________________ अणुओग 356 - अभिधानराजेन्द्रः - भाग 1 अणुओग इसिभासियाइँ तइयो य सूरपन्नत्ती। सव्वोय दिहिवाओ, चउत्थओहोइ अणुओगो" ||1|| इति गाथार्थः / इह चौघतोऽनुयोगो द्विधा अपृथक्त्वाऽनुयोगः पृथक्त्वाऽनुयोगश्च / तत्राऽपृथक्त्वानुयोगो यत्रै कस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तागमपर्यायत्वात्सूत्रस्य / पृथक्त्वा ऽनुयोगश्च यत्र क्वचित् सूत्रे चरणकरणमेव, क्वचित्पुनर्धर्मकथा वेत्यादि / दश०१ अ०। चरणकरणाद्यनुयोगाः "ओहेण उ णि-अत्तिं, योच्छं चरणकरणाणुओगाओ" इति नियुक्ति-गाथायाश्चरणकरणस्येति वक्तव्ये शैली त्यक्त्वा पञ्चम्या निर्देशं कुर्वन्नाचार्य एतज्ज्ञापयतिसन्त्यन्येऽप्यनुयोगा इति / तदत्राऽऽह-'चरणकरणानुयोगाद् वक्ष्ये नाऽन्याऽनुयोगेभ्यः' इति। तथा षष्ठी द्विविधा दृष्टा-भेदषष्ठी, अभेदषष्ठी चातत्र भेदषष्ठी यथा-देवदत्तस्य गृहम्।अभेदषष्ठी यथा-तैलस्यधारा, शिलापुत्रकस्य शारीरकमिति। तद् यदि षष्ठ्या उपन्यासः क्रियते, ततो न ज्ञायते, किं चरणकरणानुयोगस्य भिन्नामोघनियुक्तिं वक्ष्ये, यथादेवदत्तस्य गृहमिति, आहोस्विदभिन्नां वक्ष्ये, यथा तैलस्य धारेत्यस्य संमोहस्य निवृत्त्यर्थं पञ्चम्या उपन्यासः कृत इति / एवं व्याख्याते सत्यपरस्त्वाह-अस्तीत्येकवचनम्, अनुयोगा बहवश्व, तत्कथं बहुत्वं प्रतिपादयति ? उच्यते-अस्तीति तिङन्त-प्रतिरूपकमव्ययम्। अव्ययं च-"सदृशं त्रिषु लिंङ्गैषु, सर्वासु च विभक्तिषु / वचनेषु च सर्वेषु, यन्न व्येति तदव्ययम्"। ततो बहुत्वं प्रतिपादयत्येवेत्यदोषः। अथवा- व्यवहितः संबन्धोऽस्तिशब्दस्य, कथमिदम् ? चोदकवचनम्। षष्ठी सम्बन्धे किमिति न भवति विभक्तिः? आचार्य आह-अस्ति षष्ठीविभक्तिः। पुनरप्याहयद्यस्ति ततः पञ्चमी भणिता किम् ? आचार्य आहअन्येऽप्यनुयोगाश्चत्वारः, अतः षष्ठी विद्यमानाऽपि नोक्तेति भावना पूर्ववत्। अन्येऽपि अनुयोगाः सन्तीत्युक्तम्, न च ज्ञायन्ते कियन्तोऽपि ते ? इत्यत्र प्रतिपादयन्नाहचत्तारि उ अणुओगा, चरणे धम्मगणियाणुओगे य। दवियऽणुओगे य तहा, जहक्कम ते महड्डीया / / 7 / / चत्वार इति संख्यावचनः शब्दः, अनुकूला अनुरूपा वा योगा अनुयोगाः / तुशब्द एक्कारार्थः। चत्वार एवते।अन्ये तुतुशब्दं विशेषणार्थं व्याख्यानयन्ति। किं विशेषयन्तीति चत्वारोऽनुयोगाः, तुशब्दाद् द्वौ च, पृथक् पृथक् भेदात् / कथं चत्वारोऽनुयोगा :? इत्याह-(चरणे धम्मगणियाणुओगे य) चर्यत इति चरणं, तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन् चरणानुयोगे। अत्र चोत्तर-पदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोग इत्येवं वक्तव्यम् / स च एकादशाङ्गरूपः / (धम्मे ति) धारयतीति धर्मः दुर्गतौ प्रपतन्तं सत्त्वमिति, तस्मिन् धर्म, धर्मविषयो द्वितीयोऽनुयोगो भवति / स चोत्तराध्ययनप्रकीर्णकरूपः ।(गणियाणुयोगे य त्ति) गण्यत इति गणितम्, तस्यानुयोगो गणितानुयोगः, तस्मिन्, गणितानुयोगविषयस्तृतीयो भवति / स च सूर्यप्रज्ञप्त्यादिरूपः / चशब्दः प्रत्येकमनुयोगपदसमुचायकः / (दवियाणुयोगे यत्ति) द्रवतीति द्रव्यम्-तस्यानुयोगो द्रव्यानुयोगः, सदसत्पर्या-यालोचनारूपः, स च दृष्टिवादः / चशब्दादनार्षः सम्मत्यादिरूपश्च तयेतिक्रमप्रतिपादकः, आगमोक्तेन प्रकारेण यथाक्रम यथा-परिपाट्येति चरणकरणानुयोगाद्या महर्द्धिकाः प्रधाना इति यदुक्तं भवति / एवं व्याख्याते सत्याह-(चरणे धम्मगणियाणुओगे य दवियऽणुओगे यति) यद्येतेषां भेदेनोपन्यासः क्रियते, तत्किमर्थं चत्वार इत्युच्यते? विशिष्टपदोपन्यासादेवाऽयमर्थोऽवगम्यत इति / तथाचरणपदं भिन्नया