुक्तिगाथार्थः / / 267 // अथ यैरनुयोगाः पार्थक्येन व्यवस्थापितास्तेषामार्यरक्षितसूरी__णामुत्पत्तिमभिधित्सुर्भाष्यकारः सम्बन्धगाथामाहकिं वइरेहिं पुहत्तं, कयमह तदनंतरेहिँ भणियम्मि / तदणंतरेहिं तदभिहि-यगहियसुत्तत्थसारेहिं // 280 / / विनेयः पृच्छति-नन्वर्यवैराद्यावदपृथक्त्वमित्युक्तं ततः किमार्य वैरैरेव? कृतं तत्, किं वा तदनन्तरैरार्यरक्षितसूरिभिरित्येवमुभयथा-ऽपि यावच्छब्दार्थोपपत्तेः / इति शिष्येण भणिते गुरुराह-तदनन्तरैरेवार्यरक्षितसूरिभिरनुयोगानां पृथक्त्वमकारि। कथं- भूतैस्तैः ? आर्यवरेणाऽभिहितः प्रतिपादितो गृहीतः सूत्रार्थसारो यैस्ते तथा, तैरार्यवैरसमीपेऽधीतसूत्रोभयरित्यर्थः / इति गाथार्थः / / 280|| पुनरपि कथंभूतैः किं नामकैश्च तैरित्याहदेविंदवंदिएहिं, महाणुभावेहिँ रक्खियजेहिं। जुगमासज्ज विभत्तो, अणुओगो तो कओ चउहा।।२८१।। देवेन्द्रवन्दितैर्महानुभावैरार्यरक्षितैः दुर्बलिकपुष्पमित्रं