________________ अणुओग 354 - अभिधानराजेन्द्रः - भाग 1 अणुओग तत्थ चत्तारि नाणाई ठप्पाइं ठविणिजाई,णो उहिस्संति,णो समुहिस्संति,णो अणुण्णविज्जति / सुयनाणस्स उद्देसो समुद्देसोअणुण्णा अणुओगो य पवत्तइ। (तत्थेत्यादि) तत्र तस्मिन् ज्ञानपञ्चके आभिनियोधिकाऽवधिमनःपर्यायकेवलाख्यानि चत्वारि ज्ञानानि (ठप्पाइंति) स्थाप्यान्यसंव्यवहार्याणि / व्यवहारनये हि यदेव लोकस्योपकारे वर्त्तते तदेव संव्यवहार्य मन्यते। लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्तिप्रवृत्तिद्वारेण प्रायः श्रुतमेव साक्षादत्यन्तोपकारि / यद्यपि वेचलादिदृष्टमर्थं श्रुतमभिधत्ते, तथापि गौणवृत्त्या तानि लोकोपकारीणीति भावः। यद्युक्तन्यायेनाऽसंव्यवहार्याणि तानि, ततः किमित्याह- (ठवणिज्जाइंति) ततः स्थापनीयानि एतानि तथाविधोपकाराऽभावतोऽसंव्यवहार्यत्वात्तिष्ठन्ति, न तैरिहोद्देशसमुदेशाद्यवसरेऽधिकार इत्यर्थः / अथवा स्थाप्या-न्यमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, नहि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनि प्रतिपादयितुं समर्थानि / शब्द-श्वाऽनन्तरमेव श्रुतत्वेनोक्त इति स्वपरस्वरूपप्रतिपादने श्रुतमेव समर्थम, स्वरूपकथनं चेदम्, अतः / स्थाप्यानि अमुखराणि यानि चत्वारि ज्ञानानि तानीहाऽनुयोगद्वारविचारप्रक्रमे / किमित्याह अनुपयोगित्वात्स्थापनीयान्यनधिकृतानि, यत्रैव युद्देशसमुद्देशाऽनुज्ञादयः क्रियन्ते, तत्रैवाऽनुयोगः, तद्वाराणि चोपक्रमादीनि प्रवर्तन्ते / एवंभूतं त्वाचारादि-श्रुतज्ञानमेवेत्यत उद्देशाद्यविषयत्वादनुपयोगीनि शेषज्ञानानि इत्यतोऽत्राऽनधि-कृतानि / अत्राह- अनुयोगो व्याख्यानम्, तच शेषज्ञानचतुष्टयस्याऽपि प्रवर्तत एवेति कथमनुपयोगित्वम् ? ननु समयचर्याऽनभिज्ञता-सूचकमेवेदं वचः, यतस्तत्राऽपि तज्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति, श्रुतस्यैवाऽनुयोगप्रवृत्तिरिति। अथवा स्थाप्यानि गुर्वनधीतत्वेनोद्देशाद्यविषयभूतानि। एतदेव विवृणोति- स्थापनीयानि इत्येकार्थों द्वावपि / इदमुक्तं भवति- अनेकार्थ-त्वादतिगम्भीरत्वाद् विविधमन्त्राद्यतिशयसम्पन्नत्याच प्रायो गुरूप-देशाऽपेक्षंश्रुतज्ञानम्, तच गुरोरन्तिके गृह्यमाणं परमकल्याण-कोशत्वादुद्देशादिविधिना गृह्यत इति / तस्योद्देशादयः प्रवर्तन्ते, शेषाणि तु चत्वारि ज्ञानानि तदावरणकर्मक्षयोपशमाभ्यां स्वत एव जायमानानि नोद्देशादिप्रक्रममपेक्षन्ते। यतश्चैवमत आह-'नो उदिसिजंतीत्यादि / नो उद्दिश्यन्ते, नो समुद्दिश्यन्ते, नो अनुज्ञायन्ते। अनु०॥ एवं श्रुतस्यैव उद्देशादयः प्रवर्तन्ते, न शेषज्ञानानाम् / अत्र चाऽनुयोगेनैवाऽधिकारो,न शेषैः। अनुयोगद्वारविचारस्यैवेह प्रक्रान्तत्वात्। अत्र यथाऽभिहितमुपजीव्याऽऽह शिष्यः जइ सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ, किं अंगपविट्ठस्स उद्देसो अणुण्णा अणुओगो य पवत्तइ, किं अंगबाहिरस्स उद्देसो समुद्देसो अणुण्णा अणुओगोय पवत्तइ ? अंगपविट्ठस्स वि उद्देसोजाव पवत्तइ, अणंगपविट्ठस्स वि उद्देसो जाव पवत्तइ / इमं पुण पट्ठवणं पडुच्च अणंगपविट्ठस्स अणुओगो / जइ अणंगपविट्ठस्स अणुओगो, किं कालिअस्स अणुओगो, उक्कालिअस्स अणुओगो ? कालिअस्स वि अणुओगो, उक्कालिअस्स वि अणुओगो। इमं पुण पट्ठवणं पडुच उक्कालिअस्स अणुओगो / जइ उक्कालिअस्स अणुओगो, किं / आवस्सगस्स अणुओगो, आवस्सगवतिरित्तस्स अणुओगो ? | आवस्सगस्स वि अणुओगो, आवस्सगवितिरित्तस्स वि अणुओगो। (यदीत्यादि) यद्युक्तक्रमेण