________________ अणुओग ३५३-अभिधानराजेन्द्रः-भाग 1 अणुओग ग्राहणाकुशलः प्रतिपादनशक्त्युपेतः, स्वसमयं परसमयं वेत्तीति स्वसमयपरसमयविदः, स च परेणाऽऽक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वाहयति / गम्भीरोऽतुच्छस्वभावः / दीप्तिमान् परवादिनामनुद्धर्षणीयः / शिवोऽकोपनः / यदि वा यत्र तत्र वा विहरन् कल्याणकरः। सोमः शान्तदृष्टिः / गुणा मूलगुणा उत्तरगुणाश्च, तेषां शतानि तैः कलितो गुणशतकलितः / युक्तः समीचीनप्रवचनस्य द्वादशाङ्गस्य सारमर्थ कथयितुम्। कस्माद् गुणशतकलित इष्यते? इतिचेदत आहगुणसुट्ठियस्स वयणं,घयपरिसित्तु व्व पावओ भाइ। गुणहीणस्सन सोहइ, नेहविहूणो जह पईवो॥ यो मूलगुणादिषु गुणेषु सुस्थितस्तस्य वचनं घृतपरिसिक्तपावक इव भाति दीप्यते। गुणहीनस्य तु न शोभते वचनम्, यथा स्नेहेन विहीनः प्रदीपः / उक्तंच-"आयारे वट्टतो, आयारपरूवणा-असंकंतो। आयारपरिभट्ठो, सुद्धचरणदेसणे भइओ॥" गतं केन चेति द्वारम्। (17) अधुना कस्येतिद्वारमाहजइ पवयणस्स सारो, अत्थो सो तेण कस्स कायव्वो। एवं गुणन्निएणं, सव्वसुयस्सा उदेसस्सा?|| यदि प्रवचनस्य सारोऽर्थस्तर्हि स तेनैवंगुणाऽन्वितेन कस्य कर्तव्यः? किं सर्वश्रुतस्य, उत देशस्य श्रुतस्कन्धादेरिति। अत्र सूरिराहको कल्लाणं नेच्छइ, सव्वस्स वि एरिसेण वत्तव्यो। कप्पच्ववहारेण उ, पगयं सिस्साण थिज्जत्थं / / को नाम जगति कल्याणं नेच्छति / ततः सर्वस्यापि श्रुतस्याऽनुयोग ईदृशेन वक्तव्यः, केवलं कल्पो व्यवहारश्वाऽपवादबहुलः, तेन तयोरनुयोरे विशेषत एतादृशेन प्रकृतमधिकारः, एवं गुणयुक्ते नैव कल्पव्यवहारयोरनुयोगः कर्तव्य इत्यर्थः / कस्मादेवमुच्यते ? शिष्याणां स्थिरीकरणार्थम्। तदेवं स्थिरीकरणं भावयतिएसुस्सग्गठियप्पा, जयणाऽणुन्ना तादरिसंयतो वि। तासुन वट्टइ नूणं, निच्छयओ ता वि अकरिजा / / यदा नाम यथोक्तगुणशतकलितः कल्पव्यवहास्योरनुयोगं करोति, तदा शिष्या एवमेव बुध्यन्ते- एष स्वयमुत्सर्गस्थिताऽऽत्मा, अथ च कल्पे व्यवहारे च यतनया पञ्चकादिपरिहाणिरूपया प्रतिसेवनाः अनुज्ञाताः प्रदर्शयति। ततः प्रतिसेवनायतनया अनुज्ञाता अपि प्रदर्शयन् स्वयं तासु न वर्तते, किंतु केवलमुत्सर्गमाचरति, तदेवं ज्ञायते नूनम, निश्चयेनैता यतनया अनुज्ञाता अपि प्रतिसेवना अकरणीया न समाचरितव्याः। ततः श्रुतस्कन्धे च एक कस्मिन् निक्षेपश्चतुर्विधो भवति इति वक्तव्यः / एष द्वारगाथासमासार्थः / साम्प्रतमेनामेव विवरीषुः प्रथमतोऽनुयोगे अङ्गादे, पृच्छामाहजइ कप्पाइऽणुओगो, किं सो अंग उयाहु सुयखंधो। अज्झयणं उद्देसो, पडिवक्खंगादिणो बहवो।। यदि कल्पादेरादिशब्दाद् व्यवहारस्य ग्रहणमनुयोगस्ततः किं सोऽङ्गमुताऽहो ! श्रुतस्कन्धोऽध्ययनमुद्देशो वा / अमीषां चाऽङ्गानां प्रतिपक्षा बहवोऽङ्गादयो द्रष्टव्याः / इयमत्र भावना- यदि नामैतादृशेनाऽऽचार्येणाऽनुयोगः कल्पस्य व्यवहारस्य च कर्त्तव्यः, स कल्पो व्यवहारो वा