________________ अणुओग 352- अभिधानराजेन्द्रः - भाग 1 अणुओग गाढनिब्बंधकए कहियं, जहा- तुडभे निव्वेएण सुवन्नभूमीए सागराणां सगासं गया, एवं कहित्ता ते खरिंटिया। तओ ते तह चेव उचलिया सुवन्नभूमि गंतुं, पंथे लोगो पुच्छइ- एस कयरो आयरिओ जाइ? ते कहिंति- अज्जकालगा, तओ सुवन्नभूमीए सागराणं लोगेण कहियं- जहा अजकालगा नाम आयरिया बहुस्सुया बहुपरिवारा इहाऽऽगंतुकामा पंथे वटुंतिताहे सागरो सिस्साणं पुरओ भणतिमम अज्जया इंति, तेसिं सगासे पयत्थे पुच्छीहामि त्ति / अचिरेणं ते सीसा आगया, तत्थ अग्गिल्लेहिं पुच्छिज्जति- किं इत्थ आयरिया आगया चिटुंति? नत्थिं, नवरं अन्ने खंता आगया, केरिसा? वंदिए नायं, एए आयरिया ताहे सागरो लजिओ बहुं, मए इत्थं पलवियं, खमासमणा य वंदाविया / ताहे अवरण्हवेलाए मिच्छादुक्कडं करेइ, आसाइय त्ति / भणियं चाऽणेण- केरिसं खमासमणो ! अहं वागरेमि? आयरिया भणंति- सुंदरं, मा पुण गव्वं करिजासि / ताहे धूलीपुंजदिद्वंतं करेंति, धूली हत्थेण धेत्तुं तिसट्टाणेसु उयारिति, जहा- एस धूली ठविजमाणी ओखिप्पमाणी ओखिप्पमाणी सव्वत्थ परिसडइ ।एवं अत्थो वि तित्थगरेहिंतो गणहराणं, गणहरेहिंतो जाव अम्हं आयरियं उवज्झायाणं परंपरएण आगयं, को जाणइ कस्स केइ पजाया गलिया? तो मा गव्वं काहिसि, ताहे मिच्छादुक्कडं करित्ता आढत्ता अज्जकालिया सीसपसीसाणं अणुओगं कहेउ। संप्रत्यक्षरगमनिका-सागारिका शय्यातरस्तस्य 'अप्पाहणं' संदेशकथनं, स्वयमाचार्याणां सुवर्णभूमौ श्रुतशिष्यस्याऽपि शिष्यस्य सागराऽभिधानस्य 'खंतलक्खेण वृद्धव्याजेन गमनं, पश्चात् शिष्याणां साग रिकेण कथना- यथाऽऽचार्याः सुवर्णभूमौ सागरस्याऽन्तिकं गताः, ततः शिष्याणां तत्राऽऽगमनं, सागरं गर्वमुद्वहन्तं प्रति धूलीपुञ्जोपमानमिति। चतुर्थभङ्गमधिकृत्याहनिउत्तो उभयकालं, भयवं कहणाइ वद्धमाणाओ। गोयममाई विसया, सोयव्वे हुंति उनिउत्ता ||1|| नियुक्त उभयकालमनुयोगं करोति, नियुक्ता उभयकालं शृण्वन्ति / अत्र कथनायां दृष्टान्तो- भगवान् वर्द्धमानस्वामी, श्रोतव्ये सदा नियुक्ता दृष्टान्ता भवन्ति गौतमादयः। ('वायणा' शब्दे चैतद् विस्तरतो वक्ष्यते) गतं प्रवृत्तिद्वारम् / बृ०१ उ०। अनु०। (15) उद्यमी सूरिरुद्यमिनः शिष्याः 1, उद्यमी सूरिरनुद्यमिनः शिष्याः 2, अनुद्यमी सूरिरुद्यमिनः शिष्याः 3, अनुद्यमी सूरिरनुद्यमिनः शिष्याः 4. इति चतुर्भङ्गी। अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीयतृतीययोस्तु कदाचित्कथञ्चिद् भवत्यपि। अनु०॥ एत्थं पुण अहिगारो, सुयणाणेणं जओ सुएणं तु / सेसाणमप्पणो विय, अणुओगपईवदिट्ठतो।। श्रुतस्य चोद्देशादयः प्रवर्त्तन्त इति / उक्तं च- 'सुयणाणस्स उद्देसो समुद्देशो अणुण्णा अणुओगो य पवत्तइ' तत्राऽऽदावेवोद्दिष्टस्य समुद्दिष्ट स्य समनुज्ञातस्य च सतोऽनुयोगो भवतीति / अतो नियुक्तिकारेणाऽभ्यधायि श्रुतज्ञाने अनुयोगेनाऽधिकृतमिति / (16) इदानीं केनाऽनुयोगः कर्त्तव्यः? इति द्वारमाहदेसकुलजाइरूवी, संहणणी धिइजुओ अणासंसी। अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को / / जियपरिसो जियनिहो, मज्झत्थो देसकालभावन्नू। आसन्नलद्धपइभो, नाणाविहदेसभासन्नू॥ पंचविहे आयारे, जुत्तो सुत्तत्थ-तदुभयविहिन्नू। आहरण हेउं उवयण-नयनिउणो गाहणाकुसलो / / ससमयपरसमयविओ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं / / युतशब्दः प्रत्येकमभिसंबध्यते / देशयुतः कुलयुत इत्यादि / तत्र यो मध्यदेशे जातो यावदर्द्धषइविंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितंजानाति, ततः सुखेन तस्य समीपे शिष्या अधीयते इति, तदुपादानम् 1, कुलं पैतृकं, तथाच लोके व्यवहारः, इक्ष्वा-कुकुलजोऽयं, नाग(ज्ञात)कुलजोऽयमित्यादि। तेन युतः प्रतिपन्नार्थनिर्वाहको भवति 2, जातिर्मातृकी तया युतो विनया-ऽऽदिगुणवान् भवति 3, रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, “यत्राऽऽकृतिस्तत्र गुणा वसन्ति'' इति प्रवादात् 4, संहननयुतो व्याख्यायां न श्राम्यति 5, धृतियुतो नाऽतिगहनेषु अर्थेषु भ्रममुपयाति 6, अनाशंसी श्रोतृभ्यो वस्त्राद्यनाकाक्षी७, अविकत्थनो नाऽतिबहुभाषी 8, स्थिरोऽतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुयोगपरिपाट्यो यस्य स स्थिरपरिपाटी, तस्य हि सूत्रमर्थो वा न मनागपि गलति, गृहीतवाक्य उपादेयवचनः, तस्य ह्यल्पमति वचनं महार्थमिव प्रतिभाति 10, जितपरिषत् महत्यामपि पर्षदि न क्षोभमुपयाति 11, जितनिद्रो रात्री सूत्रमर्थं वाचयन् परिभावयन् वा न निद्रया बाध्यते 12, मध्यस्थः सर्वेषु शिष्येषु समचित्तः 13, देशं कालं भायं च जानातीति देशकालभावज्ञः / स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां वाऽभिप्रायान् ज्ञात्वा तान् सुखेनाऽनुवर्त्तयति 14, आसन्नलब्धप्रतिभः परवादिना समाक्षिप्तः शीघ्र मुत्तरदायी / नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः१५, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति 16, पञ्चविध आचारो ज्ञानाचारादिरूपस्तस्मिन् युक्तः स्वयमाचारेष्वस्थितस्याऽन्यानाचारेषु प्रवर्तयितुमशक्यत्वात् 17, सूत्राऽर्थग्रहणेन चतुर्भङ्गी सूचिता। एकस्य सूत्रं, नाऽर्थः 1, द्वितीयस्याऽर्थो न सूत्रम् 2, तृतीयस्य सूत्रमप्यर्थोऽपि 3, चतुर्थस्य न सूत्रं , नाऽप्यर्थ : 4, तत्र तृतीयभङ्गग्रहणाऽर्थं तदुभयग्रहणं सूत्राऽर्थ तदुभयविधीन् जानातीति सूत्रार्थतदुभयविधिज्ञः 18, आहरणं दृष्टान्तः१६, हेतुश्चतुर्विधो ज्ञापकादिर्यथा-दशवैकालिकनियुक्तौ, यदिवा द्विविधो हेतु:-कारको ज्ञापकश्च / तत्र कारको- घटस्य कर्ता कुम्भकारः / ज्ञापको यथातमसि घटादीनामभिव्यञ्जकः प्रदीपः 20, उपनय उपसंहारः२१,नया नैगमादयः, एतेषु निपुण आहरणहेतूपनयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः क्वचित् दृष्टान्तोपन्यासं क्वचिद् हेतूपन्यास करोति। उपसंहारनिपुणतया सम्यगधिकृतमुपसंहरति / नयनिपुणतया नययक्तव्यताऽवसरे सम्यक् प्रपञ्चं वैविक्त्येन नयानभिधत्ते /