________________ अणुओग 355 - अभिधानराजेन्द्रः - भाग 1 अणुओग एवेत्यादि / तदयुक्तम् / यतो नाऽवश्यकनन्द्यध्ययनं व्याख्याय तदिदं व्याख्येयमिति नियमोऽस्ति, कदाचिदनुयोगद्वारव्या-ख्यानस्यैव प्रथमं प्रवृत्तेः / अनियमज्ञापकश्चाऽयमेव सूत्रोपन्यासः, अन्यथा ह्यङ्ग बाह्यत्वेऽस्य तत्रैव निश्चितः, किमिहाऽङ्गाऽनङ्ग प्रविष्टचिन्तासूत्रोपन्यासेनेति? अधुना तद्द्वारं वक्तव्यम्। यदाहतस्स णं इमे चत्तारि अणुओगदारा भवंति / तं जहा उवक्कमे 1, णिक्खेवे 2, अणुगमे 3, णए 5, 1 अनु०॥ इदानीं भेदद्वारं तेषामेव द्वाराणामानुपूर्वी नाम प्रमाणादिकोऽत्रैवोक्तस्वरूपो भेदो वक्तव्यः। (16) तथाऽनुयोगस्य लक्षणं वाच्यम् - यदाह"संधिया य पदं चेव, पयत्थो पयविग्गहो। चालणा य पसिद्धी य,छविहं विद्धि लक्खणं" || प्रश्ने कृते सति (पसिद्धि त्ति) चालनायां सत्यां प्रसिद्धिः समाधानम् (विद्धि त्ति) जानीहि / व्याख्येयसूत्रस्य च "अलियमुग्घायजणयमित्यादि'' द्वात्रिंशद्दोषरहितत्वादिकं लक्षणं वक्तव्यम्। अनु० (20) यथोक्तगुणयुक्तस्य सूत्रस्य कोऽर्हः? इत्यनेन संबन्धेन तदर्हद्वारमापतितम् / तत्र सोऽर्ह उण्डिकाऽऽदिदृष्टान्तस्योपनयभूतः, तत आहउंडिय भूमी पेढिय, पुरिसग्गहणं तु पढमओ काउं। एवं परिक्खियम्मी, दायध्वं वान वा पुरिसे॥ नवे नगरे निवेश्यमाने प्रथमत उण्डिकापातस्य योग्या भूमिस्तस्य तत्प्रदानार्थमुद्रा पात्यते, ततो भूमिशोधनं, तदनन्तरं पीठिका, एवमत्राऽपि प्रथमतः पुरुषग्रहणं कृत्वा तदनन्तरं परीक्षा कर्तव्याकिमयमपरिणामकोऽतिपरिणामकः, परिणामको वेति ? एवं पुरुषे परीक्षिते दातव्यं, न वा अपरिणामके, अतिपरिणामके वा नदातव्यम्, परिणामके दातव्यमिति गाथासंक्षेपार्थः। . सांप्रतमेनामेव विवरीषुराहअभिनवनगर निवेसे, समभूमिविरेयणऽक्खरविहिन्नू। पाडेइ उंडियाओ, जा जस्स हाणसोहणया / / खणणं कुट्टण ठवणं,पीढं पासाय रयण सुहवासो। इअ संजमनगरुंडिय-लिंग मिच्छत्तसोहणयं // वरि इट्टगठवणनिभा, पेढे पुण होइ जाव सूयगडं। पासाय जहिं पगयं, रयणनिभा हुंति अत्थपया। अभिनवे नगरे निवेश्यमाने प्रथमतो भूमिः परीक्ष्यते, परीक्ष्य च तस्याः समभूमिविरेचन विधीयते / तदनन्तरमक्षरविधिज्ञो या यस्य योग्या भूमिस्तस्य तस्याः प्रदानार्थमुण्डिका अक्षरसंहिताः मुद्रिकाः पातयति। ततः स्वस्थानस्यशोधनता-शोधनम्।ततः स्वस्याः स्वस्याः भूमेः खननं, तदनन्तरं द्रुघणैरिष्टकाशकलानि प्रक्षिप्य तेषां कुट्टनं, ततस्तस्योपरि इष्टकानां स्थापनं, तदनन्तरं यावत् सूत्रं तावत् पीठ, ततस्तस्य पीठकस्योपरि प्रासादकरणं, तदनन्तरं तेषां प्रासादानां रत्नैरापूरणं, ततः सुखेन वासः परि-वसनम्। एष दृष्टान्तः। अयमर्थोपनयः * भूमीग्रहणस्थानीयं पुरुषग्रहणं, शुद्धं पुरुष परीक्ष्य तस्य प्रव्रज्यादानमित्यर्थः / तत'इति एवमुक्तप्रकारेण नगरस्थानीये संयमे स्थाप्यते, तत उण्डिकास्थानीयं रजोहरणादि लिङ्गं दीयते,तदनन्तरं मिथ्यात्वस्य ज्ञानस्य च कचवरस्थानीयस्य