किमङ्गमङ्गानि, श्रुतस्कन्धः श्रुतस्कन्धाः, अध्ययनमध्ययनानि, उद्देश उद्देशाः। ___ अत्र सूरिराहसुयखंधो अज्झयणा, उद्देसा चेव हुंति निक्खिप्पा। सेसाणं पडिसेहो, पंचण्ह वि अंगमाईणं / / श्रुतस्कन्धोऽध्ययनानि उद्देशा एते त्रयः पक्षा भवन्ति निक्षेप्याः , स्थाप्या आदरणीया इत्यर्थः / शेषाणां पञ्चानामप्यङ्गादीनां प्रतिषेधः। तद्यथा-कल्पो व्यवहारोवा नाऽङ्ग नाऽङ्गानि। श्रुतस्कन्धो, नो श्रुतस्कन्धाः। अध्ययनं नाऽध्ययनानि।नो उद्देश, उद्देशाः। तम्हा उनिक्खिविस्सं, कप्प व्ववहार सो सुयक्खंधं / अज्झयणं उद्देशं, निक्खिवियव्वं तु जंजत्थ // यस्मादेवं तस्मात्कल्पं निक्षेप्स्यामि, व्यवहारं निक्षेप्स्यामि, स्कन्ध निक्षेप्स्यामि, अध्ययन निक्षेप्स्यामि, उद्देशं निक्षेप्स्यामि यच यत्र निक्षेप्तव्यं नामादिचतुःप्रकारं षट्प्रकारं च तत्र वक्ष्यामि, तत्र कल्पस्य षविधो नामादिको निक्षेपः / यत उक्तं प्राग-द्वारगाथायाम् - 'कप्पछक्कनिक्खेवो' व्यवहारस्य चतुर्विधो नामादिनिक्षेपः / एतयोः स्वस्थानमाहआइल्लाणं दुण्ह वि, सट्ठाणं होइ नामनिप्फन्ने। अज्झयणस्स चउविहे, उद्देसस्सऽणुगमे मणिओ॥ आद्ययोर्द्वयोः कल्पव्यवहारयोर्यथाक्रमं षट्कस्य चतुष्कस्य निक्षेपस्य स्थानं भवति नामनिष्पन्ने निक्षेपे, ततः स तत्र वक्तव्यः। तत्र कल्पस्य पञ्चकल्पे, व्यवहारस्य पीठिकाया अध्ययनस्य चतुष्प्रकारो निक्षेप ओघनिष्पन्ने निक्षेपेऽभिधास्यते / उद्देशस्य चाऽनुगमे उपोद्घाते निर्युक्यनुगमे भणितः। संप्रति 'सुयखंधे निक्खेवो' इत्यादिव्याख्यानार्थमाहनामसुयं ठवणसुयं, दव्वसुयं चेव होइ भावसुयं / एमेव होइ खंधे, पन्नवणा तेसिं पुव्वुत्ता। श्रुतस्य चतुष्प्रकारोनामादिको निक्षेपः। तद्यथा- नामश्रुतं स्थापनाश्रुतं द्रव्यश्रुतं भावश्रुतं च / एवमेव अनेनैव प्रकारेण, स्कन्धेऽपि चतुष्प्रकारो निक्षेपः / तद्यथा- नामस्कन्धः, स्थापनास्कन्धः, द्रव्यस्कन्धः, भावस्कन्धश्च / एतेषां प्रज्ञापना पूर्वमावश्यके उक्ताऽवधारणीया / गतं कस्येति द्वारम्! बृ०१ उ०। (18) इदमेव सप्तमं द्वारं चेतसि निधाय सूत्रकृदाहनाणं पंचविहं पण्णत्तं तंजहा-आमिणिबोहियनाणं सुयनाणं, ओहियणाणं, मणपञ्जवणाणं, केवलनाणं यदि नाम ज्ञानं पञ्चविधं प्रज्ञाप्तं, ततः किमित्याह किञ्च जो उत्तमेहिँ पहओ, मग्गो सो दुग्गमो न सेसाणं / आयरियम्मि जयंते, तदणुचरा केण सीइज्जा ?|| य उत्तमैर्गुरुभिः प्रहतः क्षुण्णो मार्गः पन्थाः , स शेषाणां दुर्गमो न भवति, किंतु सुगमः, तत्र आचार्ये यतमाने यथोक्तसूत्रनीत्या प्रयत्नवति, तदनुचरास्तदाश्रिताः शिष्याः केन हेतुना सीदेयुः ? नैव सीदेयुरिति भावः। तत एतेन कारणेन कल्पव्यवहारयोरनुयोगे विशेषत एतादृशेन प्रकृतम्। अणुओगम्मिय पुच्छा, अंगाइ अकप्पछक्कनिक्खेदो। सुयखंधे निक्खेवो, इक्केके चउविहो होई॥ अनुयोगे अङ्गादेः पृच्छा वक्तव्या, तदनन्तरं कल्पस्य षट्के निक्षेपः,