श्रुतज्ञानस्योद्देशः समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्तते, तर्हि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताऽङ्ग बाह्यस्येति ? तत्राऽङ्गेषुप्रविष्टमन्तर्गतमङ्ग प्रविष्ट श्रुत-माचारादि, तद्बाह्यमुत्तराध्ययनादि / अत्र गुरुर्निर्वचनमाह-(अंगपविठ्ठस्स वीत्यादि) अपिशब्दी परस्परसमुच्चयार्थौ / अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्तते, तद्बाह्यस्याऽपि / इदं पुनः प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्याऽऽश्रित्याऽङ्गबाह्यस्य प्रवर्तते, नेतरस्य / आवश्यकं यत्र व्याख्यास्यते, तचाऽङ्गबाह्यमेवेति भावः / अत्राऽङ्ग बाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह-(जइ अंगबाहिरस्सेत्यादि) यद्यङ्ग बाह्यस्योद्देशादिः, किमसौ कालि- कस्य प्रवर्तते, उत्कालिकस्य वा ? द्विधाऽप्यङ्गबाह्यस्य संभवा-दिति भावः / तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते, नाऽन्यत्रेति कालिकमुत्तराध्ययनादि / यत्तु कालवेलामात्रवर्ज शेषकालाऽनियमेन पठ्यते, तदुत्कालिकमावश्यकादि। अत्र गुरुः प्रतिवचनमाह (कालियस्स वीत्यादि) कालिकस्याऽप्यसौ प्रवर्तते , उत्कालिकस्याऽपि। इदं पुनः प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्य उत्कालिकस्य मन्तव्यम् / आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम् / उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति- (जइ उक्कालियस्सेत्यादि) यदिउत्कालिस्योद्देशादिस्तत्किमावश्यकस्याऽयं प्रवर्तते? अथवा-ऽऽवश्यकव्यतिरिक्तस्य ? उभयथाऽप्युत्कालिकस्य संभवा-दिति। परमार्थस्तत्र श्रमणैः श्रावकैश्चौभयसन्ध्यमवश्यंकरणादावश्यकं सामायिकादिषडध्ययनकलापः / तस्मात्तु व्यतिरिक्तं भिन्नंदशवैकालिकादि। गुरुराह-(आवस्सगस्स वीत्यादि) द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किन्त्विदं प्रस्तुतं प्रस्थापनं प्रारम्भ प्रतीत्याऽऽवश्यकस्याऽनुयोगो, नेतरस्या सकलसामाचारीमूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्। उद्देशसमुद्देशाऽनुज्ञास्त्यावश्यके प्रवर्तमाना अप्यत्र नाऽधिकृताः, अनुयोगाऽवसरत्वात् / अतस्तत्परिहारेणोक्तम्-(अणुओगो त्ति) अनु०। इमं पुण पट्ठवणं पडुच आवस्सगस्स अणुओगो / जइ आव स्सगस्स अनुओगो, कि अंग अंगाई, सुअखं धो सुअखं धा,अज्झयणं अज्झयणाइ, उद्दे सो उद्देसा ? आवस्सयस्सणं नो अंग, नो अंगाई। सुअखंधो, नो सुअखंधा। अज्झयणं, नो अज्झयणाई,नो उद्देसो, नो उद्देसा। इदं पुनः प्रस्थापनं प्रतीत्यावश्यकस्याऽनुयोग इति पुनरपि आह (जइ आवस्सगस्सेत्यादि) यदि-आवश्यकस्य प्रस्तुतोऽनुयोगस्तर्हि किम् ?णमिति वाक्यालङ्कारे, किमिति परिप्रश्ने, किमेकं द्वादशाऽङ्गाऽन्तर्गतमङ्गमिदमुत बहून्यङ्गानि। अथैकः श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः , अध्ययनं चैकं बहूनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशकाः ? इत्यष्टौ प्रश्नाः / तत्र श्रुतस्कन्धोऽध्ययनानि चेदमिति प्रतिपत्तव्यम्। षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य। शेषास्तु षद प्रश्नाः अनादेयाः, अनङ्गादिरूपत्वात् / इत्येतदेवाह(आवस्सयस्स णमित्यादि) अत्राऽऽहनन्वावश्यकं कि मङ्गमङ्गानीत्येतत् प्रश्नद्वयमत्राऽनवकाशमेव, नन्द्यध्ययन एवाऽस्याऽनङ्ग प्रविष्टत्वेन निर्णीतत्वात्। तथाऽत्राऽप्यङ्गबाह्योत्कालिक क्रमेणाऽनन्तरमेवोक्त-त्वादिति। अत्रोच्यते- यत्तावदुक्तं नन्यध्ययन