विभक्तया किमर्थमुपन्यस्तम् ? धर्म-गणितानुयोगौ तु एकयैव विभक्तया, पुनर्द्रव्यानुयोगो भिन्नया विभक्त्येति, तथाऽनुयोगशब्दश्च एक एवोपन्यसनीयः, किमर्थं द्रव्यानुयोग इति भेदेनोपन्यस्त इति ? अत्रोच्यते-यत्तावदुक्तं चतुर्ग्रहणं न कर्त्तव्यं, विशिष्टपदोपन्यासात् / तदसत् / यतो न विशिष्टपदोपन्यासे विशिष्टसङ्ख्याऽवगमो भवति, विशिष्ट पदोपन्यासेऽपि कुतश्चरणधर्मगणितद्रव्यपदानि सन्तीति, अन्यान्यपि सन्तीति संशयो मा भूत् कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति। तथा यचोक्तम्-भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तं, तत्रैतत् प्रयोजनम्, चरणकरणानुयोग एवा नाऽधिकृतप्राधान्यख्यापनार्थ भिन्नया विभक्त्या उपन्यास इति / तथा धर्मगणितानुयोगी एकविभक्त्योपन्यस्तौ,अत्र प्रक्रमे अप्रधानावेताविति। तथा द्रव्यानुयोगे च भिन्नविभक्त्योपन्यासे प्रयोजनम्। अयं हि एकैकानुयोगे मीलनीयः, न पुनर्लोकिक-शास्त्रवद् युक्तिभिर्विचारणीय इति / तथाऽनुयोगे शब्दद्वयोपन्यासे प्रयोजनमुच्यते। यत् त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्तं तदपृथक्त्वाऽनुयोगप्रतिपादनार्थम्, यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगप्रतिपादनार्थमिति / एवं व्याख्याते सत्याह परः इह गाथाः, तत्र पर्यायत इदमुक्तम्-'यथाक्रमं ते महर्द्धिकाः' इति। एवं तर्हि चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य नियुक्तिः क्रियते ? अपि तु द्रव्यानुयोगस्य युज्यते कर्तुम्, सर्वेषामेव प्रधानत्यात् / एवं चोदकेनाऽऽक्षेपे कृते सत्युच्यतेसविसयबलवत्तं पुण, जुज्जइ तह वि य महड्डियं चरणं। चारित्तरक्खणट्ठा, जेणियरे तिन्नि अणुओगा ||8|| स्वश्वाऽसौ विषयश्च स्वविषयः, तस्मिन् स्वविषये, बलवत्त्वं पुनर्युज्यते घटते। एतदुक्तं भवति-आत्माऽऽत्मीयविषये सर्व एव बलवन्तो वर्तन्त इति / एवं व्याख्याते सत्यपरस्त्वाह- यद्येवं सर्वेषामेव नियुक्तिकरणं प्राप्तम्, आत्माऽऽत्मीयविषये सर्वेषामेव बलवत्त्वात्, तथापि चरणकरणानुयोगस्य न कर्त्तव्येति। एवं चोदकेनाऽऽशङ्किते सत्याह गुरु:(तह वि य महड्डियं चरणं) तथाऽप्येवमपि स्वविषये बलवत्त्वेऽपि सति महर्द्धिकं चरणमेव, शेषानुयोगानां चरणकरणानुयोगार्थमेवोपादानतः पूर्वोऽत्यन्तसंरक्षणार्थ पूर्वप्रति-पत्त्यर्थं च / शेषाऽनुयोगा अप्यैवंवृत्तिभूताः / यथा हि कर्पूरखण्डार्थं वृत्तिरुपादीयते, तत्र हि कर्पूरखण्ड प्रधानं न पुनर्वृत्तिः / एवमत्राऽपि चारित्ररक्षणार्थ शेषाऽनुयोगाना-मुपन्यासः। तथा चाह-(चारित्तरक्खणट्ठा जेणियरे तिन्नि अणुओगा) चरित्रमेव चारित्रं,तस्य रक्षणं, तदर्थं चारित्ररक्षणार्थ, येन कारणेन इतर इति धर्मानुयोगादयस्त्रयोऽनुयोगा इति / एवं व्याख्याते सत्याह-कथं चारित्ररक्षणमिति चेत् तदाहचरणपडिवत्तिहेऊ,धम्मकहा कालदिक्खमाईया। दविए दंसणसुद्धी, सणसुद्धीअचरणं तु || चर्यते इति चरणं व्रतादि, तस्य प्रतिपत्तिः चरणप्रतिपत्तिः / चरणप्रतिपत्तेः हेतुः कारणं निमित्तमिति पर्यायाः। किं तदाह-धम्मकथा, दुर्गतौ प्रपतन्तं सर्वसंघातं धारयतीति धर्मः, तस्यं कथा कथनं, कथाचरणप्रतिपत्तिहेतुः धर्मकथा। तथाहिआक्षेपण्यादिधर्मकथा-ऽऽक्षिप्ताः सन्तोभव्यप्राणिनश्चारित्रं प्राप्नुवन्ति (काले दिक्खमादीय त्ति)कलनं कालः, कालसमूहोवाकालः, तस्मिन्काले, दीक्षादयः दीक्षणं दीक्षा प्रव्रज्याप्रदानम्, आदिशब्दादुपस्थापनादिपरिग्रहः / तथा च शोभनतिथिनक्षत्रमुहूर्त्तयोगादी प्रव्रज्याप्रदानं कर्तव्यम् / अतः कालानुयोगोऽप्यस्यैव