शोधनं, ततः शोधयित्वा मिथ्यात्वं समूलमुत्खन्य स्थिरीकरणनिमित्तं सम्यक्त्वद्रुधणैर्यच्छेषमवतिष्ठते मिथ्या-त्वपुद्गलात्मकवत् कुट्टयित्वा भस्मच्छन्नाऽग्निमिव कृत्वा / तत उपरि इष्टकास्थापननिभानि व्रतानि दीयन्ते, तत आवश्यकमादि कृत्वा यावत् सूत्रकृतं तावत् पीठं भवति, ततो यकाभ्यां प्रकृतं तौ कल्पव्यवहारौ प्रासाद-स्थानीयौ दीयेते, तत्राऽर्थपदानि यानि, तानि रत्ननिभानि। गतं तदर्हद्वारम्।बृ०१ उ०ा तथा तस्यैवानुयोगस्य परिषद् वक्तव्या(सा च 'सेलघणकुडग') इत्यादिदृष्टान्तैः परीक्षितव्येति 'सीस' शब्दे, ज्ञापिकादिका च त्रिविधा पर्षत् 'परिसा' शब्दे वक्ष्यते) (21) संप्रति कयाऽधिकार इति प्रतिपादयतिछत्तंतिआए पगयं, जइ पुण सा होजिमेहिं उववेया। तो देति जेहिं पगयं, तदभावे ठाणमादीणि // अत्र छत्राऽन्तिकया पर्षदा प्रकृतमधिकारः, शेषाः पर्षद उच्चरितसदृशा इति प्ररूपिताः / तत्र यदि सा छत्रान्तिका पर्षद् एभिर्वक्ष्यमाणैर्गुणैरुपेता भवति, तदायकाभ्यामत्र प्रकृतं तवको व्यवहारौ सूरयो ददति, तदभावे वक्ष्यमाणगुणाभावे स्थानादीनि, आदिग्रहणेन प्रकीर्णकानां परिग्रहः। अथ के ते गुणाः? इत्यत आहबहुस्सुए चिरपव्वइए, कप्पिए य अचंचलो। अवहिए य मेहावी, अपरिभाविओ विउ।। पत्ते य अणुण्णाते, भावतो परिणामगे। एयारिसे महाभागे, अणुओगं सोउमरिहइ॥ बहुश्रुतश्चिरप्रव्रजितः, कल्पिकोऽचञ्चलः, अवस्थितो, मेधावी, अपरिभावी, यश्च विद् विद्वान् प्रभूताऽशेषशास्त्रपरिमलितबुद्धिः, (पत्ते यत्ति) पात्रं प्राप्तो वा तथाऽनुज्ञातः सन् भावतश्च परिणामकः, एतादृशो महाभागोऽनुयोगं श्रोतुमर्हति, सामथ्र्थात् कल्पव्यवहारयोः / एष द्वारगाथाद्वयसंक्षेपार्थः / बृ०१ उ०(बहुश्रुताऽऽदीनां तिन्तिणिकादीनां च व्याख्या स्वस्वस्थाने द्रष्टव्या) एतत्सर्वमभिधाय ततः सूत्राऽर्थो वक्तव्यः। (22) सोऽनुयोगश्चतुर्विधो भवति - सुयनाणे अणुओगेणऽहिगयं सो चउव्विहो होइ। चरणकरणानुयोगे, धम्मं काले य दविए य॥ कथम् ? चरणकरणाऽनुयोगः,चर्यत इति चरणं व्रतादि, यथोक्तम्"वय समणधम्म संजम, वेयावच्चं च बंभ गुत्तीओ। णाणदितियं तवकोहनिग्गहादी चरणमे यं" ||1|| क्रियत इति करणं - पिण्डविशुद्ध्यादि। उक्तं च-"पिंडविसोही समिई, भावणपडिमाइ इंदियनिरोहो / पडिलेहणगुत्तीओ, अभिग्गहा चेव करणं तु // 1 // चरणकरणयोरनुयोगश्चरणकरणानुयोगः / अनुरूपो योगोऽनुयोगः सूत्रस्याऽर्थेन सार्द्धमनुरूपः संबन्धो व्याख्यानमित्यर्थः। एकारान्तः शब्दः प्राकृतशैल्या प्रथमा-द्वितीयान्तोऽपि द्रष्टव्यः। यथा-"कयरे आगच्छइ दित्तरूवे" इत्यादि। धर्म इति धर्मकथाऽनुयोगः / काले चेति कालाऽनुयोगश्च गणिताऽनुयोगश्चेत्यर्थः / द्रव्यं चेति द्रव्याऽनुयोगश्च / तत्र कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितानि उत्तराऽध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादिर्गणिताऽनुयोगः, दृष्टिवादस्तु द्रव्याऽनुयोगः इति / उक्तं च-"कालियसुयं च